समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३६९ [ इत ऊर्ध्वमादर्शग्रन्थे द्वे पत्रे ( १६८, १६९ तमे ) लुप्ते । तयोराहत्य उपपञ्चाशाः श्लोका नष्टाः संभाव्यन्ते । ] ++++++++++++ पञ्जरात् ॥ त्रिभागेन तु भागस्य अष्टशृङ्गस्य(?) पक्षकः । नष्टशृङ्गस्य(?) शृङ्गस्य चान्तरे सलिलान्तरम् ॥ अन्योन्यं शृङ्गनिष्कासो भागेनैकेन शस्यते । दशभागायतं भद्रं चतुर्थांशेन निर्गम(तम्) ॥ एवमेष तलच्छन्दः कथितः सुरसुन्दरे । ऊर्ध्वमानमथ ब्रूमो भागशुद्ध्या यथाक्रमम् ॥ पीठादारभ्य विस्तारो (राद्) द्विगुणा स्यात् समुन्नतिः । उपपीठेऽप्यलंकुर्याद् भागमेकं समुन्नतम् ॥ पदेन पादहीनेन ( गजा ? ) द्वारसमुन्नतिः । उच्छ्रितिर्जाड्यकुम्भस्य सार्धभागा विधीयते ॥ कलशोत्तरपत्रे च पादहीनपदोन्नते ( : ? ) । अस्यादूर्ध्वं तु कर्तव्या पदार्धं ग्रासपट्टिका (?) ॥ ( आयपीतोच्छदा प्रोक्ता मूलभूतोभिवास्तुनः ?) । खुरकश्च पदार्धेन (सार्धभागे कुम्भपूरकः ? ) ॥ भागेनैकेन कलशः समवृत्तोऽतिसुन्दरः । भागं सपादं कुर्वीत मेखलान्तरपत्रके ॥ षड्भागेनु (नो) च्छ्रिता जङ्घा भागार्धं ग्रासपट्टिका । कर्णे चैकेन भागेन भागार्धं (कुंणपो?) भवेत् ॥ भागेन हीरकं कुर्याद् यथा शोभा प्रजायते । मेखलान्तरपत्रे च सार्धभागेन कारयेत् ॥ ऊर्ध्वतः पदयोर्मध्ये स्यात् सार्धद्वादशांशकम् । तन्मध्ये सार्धभागं तु राजसेनं सपट्टकम् ॥ १ ' कोणयोः' इति स्यात् । वा. ४७
३७० समराङ्गणसूत्रधारे। द्वौ भागौ वेदिका भागस्यार्धमासनपट्टकः । भागं चन्द्रावलोकं स्यात् स्तम्भमासनमूर्धनि ॥ निवेशयेत् पश्चभागं भरणं भागिकं ततः । भागमेकं समुच्छ्रायां ( यः ) शीर्षकं द्विगुणायतम् ॥ पट्टस्य कुर्यादुत्सेधं भागमर्धसमन्वितम् । सार्धभागद्वयं बाह्यं ( तद्रूपं दूतावलं छिवितम् ? ) ॥ द्वौ भागौ छाद्यकस्योर्ध्वे कार्या वासनपट्टिका । विराजमाना सा कार्या रूपग्रासवरालकैः ॥ मेखलान्तरपत्रेषु ( तु ) भागाद् रूपसमन्विते । भागद्वयेन कर्तव्या द्वितीया मेखला बुधैः ॥ कूटान्यतः परं कुर्यात् कर्मयुक्तानि सर्वतः । कूटेषु कुर्यात् प्रत्येकं सिंहकुम्भसमन्वितम् ( ? ) ॥ उरोमञ्जरिका तानि भवत्येव ( ? ) यथाक्रमम् । अष्टाण्डकत्रयान्तेषु षडण्डं स्याच्चतुष्टयम् ॥ चतुरण्डं द्वयं कृत्वा त्वेवं कर्णे विदुर्बुधाः ( ? ) । नव कुण्डानि(?) तुल्यानि विस्तारेण पदद्वयम् ॥ सार्धं भवति प्रत्येकं सार्धमुच्चैः पदद्वयम् । एवं ( निकर्तं एकैकं स्यात् ? ) तत्पदं वांशदण्डकम् ॥ सिंहकर्णः षडुच्छ्रायो भद्रे स्यात् प्लवविस्तृतिः । द्वितीय( श्चानुदन्तश्च ? ) शोभितश्चारुकर्मणा ॥ तृतीयो द्विपदः कार्यः सिंहकर्णो मनोरमः । विस्तारो मूलमञ्जर्याश्चतुर्दशपदो भवेत् ॥ भागसप्तदशोच्चे तु मातृभिः( ? ) पद्मकोशवत् । स्कन्धश्चाष्टपदः प्रोक्तो ग्रीवा सार्धपदोच्छ्रिता ॥ द्विपदश्चाण्डकोत्सेधश्चन्द्रिकार्धपदोन्नतः( ता ) । कलशं त्रिपदं प्राहुर्मातुलिङ्गस्य( स )मुद्भवम् ॥
मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७१ मध्ये तु मूलमञ्जर्याः कुर्वीत शिखरत्रयम् । सुरेखं सुप्रसन्नं च सर्वदेशिविभूषितम् ॥ षट्पञ्चाशं (?) भवेदस्मिन्नण्डकानां शतद्वयम् । एवं श्रेष्ठोऽयमाख्यातः प्रासादोऽण्डकमानतः ॥ सप्त( शत )मेकान्नसतत्या युतं स्यान्मध्यमे पुनः । एकोत्तरं शतं (तं ) प्राहुरण्डकानां कनीयसाम( सि ) ॥ मन्दारकुसुमाकाराण्या(ण्येता)नि सुरसुन्दरे । कुर्याद् ( य ) एनं प्रासादमीदृशं सुरसुन्दरम् ॥ स वैरिञ्चं (यु) गशतं सूर्यलोके महीयते । सुरसुन्दरः ॥ नन्द्यावर्तमथ ब्रूमः प्रासादं नृपवृद्धिदम् ॥ भूषितं मना(नाग)कन्याभिर्वल्लभं पृथिवीभुजाम् । चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥ पदद्वयमिदं यन्त्र नादाय(?) ब्रह्मणः पदात् । वृत्तं समालिखेद् गर्भा वस्मैलं च तुलं(?) भवेत् ॥ भागेन च तुलो(?) भित्तिर्भागेन स्याद् भ्रमन्तिका । भागेन बाह्यभित्तिः स्यात् पदपञ्चकवर्जिता ॥ कन्दे वि(द्वि)भागं कुर्वीत पुष्पशेखरकं ततः । द्विपदा बाह्यतः कर्णा विधातव्यास्तु वर्तुलाः ॥ यथागात्रं विधातव्याः स्वस्तिकाकृतयश्च ते । चत्वारो रथिका(कन्दो कोणे कर्णे ?) चतुष्टयम् ॥ पञ्चभागायतं भद्रं सार्धभागविनिर्गमम् । भद्रान्तपातिनी कुर्यात् प + ङ्गे पदसंमिते ॥ शेषं भद्रं तु कर्तव्यं विस्तारेण त्रिभागिकम् । भागस्यार्धेन विस्तीर्णं तथा भागप्रवेशकम् ॥ १ 'यलादादाय' इति स्यात् ।
३७२ समराङ्गणसूत्रधारे एतत्प्रमाणं कर्तव्यमिह प्राज्ञैर्जलान्तरम् । तलच्छन्दानुगं भद्रं नन्द्यावर्तं(र्ते) यथाक्रमम् ॥ ऊर्ध्वमानमथ ब्रूमो नन्द्यावर्तं(र्ते) यथाक्रमम् । सार्धभागद्वयोच्छ्रा( १यामासनं तस्य ?)दूर्ध्वतः ॥ ( २कार्यतुलोदयस्य+?) मध्ये भागैस्तथाष्टभिः । तुलोदयस्य मध्ये स्याद् वेदीबन्धो द्विभागिके (क)ः ॥ भागिकः कुम्भकोसेन( त्सेधो ) मेखलाकलशान्वितः । चतुर्भागा भवेज्जङ्घा भागिकं भरणं भवेत् ॥ मेखलान्तरपत्रे तु भागेनैकेन कल्पयेत् । पादेन राजसेनं स्याद् ( वदूत्तच पट्टतः ? ) ॥ वेदी साष्टपदोत्सेधा भागपादेन चासनम् । भागार्धेन नतं कुर्याद् भागं ( ३पञ्चवलोकत ? ) ॥ पादोनत्रिपदः स्तम्भः पल्लवैरुपशोभितः । हीरग्रहणशीर्षं च कुर्याद् भागसमुच्छ्रिति ॥ पट्टमेकपदोत्सेधं छायकं द्विपदायतम् । भागेन कुर्यादुपरि पट्टिकां चारुकर्मणा(म् ?) ॥ अंशांस्त्रीनुच्छ्रितः सिंहकर्णः स्याच्चतुरायतः । भूषितः( खरसे + न ? ) स च कार्योंऽतिशोभनः ॥ विस्ताराद् द्विपदे शृङ्गे सार्धभागद्वयोच्छ्रिते । अस्योर्ध्वमन्यशृङ्गं स्यात् सहशोच्छ( च )परिस्तुति( : ? ) ॥ प्रत्यङ्गस्तु व(ङ्गेषु च) कूटानि सार्धांशोच्छ्रायवन्ति च । द्वितीयः सिंहकर्णः स्यात् सिंहकर्णस्य मस्तके ॥ ( ४ततो शृङ्गं ? ) तृतीयः स्याच्चतुर्थस्तस्य चोपरि । षड्भागविस्तृता कर्ण( : ? ) कूटस्था मूलमञ्जरी ॥ १ 'यमासनं स्यात् त' इति स्यात् । २ 'कार्यस्तुलोदयस्तस्य' इति स्यान् । ३ 'चन्द्राव- लोकनम्' इति स्यात् । ४ 'ततः शृङ्गे' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७३ सप्तभागोच्छ्रिता च स्यात्(स्कन्धस्यच शोच्छ्रितिः १ ? ) । स्यादुरोमञ्जरी मूलमञ्जर्या मध्यसंश्रया ॥ भागैश्चतुर्भिर्विस्तारः षड्भिश्चास्याः समुच्छ्रितिः । कलशाण्डकसंयुक्ता कर्णाभ्यन्तरमञ्जरी ॥ स्यादण्डकैकविंशत्या नन्द्यावर्तः सुलक्षणः । भक्त्या ये कारयन्त्येनं नद्यावर्तमनुत्तमम् ॥ विमानं शुभमारुह्य शक्रलोकं व्रजन्ति ते । नन्द्यावर्तः ॥ प्रासादमथ वक्ष्यामः पूर्ण पूरितवाञ्छितम् ॥ वन्दितैः(तं) किन्नरैर्यक्षैर्मनुष्यपितृवल्लभम् । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ विस्तार(राद्) द्विपदो गर्भः कार्या भित्तिस्तु भागिकः । द्विपदं कन्दभद्रं च निर्गमोऽस्यार्धभागिकः ॥ शोभना दिषु(क्षु) सर्वासु द्विपदा च भ्रमन्तिका । पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ॥ आयत्या चतुरो (भागावण्डभित्तेर्विनिर्गमा ? ) । भद्रं सुशोभनं तस्या द्वि(वि)धातव्यं द्विभागिकम् ॥ पर्णस्तु पदिका( ? ) पक्षभद्रं भागार्धनिर्गतम् । जलान्तरं तु भागार्धमायामक्षेपयोः समम् ॥ चतुर्भागो वलस्यास्य( ? ) गर्भो भित्तिस्तु भागिकी । यामायुर्वित्तगोस्त्रीणां वलभी कीर्तिकारयेत् ( ? ) ॥ पूर्वतः कारयेद् द्वारं चतुर्गर्भेऽत्र मन्दिरे । ऊर्ध्वमानं तु वक्ष्यामः प्रासादस्यास्य सम्प्रति ॥ पीठं द्विभागिकं कार्यं वेदीबन्धो द्विभागिकः । जङ्घा पदचतुष्कं च शोभिता रूपकर्मणा ॥ १ 'स्कन्धः स्याच्च दशोच्छ्रितिः' इति पाठ्यं स्यात् ।
३७४ समराङ्गणसूत्रधारे पदद्वयं तु कर्तव्यं (हीनंनं ?) सातपत्रकम् । कलशाण्डकयुक्तानामुच्छ्रायस्त्रिपदो बुधैः ॥ कर्तव्यः कर्णशृङ्गाणां सर्वेषामपि मानतः । चतुष्पदोच्चा वलभी घण्टाकलशसंयुता ॥ मल्लच्छाद्यत्रयं कुर्यात् कर्णशृङ्गस्य चोपरि । युक्तमन्तरपत्रेण भागोच्छ्रायं पृथक् पृथक् ॥ भागेनैकेन घण्टा स्याद् भद्रा(भागा)भ्यां कलशाण्डके । समूलकलशे कर्णे सूत्रं सम्पातयेद् बुधः ॥ मल्लच्छाद्यं विधातव्यं सूत्रेणैकेन लाञ्छितम् । प्रासादमेवं पूर्णायुर्यः कुर्याद् भक्तिमानिमम् ॥ (सप्तकामः + ?) पुरुषः स(श)र्वलोके महीयते । पूर्णः ॥ सिद्धार्थमथ वक्ष्यामः सर्वकामार्थसिद्धि(द)म् ॥ कामाः सिध्यन्ति यत्कर्तुरिहलोके परत्र च । चतुरश्रे समे क्षेत्रे विभक्ते दशभिः पदैः ॥ कुर्वीत षट्पदं गर्भं + + चास्य चतुष्पदम् । भागेनैकेन रमणीं बाह्यभित्तिं च भागिकीम् ॥ कुर्वीत द्विपदान् कर्णाञ् शालां षड्भिः पदैर्बुधै(धः) । तदूर्ध्वं कर्णशृङ्गांश्च(ङ्गे च) यथाशोभं प्रकल्पयेत् ॥ त्रिपदं निर्गमं तस्याश्चतुष्कीश्च चतुर्दिशम् । मध्ये बहिश्च कुर्वीत तस्या द्वारचतुष्टयम् ॥ उन्नतं भागविंशत्या मानमस्योर्ध्वतो भवेत् । त्रिपदः पीठबन्धः स्याद् द्विगुणोच्छ्रायबाह्यतः ॥ सार्धं भागद्वयं कार्यो वेदिबन्धस्तु शोभनः । अर्धकुम्भैकमर्दे च मेखलां समस्तूरकः (?) ॥ १ 'आप्तकामः स' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७५ जङ्घा सार्धचतुर्भागा कार्योच्छ्रायेण शोभना । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥ खुरका( दू ) मेखला यावत् सप्तभागान्तरं भवेत् । भागाभ्यां राजसेनं च कुर्याद् वेदीं च सासनाम् ॥ त्रिभागं स्तम्भमुत्सेधाद् भागस्यार्धेन हीरकम् । भागार्धं स्तम्भशीर्षं स्याद् भागः पट्टस्य चोन्नतिः ॥ सूर्यच्छाद्यो द्विभागः स्याद् भागेनैकेन लम्बना( : ? ) । शृङ्गोत्सेधस्त्रिभागश्च कलशाण्डकसंयुत( म् ? : ) ॥ चतुर्भागोन्नतः सिंहकर्णः षड्भागविस्तृतः । कुर्वीत शृङ्गयोरूर्ध्वं शोभनां मूलमञ्जरीम् ॥ अष्टभागप्रविस्तीर्णां नवभागसमुच्छ्रित( ताम् ) । स्कन्धः पञ्चपदो ज्ञेयो ग्रीवा चार्धपदोच्छ्रिता ॥ अण्डकं भागमात्रं स्यादूर्ध्वं भागेन चन्द्रिका । वर्तुलः समविस्तारः कलशस्तु द्विभागिकः ॥ भद्रे वराटकाश्वेह कर्तव्या हेमकूटवत् । यः कुर्यात् कारयेद् यस्तु सिद्धार्थं सर्वकामदम् ॥ स भवेत् सर्वकामाप्तिः शिवलोके च शाश्वतः । सिद्धार्थः ॥ अथाभिधीयते सर्वपापघ्नः शङ्खुवर्धनः ॥ आलयः सर्वदेवानां प्रासादो भूभृतां प्रियः । चतुरश्रे समे क्षेत्रे ( गर्भाकर्णे ? ) विशोधितम् ॥ वर्तुलं कारयेत् पश्चात् सर्वकोणेषु लाञ्छितम् । विस्तारार्धे भवेद् गर्भो यच्छेषं तेन ( भर्तिवः ? ) ॥ द्विगुणं कारयेदूर्ध्वं भागविंशतिभाजिते । तुलोदयोऽष्टभागः स्याद् द्वादशांशा च मञ्जरी ॥
३७६ समराङ्गणसूत्रधारे कुम्भकं कलशं द्वाभ्यां कपोतालीं च कल्पयेत् । पञ्चभागोच्छ्रिता जङ्घा मध्येऽस्या ग्रासपट्टिका( म् ) ॥ मेखलान्तरपत्रे च भागेनैकेन कारयेत् । भागार्धं कारयेत् प्राज्ञः संख्या( शङ्खा )वर्तकमञ्जरीम् ॥ शङ्खावर्तककूटांश्च विदधीत + विस्तरात् । शतवास्तुविभक्तेऽस्मिन् या + मानानुसारतः ॥ स्कन्धो विधेयो ग्रीवा च भगार्धेन समुच्छ्रिता । चन्द्रिका शिरसा सार्धं कार्या सार्धपदोन्नता ॥ द्विपदः कलशोच्छ्रायः कर्तव्यः शङ्खवर्धने । गर्भश्चा(स्या)च्छादनं कुर्यात् संख्या( शङ्खा )वर्तवितानकम् ॥ यः शङ्खवर्धनं कुर्यात् स भुनक्ति चिरं महीम् । वशगा चास्य सततं भवेल्लक्ष्मीजलाञ्जलिः (?) ॥ शङ्खवर्धनः ॥ त्रैलोक्यभूषणं ब्रूमो वन्दितं त्रिदशैरपि । आश्रयं सर्वदेवानां पापस्य च विनाशनम् ॥ त्रिंशद्धस्तः कनीयान् स्यान्मध्यमस्त्रिदशाधिकः । पञ्चाशद्धस्त उत्कृष्टस्त्रिविधं( घो ) हस्तसंख्यया ॥ चतुरश्रे समे क्षेत्रे त्रिंशद्भक्तोप( क्ते प्र )कल्पयेत् । दशभागायतं गर्भं कन्दं द्विगुणसप्तकम् ॥ चतुष्पदं कन्दकर्त्त( णं ) भद्रं चास्य द्विभागिकम् । कुर्वीत षट्पदां शालां भागेनैकेन निर्गताम् ॥ अन्धोऽर्धद्विपदे चास्य द्विपदाश्चात्र भित्तयः । शृङ्गमेकं भवेन्मध्ये विस्तारेण चतुष्पदम् ॥ मध्ये शृङ्गस्य चान्तः + + + षड्दारुकं भवेत् । द्व्यंशा द्वितीया रमणी(या ?) बाह्यभित्तिर्द्विभागिका ॥
१ 'लक्ष्मीः कृताञ्जलिः' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७७ कर्णशृङ्गद्वयं कार्यं विस्तारेण चतुष्पदम् । द्वादशांशमिता शाला निर्गमोऽस्याः पदत्रयम् ॥ प्राक्कर्णशृङ्गमष्टांस्तिस्यादुर्जनफलोपमम् (?) ।
-
- द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥ द्विपदं तस्य भद्रं च निर्गमो द्विपदं भवेत् । शृङ्गयोरुभयोर्मध्ये पदार्धं पक्षभद्रकम् ॥ पदार्धं वारिमार्गश्च प्रक्षेपः पदसंमितः । ऊर्ध्वमानमथ ब्रूमः षष्टिभागसमुच्छ्रितम् ॥ तुलोदयस्ततो ( विंशपञ्चसूदनमञ्जरी ? ) । ( स नृप्तंसत्यदोच्छ्रायो ? ) भागेष्वेषु विधीयते ॥ तुलोदयस्य मध्ये तु वेदी पञ्चपदोदया । तदर्धं कुम्भकं कुर्यात् तद्वत् कलशमेखला ॥ एकादशपदा जङ्घा हीरकं तु पदत्रयम् । द्वौ भागौ मेखला तद्वद् द्वितीयापि सतारका ॥ ऊर्ध्वतस्तलपट्टस्य प + षोडशभिः पदैः । राजसेनं सार्धभागं वेदी कार्या द्विभागिका ॥ पदार्धमासनं सार्धपदं चन्द्रावलोकनम् । स्तम्भः सप्तपदो ( दैर्घ्यहार ? ) सार्धत्रिभागिकम् ॥ शीर्षं सार्धपदोत्सेधं पक्षस्तु द्विपदो भवेत् । त्रिपदं छाद्यकं कुर्याद् भागेनैकेन लम्बितम् ॥ द्विपदां छेदहारां तु (?) द्वयंशा वा सन्तु पट्टिकाः । तदूर्ध्वं मञ्जरीं कुर्याद् द्राविडक्रमभूषितम् ॥ सप्तोच्छ्रितं कोणकूटं सघण्टाकलशाण्डकम् । द्वितीयामेतदूर्ध्वं च तन्मानेनैव कारयेत् ॥ १ 'दैर्घ्याद्धारं' इति स्यात् । वा. ४८
कर्णे कर्णं समाश्रित्य षट्पदानि तु कारयेत् । (षेष्ठाण्डके ?) द्वे कुर्वीत ष( डंश ? डण्ड )कचतुष्टयम् ॥ एवं कर्णाण्डकानि स्युश्चत्वारिंशत् समासतः । द्वादशांशकविस्तारमुच्छ्रायान्नवभागिकम् ॥ आद्यक्रमे विजानीयाद् द्राविडाभक्रियान्वितम् । अष्टाण्डकं समुत्सेधाद् विस्ताराद् दशभागिकम् ।१ भद्रक्रमं द्वितीयं तु विद्यात् कर्मविभूषितम् । विस्तारो मूलमञ्जर्या द्वाविंशत्यंशसंमितः ॥ त्रयोविंशतिरुच्छ्रायः स्कन्धाश्चैव त्रयोदश । ग्रीवा पट्ट( द )द्वयोत्सेधात् त्रिपदोन्नतमण्डकम् ॥ कर्परं द्विपदं भागचतुष्कं कलशोच्छ्रयः । प्रासादा( दे )द्वादशैतस्मिन्नुरोमञ्जरिका मताः ॥ अण्डकानां तु विज्ञेयं त्रिसप्तत्यधिकं मतम् । त्रैलोक्यभूषणं कृत्वा त्रिदशानन्दकारकम् ॥ कल्पान्तं यावदध्यास्ते पुरुषस्त्रिदशालयम् । त्रैलोक्यभूषणः ॥ प्रासादमथ पद्माख्यं कथयामोऽश्विनोः प्रियम् ॥ चतुरश्रीकृते क्षेत्रे सप्तभागविभाजिते । त्रीन् भागान् मध्यमे त्यक्त्वा द्वौ (द्वौ) कोणेषु लाञ्छयेत् ॥ ( सा द्वयेद्भूभि ? )रष्टाँ च पश्चादपि च षोडश । विस्तारार्धेन गर्भः स्याद् विस्तारार्धं तथा बहिः ॥ ऊर्ध्वमानमथ ब्रूमः पद्माख्यस्य यथाक्रमम् । विस्ताराद् द्विगुणोत्सेधं भागविंशतिभाजितम् ॥ वेदी जङ्घा तथैतस्मिन् कार्या मालाथ मञ्जरी । ग्रीवाण्डकलशाश्चेह शङ्खवर्धनवर्त्मना ॥ १ 'अष्टाण्डके' इति पाठ्यं भाति ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७९ पद्माख्यः कारितो येन प्रासादो दश(स्र)वल्लभः । आत्मा समुद्धृतस्तेन पापपङ्कमहोदधेः ॥ पद्माख्यः ॥ पक्षबाहुमथ ब्रूमः प्रासादं कुलनन्दनम् । सर्वरोगहरं पुण्यं सर्वलोकक्षणं भवं( ? ) ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । अष्टभागायतं गर्भं कुर्याद् भित्तिर्द्विभागिका ॥ द्विपदं कारयेत् कर्णं भागार्धमुदकान्तरम् । प्रत्यङ्गं सार्धभागे सा(स्यात्) शाला चैव चतुष्पदा ॥ निष्क्राममु(उ)भयोर्भागाद् भागार्धेन पृथक् पृथक् । कर्तव्या(व्यौ) पक्षयोर्बाहू विस्तारेष्व(णा)ष्टभागिकौ ॥ चतुष्पदस्तयोगर्भो द्विपदा भित्तिविस्तृतिः । चतुर्भागं भवेद् भद्रं कोणश्चैव द्विभागिकः ॥ ऊर्ध्वमानमथ ब्रूमश्चतुर्विंशतिभागिकम् । त्रिपदो वेदिकाबन्धो जङ्घा पञ्चपदोन्नता ॥ द्वौ भागौ कलशः कार्यों द्वौ भागौ चन्द्रिकाण्डकम् । मध्ये तु मञ्जरी कार्या घण्टाबध(बद्धा) च पार्श्वयोः ॥ पक्षबाहुः कृतो येन त्रिगर्भः कर्मभूषितः । स त्रिनेत्रप्रतापः स्याच्च(त्) तुरङ्गव्रातनायकः ॥ पक्षबाहुः ॥ विशालं सम्प्रवक्ष्यामि विशालैरन्वितं गुणैः । दयितं कृत्तिकासूनोः पूजितं गणकिन्नरैः ॥ क्षेत्रे(त्रे) दशांशं कुर्वीत षड्भागा मध्यमञ्जरी । भागिक्यो भित्तयः कार्या भ्रमन्त्यभि(न्त्योऽपि) तथाविधाः ॥ भागद्वयं भवेत् कर्णो वारिमार्गेण संयुतः । पदेन तिलकं कुर्याद् भागार्धेन विनिर्गतम् ॥
