समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 433, कुल 726 में से
संदर्भ में पढ़ें३७० समराङ्गणसूत्रधारे। द्वौ भागौ वेदिका भागस्यार्धमासनपट्टकः । भागं चन्द्रावलोकं स्यात् स्तम्भमासनमूर्धनि ॥ निवेशयेत् पश्चभागं भरणं भागिकं ततः । भागमेकं समुच्छ्रायां ( यः ) शीर्षकं द्विगुणायतम् ॥ पट्टस्य कुर्यादुत्सेधं भागमर्धसमन्वितम् । सार्धभागद्वयं बाह्यं ( तद्रूपं दूतावलं छिवितम् ? ) ॥ द्वौ भागौ छाद्यकस्योर्ध्वे कार्या वासनपट्टिका । विराजमाना सा कार्या रूपग्रासवरालकैः ॥ मेखलान्तरपत्रेषु ( तु ) भागाद् रूपसमन्विते । भागद्वयेन कर्तव्या द्वितीया मेखला बुधैः ॥ कूटान्यतः परं कुर्यात् कर्मयुक्तानि सर्वतः । कूटेषु कुर्यात् प्रत्येकं सिंहकुम्भसमन्वितम् ( ? ) ॥ उरोमञ्जरिका तानि भवत्येव ( ? ) यथाक्रमम् । अष्टाण्डकत्रयान्तेषु षडण्डं स्याच्चतुष्टयम् ॥ चतुरण्डं द्वयं कृत्वा त्वेवं कर्णे विदुर्बुधाः ( ? ) । नव कुण्डानि(?) तुल्यानि विस्तारेण पदद्वयम् ॥ सार्धं भवति प्रत्येकं सार्धमुच्चैः पदद्वयम् । एवं ( निकर्तं एकैकं स्यात् ? ) तत्पदं वांशदण्डकम् ॥ सिंहकर्णः षडुच्छ्रायो भद्रे स्यात् प्लवविस्तृतिः । द्वितीय( श्चानुदन्तश्च ? ) शोभितश्चारुकर्मणा ॥ तृतीयो द्विपदः कार्यः सिंहकर्णो मनोरमः । विस्तारो मूलमञ्जर्याश्चतुर्दशपदो भवेत् ॥ भागसप्तदशोच्चे तु मातृभिः( ? ) पद्मकोशवत् । स्कन्धश्चाष्टपदः प्रोक्तो ग्रीवा सार्धपदोच्छ्रिता ॥ द्विपदश्चाण्डकोत्सेधश्चन्द्रिकार्धपदोन्नतः( ता ) । कलशं त्रिपदं प्राहुर्मातुलिङ्गस्य( स )मुद्भवम् ॥