समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 387, कुल 726 में से
संदर्भ में पढ़ें३२२ समराङ्गणसूत्रधारे इष्टकाकाष्ठपाषाणैर्मर्त्यलोकेऽपि नन्दकाः । सुखदाश्च भवन्त्येते कर्तुः कारयितुस्तथा ॥ ७ ॥ लक्षणेनान्वितानेतान् कथयामो यथाविधि । पुराणां भूषणार्थाय भुक्तिमुक्तिप्रदा नृणाम् ॥ ८ ॥ रुचको भद्रकश्चैव हंसो हंसोद्भवस्तथा । प्रतिहंसस्तथा नन्दो१ नन्द्यावर्तो धराधरः ॥ ९ ॥ वर्धमानोऽद्रिकूटश्च श्रीवत्सोऽथ त्रिकूटकः । मुक्तकोणो गजश्चैव गरुडः सिंह एव च ॥ १० ॥ भवश्च विभवश्चैव पद्मो मालाधरस्तथा । वज्रकः स्वस्तिकः शङ्कुर्मलयो मकरध्वजः ॥ ११ ॥ इत्येते नामतः प्रोक्ताः प्रासादाः पञ्चविंशतिः । एतेषां रूपनिर्माणं कथयामो यथाविधि२ ॥ १२ ॥ रुचका(द्ये३)ष्टादशैषां चतुरश्राः प्रकीर्तिताः । भवश्च विभवश्चैव चतुरश्रायतनोऽथर्वा४ ॥ १३ ॥ पद्मो मालाधरश्चैव वृत्तावेतावुदाहृतौ । मलयो मकराँ५ख्योऽथ द्वौ तु वृत्तायताविमौ ॥ १४ ॥ वज्रकः स्वस्तिकः शङ्कुरित्थमष्टाश्रयस्त्रयः । ललिताँ६: कथिता ह्येते ब्रूमोऽन्यान मिश्रकानथ ॥ १५ ॥ सुभद्रो यौ७किटश्च(?) सर्वतोभद्र एव च । सिंहकेसरिसंज्ञोऽन्यश्चित्रकूटो धराधरः८ ॥ १६ ॥ तिलकाख्यः९ श्वेततिलकस्तथा सर्वाङ्गसुन्दरः । नवामी मिश्रकाः प्रोक्ताः कथ्यन्ते (सांध१०कारिकाः ?) ॥ १७ ॥ केसरी सर्वतोभद्रो नन्दनो नन्दि११शालकः । नन्दीशो१२ मन्दिराख्यश्च श्रीवृक्षश्चामृतोद्भवः ॥ १८ ॥ १ द. न्द । २ द. धिः । ३ द. ˚द्याः षोड˚ । ४ द. तौ तथा । ५ द. मकरांकोऽथ । ६ द. लतिनः कं । ७ द. ˚द्रोऽथ किरीटश्च सं˚ । ८ द. ˚र । ९ द. श्रीति˚ । १० द. सां˚ । ११ द. नन्दशा˚ । १२ द. नँदशो मंद˚ ।