३८० समराङ्गणसूत्रधारे आयामनिर्गमा(मौ) चास्य चतुर्भागा चतुष्किका । चतुष्पदो मध्यगर्भो(र्भः) चतुर्द्वारस्य शस्यते ॥ विस्ताराद् द्विगुणोच्छ्रायन्यू(यमू)र्ध्वमानं विधीयते । विदध्याद् वेदिकाबन्धं सार्धभागय(गेन) संमितम् ॥ सार्धैश्चतुर्भिः कुर्वीत भागैर्जङ्घोच्छ्रितिं बुधः । मालामन्तरपत्रं च भागेनैकेन कारयेत् ॥ सार्धद्विभागिकं शृङ्गं कलशाण्डकसंयुतम् । तस्यार्धमपरं शृङ्गं तावन्मानं विधीयते ॥ षड्भागविस्तृतां जङ्घामन्तर्या भागसप्तकम् । तद्विस्तारदशांशै(शै)स्यात् षड्भिः स्कन्धस्य विस्तृतिः ॥ ग्रीवायास्तु विधातव्या पदस्यार्धं समुन्नतिः । भागेनाण्डकमुच्छ्रायो भागेनार्धेतु(न) चन्द्रिका ॥ द्विपदं कलशं कुर्यात् समसूत्रं सुशोभनम् । प्रासादोऽयं विशालः स्यादेवं सप्तदशाण्डकम् ॥ यः करोति स लोकेऽस्मिन्(+ रं) नागाधिपो भवेत् । लभते च बहून् कामान् देहान्ते चोत्तमं पदम् ॥ विशालः ॥ ब्रूमोऽथ लक्ष्म(क्ष्मी)दयितं प्रासादं कमलोद्भवम् । सिद्धगन्धर्वसहितं स्कन्दो यत्र व्यवस्थितः ॥ चतुरश्रं समं क्षेत्रं भुवि दिक्षु विदिक्षु च । कृत्वा वृत्तं समालिख्य भागैर्द्वात्रिंशता भत्रे(जे)त् ॥ भागौ द्वौ द्वौ ततः कुर्यादेकैकां दलपङ्क्तिकाम् । कर्णं षोडशभिः का(कु)र्यादम्भोजसदृशाकृतिः(म्) ॥ पञ्चभिर्भाजिते सीम्नि गर्भो भागत्रयं भवेत् : अधस्तादा(सँमत्त स्यात् ?) पद्मपीठं प्रकल्पयेत् ॥ १ 'नरो' इति स्यात् । २ 'सनं तस्य' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८१ कृत्वा (१द्विगुणमूर्ध्वानर्द्विंशत्या ? ) प्रविभाजयेत् । तुलोदयोऽथ भागः स्याद् द्वादशांशा च मञ्जरी ॥ वेदी जङ्घा च माला च स्याद् यथा शङ्खवर्धने । तदूर्ध्वं पद्मकूटानि(दि ) चोन्नत्तं पद्मपत्रवत् ॥ भूमिका( : ) पञ्च कर्तव्या( : ) पदहीना य(य)थोत्तरम् । देवि(वेदि)का तस्य कर्तव्या विकासिशतपत्रवत् ॥ पादोनभागो ग्रीवा च सपादं पदमण्डकम् । चन्द्रिका चैव भागेन विकासिकमलाकृतिः ॥ द्विपदं कलशं कुर्यात् साब्जपत्रं सपल्लवम् । आरोग्यं स्यात् पुरोदेशे कारिते कमलोद्भवे ॥ आयुःश्रीवृद्धिपुत्राः स्युरपयानां( ? ) च संशय्या । कमलोद्भवः । हंसध्वजमथ ब्रूमो हंसक्रीडाविभूषितम् ॥ सेवितं सुरसङ्घेन वल्लभं पद्मजन्मनः । विभज्य दशधा क्षेत्रमारभ्य ब्रह्मणः पदात् ॥ आदाय पार्श्वयोर्भागांस्त्रींस्त्रीन् वृत्तं प्रकल्पयेत् । एवं गर्भो विधातव्यइच्छावस्य ( जगतालुभिः ? ) ॥ द्विपदा बाह्यतो भित्तिः कर्णः कार्यो द्विभागिकः । भद्रं पञ्चपदं कार्यं पदार्धमुदकान्तरम् ॥ द्वौ भागौ निर्गतं भद्रं स्तम्भद्वयसमन्वितम् । मध्ये तु च्छादकं कुर्याद् २वातोच्छ्रायं( ? ) द्विविस्तृतम् ॥ कुर्याद् भागं सविस्तारं तोरणं चतुरुन्नतम् । वरालमकरैर्युक्तं स्तम्भेषु स्यात् तथेल्लिकाः ॥ पुरस्तान्मण्डपं प्राज्ञो रचाय(रचये)न्मानपूर्वकम् । ऊर्ध्वमानमथ ब्रूमः सूत्रं स्याद् भागविंशतिः ॥ १ ‘द्विगुणमूर्ध्वं तद्विंशत्या' इति पठनीयं स्यात् । २ ‘भागोच्छ्रायम्' इति स्यात् ।
