समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 390, कुल 726 में से
संदर्भ में पढ़ेंरुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२५ क्षत्रियेण नरेन्द्रेण कर्ता स्थपतिना यदि^१ (?)। मेरोः पूजा भवेत् तत्र^२ क्षत्रियोऽप्यक्षयं पदम् ॥ ४३ ॥ एकैकस्य च^३ यन्मानं सकर्णस्य^४ च यद्दृशम् । प्रासादानां च सर्वेषां तत् सम्यगभिधीयते ॥ ४४ ॥ चतुरश्रीकृते क्षेत्रे चतुर्भागैर्विवर्जिते^५ । भागिका सर्वतो भित्तिः शेषं गर्भगृहं भवेत् ॥ ४५ ॥ तस्याग्रतः पुनः कार्यो भागद्वयविनिर्गतः । विस्तारेण त्रिभागश्च प्राग्ग्रीवः स्तम्भभूषितः ॥ ४६ ॥ पीठोत्सेधस्य भागेन भवेज्जङ्घा द्विभागिका । भागार्थं^६ तरं पत्रं(?) पादेन स्याद् वरण्डिका ॥ ४७ ॥ सपादांश्चतुरो भागान् शिखरस्योच्छ्रयः स्मृतः । त्रिगुणेन च सूत्रेण पद्मकोशं समालिखेत् ॥ ४८ ॥ स्कन्धकोशान्तरं चास्य भागैः प्रविभजेत् त्रिभिः । भवेद् ग्रीवार्धभागेन भागेनामलसारकम् ॥ ४९ ॥ पद्मशीर्षं च भागार्धाद् भागेन ( + लसी: ?)^८स्मृतः । इत्युक्तो रुचकाख्योऽयं रुचकः ॥ भद्रकाख्योऽथ कथ्यते ॥ ५० ॥ ++++++++++++++।^९ ++++++++++++++ ॥ ५१ ॥ भद्रक ॥ भद्रं^९ तु कर्णयोर्मध्ये कारयेदुदकान्तरम् । तदा हंसो विजानीयात् प्रासादो देवालयः ॥ ५२ ॥ हंसः ॥ १ द. विशा । २ द. तत्र स्यात्तयोश्चाक्षयं पदम् । ३ द. तु । ४ द. ०न लक्षणं यस्य यादृशम् । ५ द. विभाजिते । ६ द. भागार्द्धं वान्तरं पत्रं । ७ द. ०दं च० । ८ द. कलशः । ९ द. भवेद्रुचक एवात्र भद्रो भद्रत्रयान्वितः । भद्रं द्विभागविस्तारं पदपड्भागनिर्गमम् ॥ भद्रकः ॥ १० द. तोयान्तरं ते भद्रस्य मध्ये स्याद्द्रुकर्णयोः । तदा हंस इति ख्यातः प्रासादोऽति मनोहरः ॥