समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 389, कुल 726 में से
संदर्भ में पढ़ें३२४ समराङ्गणसूत्रधारे अण्डकैः सप्तसप्तत्या प्रासादो विजयाभिधः¹ । एकाशीत्यण्डकोपेतो विधेयो मुकुटोत्कटः ॥ ३२ ॥ ऐरावतस्तु पञ्चाशीत्यण्डकः परिकीर्तितः । नवाशीत्यण्डकैर्युक्तो राजहंसः प्रशस्यते ॥ ३३ ॥² नवत्या सप्तयुतया प्रासादो वृषभो³ऽण्डकैः । शतेनैकोत्तरेणाण्डैर्मेरुः प्रासादराट् स्मृतः ॥ ३४ ॥ हरेर्हिरण्यगर्भस्य + + +⁴ भास्करस्य च । मेरुरेष विधातव्यो नान्यस्य त्रिदिवौकसः ॥ ३५ ॥ मेरोः प्रासादराजस्य देवानामहालयस्य च । कर्ता क्षत्रिय एवास्य वैश्यै( द्वयोऽ)स्य स्थपतिर्भवेत् ॥ ३६ ॥ एवं विधीयमानेऽस्मिन् मेरौ द्वावपि नन्दतः । वास्तुशास्त्रविधिज्ञोऽपि क्षत्रियः स्थपतिर्यदि ॥ ३७ ॥ तदास्य सत्यं शौचं च विक्रमश्च विनश्यति । ईश्वरोऽपि यदा विप्रो मेरुप्रासादकृद् भवेत् ॥ ३८ ॥ कर्तुः कारयितुः पीडा पूजा चास्य न तादृशी । ब्राह्मणः स्थपतिश्चास्य वास्तुशास्त्रे विशारदः ॥ ३९ ॥ वणिक्कर्मणि वर्तेत धनवानपि यद्यसौ । सर्वविप्रेषु निर्दिष्टः कर्ता स्थपतिरेव सः⁹ ॥ ४० ॥ तत्रस्था¹¹ देवताः सर्वास्तस्य वृद्धिः कथञ्चन । वास्तुशास्त्रविधिज्ञोऽपि तच्चैत् कारयिता यदि¹³ ॥ ४१ ॥ राजापि क्षत्रियः कर्ता मेरु( रो )¹²र्भवेत् तदा । राष्ट्रभङ्गो भवेत् तस्य प्रजा यान्ति दिशो दश ॥ ४२ ॥ १ द. वज्रकाभिधः। २ द. त्रिनवत्यंडकैर्युक्तो गरुडाख्यः प्रशस्यते। ३ द. भा०। ४ द. ०स्य हरप्य भा०। ५ द. वैश्यश्च स्थ०। ६ द. वे०। ७ द. ०ति श्तेस्याद्वास्तुशास्त्र त्रि०। ८ वणिग्धर्मेन व०। ९ द विद्विष्टः। १० द. च। ११ द. अपूज्या देवतास्तत्र न स्याद्वृद्धिः कदाचन। १२ द. शूद्रः। १३ द. दा।