३८२ समराङ्गणसूत्रधारे मेखलावेदिकाजङ्घाः शङ्खवर्धनवन्मताः । कर्तव्याः कर्णरथिकास्त्रिपदाः कलशान्विताः ॥ चतुष्किका पञ्चपदा वराटीघटयान्विता । कार्या कलशसंयुक्ता विस्तारोच्छ्राययोः समा ॥ काँणशृङ्गोर्ध्वयः(?) कुर्यादष्टांशां मूलमञ्जरीम् । उच्छ्रिता नवभिर्भागैः पञ्चभौमास्तु संवृताः ॥ प्रथमा द्विपदा भूमिर्हेमकूटक्रियोपमा । अन्यास्तु पदपादार्धहीनाः कार्या यथोत्तरम् ॥ मेहारत्नपुनः(?) कार्यों भूमिकापरिवर्तने । भागेन वेदिकोच्छ्रायः स्कन्धस्तु शतवास्तुवत् ॥ ग्रीवाण्डकसमुत्सेधं विदधीत पदद्वयम् । अण्डके वर्तना कार्या कङ्कतीफलसन्निभा ॥ चन्द्रिका भागमेकं च द्वौ भागौ चेत् + + + + । हंसध्वजः कृतो येन वल्लभः पद्मजन्मनः ॥ स याति विविधैर्यानैर्देहान्ते वसु + गतिम् । हंसध्वजः ॥ अथ लक्ष्मीधरं ब्रूमो यं कृत्वा विजयं नरः ॥ राज्यमायुष्यपूजा च गुणानाप्नोति चैश्वरान् । चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ॥ कर्तव्यः षट्पदः कन्दो गर्भसूत्रचतुष्पदः । चतुसृष्वपि दिक्षु स्यात् त्रिभिर्भागैर्भ्रमन्तिका ॥ द्विपदा बाह्यभित्तिः स्याच्छुभा कार्या चतुर्दिशम् । कर्णेषु शृङ्गमेकैकं द्वे द्वे शृङ्गे तु मध्यगे ॥ द्व्यंशानि तानि विस्ताराद् दशशृङ्गाणि दिक्प्रयेत्(क्त्रये) । षट्शालाश्च विधातव्याः शुभा दिक्षु तिसृष्वपि ॥ १ 'कर्णशृङ्गोर्ध्वतः' इति पाठ्यं भाति । २ 'महान् यत्नः पुनः' इति स्यात् ।
मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ३८३ याम्येन (च) चतुर्भागा भागद्वितयनिर्गताः । तलच्छन्दोऽयमुद्दिष्टो मण्डपः पुरतो भवेत् ॥ विस्ताराद् द्विगुणा सासः (णो यामः)प्रासादस्यास्य चोच्छ्रयः । स्यात् त्रयोदशभागोऽत्र प्रमाणेन तुलोदयः ॥ ऊर्ध्वं च विंशतिपदं वेदीबन्ध(:) पदत्रयम् । उत्सेधात् षट्पदा जङ्घा भागेन भरणं भवेत् ॥ भागैस्त्रिभिर्मेखले द्वे शृङ्गं च कलशं त्रिभिः । उच्छ्रयेण विधातव्यः सिंहकर्णच(श्च)तुष्पदः ॥ दश शृङ्गाणि कुर्वीत घण्टा(पकं ?)च विक्र(दिक्त्र)ये । चतुर्दशांशविस्तारा पञ्चगा( ?) मूलमञ्जरी ॥ ऊर्ध्वं सप्तदशांशा च ग्रीवोच्छ्रायः पदद्वयम् । अण्डकं द्विपदं कार्यं भागेनैकेन कर्परम् ॥ कलशं त्रिपदं मूर्ध्नि वर्तयेत् सुमनोरमम् । लक्ष्मीधराख्यं प्रासादं यः कुर्याद् वसुधातले ॥ अक्षये स पदे तत्त्वे लीयते नात्र संशयः । लक्ष्मीधरः ॥ महावज्रमथ ब्रूमः प्र(प्रे)त्य पापहरं शुभम् ॥ प्रासादे कारये(रिते) यत्र सुरेन्द्रः परितुष्यति । अष्टौ हस्तान् कनीयान् स्यान्मध्यो द्वादश मानतः ॥ उत्तमः षोडश प्रोक्तस्त्रिधैवं करसंख्यया । खविस्तारस्य सूत्रेण(++ क्षेत्र)मालिख्य वर्तुलम् ॥ कोणेषु लाञ्छितं कृत्वा भागैः षट्त्रिंशता भजेत् । द्विपदाः कर्णिकाश्चेह कार्या द्वादशसंख्यया ॥ कर्णिकाद्वयमध्ये तु स्तम्भो भागे च वर्तुलः । शतपत्राकृतिः कार्या द्वौ भागौ मूर्धमानतः ॥ अधस्तान्मेखलायाश्च कमलोद्भववद् भवेत् । स्तम्भयेत् कर्णिकामध्ये तेषु कूटानि कारयेत् ॥
