भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 432, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 432

मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६९ [ इत ऊर्ध्वमादर्शग्रन्थे द्वे पत्रे ( १६८, १६९ तमे ) लुप्ते । तयोराहत्य उपपञ्चाशाः श्लोका नष्टाः संभाव्यन्ते । ] ++++++++++++ पञ्जरात् ॥ त्रिभागेन तु भागस्य अष्टशृङ्गस्य(?) पक्षकः । नष्टशृङ्गस्य(?) शृङ्गस्य चान्तरे सलिलान्तरम् ॥ अन्योन्यं शृङ्गनिष्कासो भागेनैकेन शस्यते । दशभागायतं भद्रं चतुर्थांशेन निर्गम(तम्) ॥ एवमेष तलच्छन्दः कथितः सुरसुन्दरे । ऊर्ध्वमानमथ ब्रूमो भागशुद्ध्या यथाक्रमम् ॥ पीठादारभ्य विस्तारो (राद्) द्विगुणा स्यात् समुन्नतिः । उपपीठेऽप्यलंकुर्याद् भागमेकं समुन्नतम् ॥ पदेन पादहीनेन ( गजा ? ) द्वारसमुन्नतिः । उच्छ्रितिर्जाड्यकुम्भस्य सार्धभागा विधीयते ॥ कलशोत्तरपत्रे च पादहीनपदोन्नते ( : ? ) । अस्यादूर्ध्वं तु कर्तव्या पदार्धं ग्रासपट्टिका (?) ॥ ( आयपीतोच्छदा प्रोक्ता मूलभूतोभिवास्तुनः ?) । खुरकश्च पदार्धेन (सार्धभागे कुम्भपूरकः ? ) ॥ भागेनैकेन कलशः समवृत्तोऽतिसुन्दरः । भागं सपादं कुर्वीत मेखलान्तरपत्रके ॥ षड्भागेनु (नो) च्छ्रिता जङ्घा भागार्धं ग्रासपट्टिका । कर्णे चैकेन भागेन भागार्धं (कुंणपो?) भवेत् ॥ भागेन हीरकं कुर्याद् यथा शोभा प्रजायते । मेखलान्तरपत्रे च सार्धभागेन कारयेत् ॥ ऊर्ध्वतः पदयोर्मध्ये स्यात् सार्धद्वादशांशकम् । तन्मध्ये सार्धभागं तु राजसेनं सपट्टकम् ॥ १ ' कोणयोः' इति स्यात् । वा. ४७