समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 431, कुल 726 में से
संदर्भ में पढ़ें३६८ समराङ्गणसूत्रधारे आरोग्यं पुत्रलाभश्च भवेद् विजयकारिणाम् । तेषां तुष्यति षड्वक्त्रो भक्त्या ये विदधत्यमुम् ॥ २०० ॥ विजयभद्रः ॥ अधुना श्रीनिवासाख्यः प्रासादः सम्यगुच्यते । तृप्त्यर्थमेव क्रियते जयश्रीस्तत्र तिष्ठति ॥ २०१ ॥ चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः । अन्धारिका च भित्ते(त्ति)श्च पदे द्वे द्वे यथाक्रमम् ॥ २०२ ॥ गर्भश्च षट्पदः कार्यः श्रीनिवासस्य सुन्दरः । कन्दे स्युर्द्विपदाः कर्णा भागेन सलिलान्तरम् ॥ २०३ ॥ भद्रं चतुष्पदं कार्यं पदेनैकेन निर्गतम् । बाह्याः स्युस्त्रिपदाः कर्णा भद्रैश्च द्विपदैर्युताः ॥ २०४ ॥ भद्रं चतुर्थकर्णेषु(तु) पदेनैकेन निर्गतम् । कोणकोणाश्च कर्तव्याः पदस्यार्धं समायताः ॥ २०५ ॥ पदेनाम्बुधरः कार्यः प्रवेशाद् विस्तृतेरपि । विस्तारात् षट्पदं भद्रं पदद्वितयनिर्गमम् ॥ २०६ ॥ नीरस्यालान्तरे(?) कार्या(:) तिलका द्वयंशविस्तृताः । पदेनैकेन निष्क्रान्ताः शोभिताश्चारुकर्मणा ॥ २०७ ॥ ऊर्ध्वमानमथ ब्रूमः श्रीनिवासे यथाक्रमम् । खुरकस्योच्छ्रितिः पीठे पादोनं पदमिष्यते ॥ २०८ ॥ कुर्यात् सपादो(दे)नांशेन जाड्यकुम्भ(:?)समुच्छ्रितम् । भागेनान्तरपत्रे तु भागेनैकेन मेखलाम् ॥ २०९ ॥ पीठोत्सेधश्चतुर्भागः श्रीनिवासे भवेदिति । वेदीबन्धस्य खुरको भागार्धेन समुन्नतः ॥ २१० ॥ ; कुम्भकः सार्धभागेन तदर्धेन मे + + + । १ द. द् । २ द. णं । ३ द. 'मसूरकम्' इति स्यात् ।