समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 386, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२१ अन्वीक्ष्य विपचेत् तद्वत् स्थपतिः सर्वमाचरेत् । यदुक्तं यदनुक्तं च तत् समग्रमपि स्फुटम्¹ ॥ १६९ ॥ (युक्ता)²युक्तं समालोच्य यथाशोभं समाचरेत् । आरभ्य मेरोरिति षोडशैते प्रासादमुख्याः कथिता यथावत् । संक्षेपतो लक्ष्म तथा जगत्यां द्वारादिसम्बन्धि च(द्वा ?) दारुमानम्४ ॥ १७० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारऽपरनाम्नि वास्तुशास्त्रे मेर्वादिशोडशप्रासादलक्षणं जगतीलक्षणं द्वारादिकला नाम ( पञ्चमो ? पञ्चपञ्चाशो )ऽध्यायः ॥ अथ रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । अथान्तः सम्प्रवक्ष्यामि प्रासादाञ् शिखरान्वितान् । रुचकादींश्चतुःषष्टिं नामलक्षणतः क्रमात् ॥ १ ॥ पूर्वं यानि विमानानि पञ्चोक्तान्यभवंस्ततः । तदाकारभृतः सर्वे प्रासादाः पञ्चविंशतिः ॥ २ ॥ शिखरैर्विविधाकारैरेकेनाण्डेन भूषिताः । केचिदण्डत्रयोपेताः केचित् पञ्चाण्डकान्विताः ॥ ३ ॥ ईषद्भेदेन ते ज्ञेयाः प्रासादाः सर्वकामदाः । सौवर्णा राजताश्चैव देवानां सततं प्रियाः ॥ ४ ॥ मणिमुक्ताप्रवालाद्यैर्भूषणैः सुविभूषिताः । रीतिकाताम्रघोषाद्यैः पिशाचोरगरक्षसाम् ॥ ५ ॥ देवलोका भवन्त्येते कामस्वच्छन्दचारिणः । पाताले चापि निर्दिष्टाः पाषाणैः स्फटिकैस्तथा ॥ ६ ॥ १ द. स्फटं । २ द. मुक्तामुक्तं । ३ द. न्या । ४ द. नाम् । ५ द. णं । ६ द. णं । ७ द. पूर्वं । ८ द. राँ । वा. ४१