समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 388, कुल 726 में से
संदर्भ में पढ़ेंहिमवान् हेमकूटश्च कैलासः पृथिवीजयः । इन्द्रनीलो महानीलो भूधरो रत्नकूटकः ॥ १९ ॥ वैडूर्यः पद्मरागश्च वज्रको मुकुटोत्कटः । ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥ २० ॥ मेरुः प्रासादराजश्च देवानामालयो हि सः । १+ संयोगे तु संधारान् कथयामो यथाविधिं२ ॥ २१ ॥ लनात्रिपुष्कराख्यौ च पञ्चवक्त्रश्चतुर्मुखः । नवात्मकश्च निर्गूहैः प्रासादाः पञ्च संज्ञिताः ॥ २२ ॥ आद्यः पञ्चाण्डकः कार्यः प्रासादः केसरीति यः । सर्वतोभद्रको यस्तु विधेयः स नवाण्डकः ॥ २३ ॥ त्रयोदशाण्डकस्तु स्यान्नन्दनो नाम यो भवेत् । नन्दिशालस्तु यः प्रोक्तः स स्यात् सप्तदशाण्डकः ॥ २४ ॥ अण्डकैरेकविंशत्या नन्दीशः परिवारितः । पञ्चविंशाण्डकोपेनं मन्दरं कारयेद् बुधः ॥ २५ ॥ श्रीवृक्षः शस्यते चैतेष्वेकोनत्रिंशताण्डकैः । स्यात् त्रयस्त्रिंशताण्डैस्तु प्रासादो ह्यमृतोद्भवः ॥ २६ ॥ अण्डकैः क्रियते सप्तत्रिंशता हिमवानपि । सैकया हेमकूटस्तु स्याच्चत्वारिंशताण्डकैः ॥ २७ ॥ पञ्चचत्वारिंशताण्डैः कैलासो नाम नामतः । भवत्येकोनपञ्चाशदण्डकः पृथिवीजयः ॥ २८ ॥ इन्द्रनीलश्च यः प्रोकारः (क्तः स त्रि)पञ्चशताण्डकैः । सप्तपञ्चाशता युक्तो महानीलस्तथाण्डकैः ॥ २९ ॥ एकषष्ट्यण्डकोपेनं प्रासादो भूधरो भवेत् । पञ्चषष्ट्यण्डकैर्युक्तो रत्नकूटः प्रशस्यते ॥ ३० ॥ नवषष्ठ्यण्डकः कार्यो वैडूर्यः शुभलक्षणः । त्रिसप्तत्यण्डकयुतः पद्मरागो विधीयते ॥ ३१ ॥ १ द. संयोगेन तु सं' । २ द. धिः । ३ द. ˚ड प्रा˚ । ४ द. प्येकोन˚ । ५ द. वैडूर्यः ।