३८४ समराङ्गणसूत्रधारे कुर्यादालेखमुपरि कर्णिकायाः सुशोभनम् । कर्तव्या भूमयः पञ्च क्रमेणायतयान्विता (?) ॥ स्याद् भागार्धोदया ग्रीवा विस्तारेण चतुष्पदा । अण्डकं सार्धभागेन विधातव्यं सकर्परम् ॥ भागद्वयं तु कलशः शृङ्गकर्णैः सपल्लवैः । यः करोति महावज्रं प्रासादं पुरभूषणम् ॥ तुष्टो दिवि सदाम्पत्यो रमते सोऽप्सरोगणैः । महावज्रः ॥ रतिदेहमथ ब्रूमः प्रासादं सुमनोरमम् ॥ अप्सरोगणसंकीर्णं कामदेवस्य मन्दिरम् । अष्टभागीकृते क्षेत्रे समभागे समायंते ॥ द्विपदं कर्णकूटं स्याद् वारिमार्गसमन्वितम् । अलिन्दस्य चतुर्भागा विस्तारायामतः समाः ॥ भागिकी बाह्यभित्तिस्तु शेषं गर्भं प्रकल्पयेत् । मध्ये चतुष्किका कार्या यत्र स्तम्भाः सुशोभनाः ॥ नेकरका त्रिवक्त्रैश्च हस्ते सर्वैः सपत्रकैः (?) । पल्लवैर्नागबन्धैश्च सालभञ्जिभिरन्विताः ॥ खेल्लिका तत्र कर्तव्या मकरास्यविनिर्गता । चत्वारो बाह्यतोऽलिन्दाः स्तम्भद्वितयभूकुलम् (?) ॥ सदृशं प्रथमं कार्यं भवनं कर्मयुक्तिमत् । द्वितीयं भवनं कार्यं बाह्यालिङ्क(न्द)विवर्जितम् ॥ शेषं कर्म तथा कार्यं प्रथमायां यथा (भवति?) । तृतीयायां पुनः कार्या चतुःस्तम्भा चतुष्किका ॥ खेलिकातोरणन्यस्ता( ः ) संमुखाश्च वरालकाः । स्तम्भानां कुटकन् पूर्वान् सिंहकर्ण(र्णा)श्चमध्यतः ॥ म(ध्य?)लुच्छाद्यानि(वायार्धं?) भागोच्छायान्यनुक्रमात् । त्रीणि कुर्वीत युक्तानि शुभैरन्तरपत्रकैः ॥
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९ घण्टां च भागिनीं कुर्यादूर्ध्व(र्ध्वे)नामलसारकीम् । चन्द्रिकां भागपादेन द्विभागां कलशोच्छ्रितिम् ॥ एवंविधं यः कुरुते प्रासादं रतिवल्लभम् । सन्तोषयति कन्दर्पं स्याज्जनेषु स पुण्यभाक् ॥ रतिदेहः ॥ सिद्धिकाममथ ब्रूमः प्रमथैरुपशोभितम् । धनपुत्रकलत्राणि कृते यत्राप्नुयान्नरः ॥ चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते । गर्भं द्विभागं कुर्वीत भित्तिर्भा(भा)गेन शोभनम् ॥ भद्रं द्विभागविस्तारं भागेनैकेन निर्गतम् । कर्णमेकेन भागेन कुर्यात् प्रतिदिशं बुधः ॥ अस्योर्ध्वं द्विगुणं कुर्यात् षष्ठभागविभाजितम् । भागे च वेदिकाबन्धं जङ्घा सार्धपदोन्नता ॥ मेखलान्तरद्र(प)त्रे च पादहीनं पदं मते । स्यादुच्छितीश्चामा(?) जङ्घा पादोनं पदपञ्चकम् ॥ त्रिभागविस्तृता ग्रीवा भागपादसमुच्छ्रिता । पदार्धमण्डकं प्राहुः पदपादेन चण्डिकाम् (?)॥ भागस्यार्धेन कलशसमुच्छ्रायो मतः समः । +++गुणसूत्रास्या द्वितीयाः पञ्चभूतिकाः(?) ॥ यः सिद्धिकामं कुरुते सर्वपापविमोचनम् । सर्वेऽस्य कामाः सिध्यन्ति ये केचिन्मनसि स्थिताः ॥ सिद्धिकामः ॥ अथाभिधीयतेऽस्माभिः प्रासादः पञ्चचामरः । यो भक्त्या कारयत्येनं स चिरं दिवि मोदते ॥ भक्ते द्वादशभिः क्षेत्रे चतुरश्रे समन्ततः । चतुर्भागे भवेद् गर्भो भित्तिं भागेन कल्पयेत् ॥ वा. ४९
३८६ समराङ्गणसूत्रधारे अन्धारिका तु भागौ द्वौ बाह्यभित्तिस्तु भागिकी । त्रि(भि)र्भागैर्विनिष्क्रान्तं तेषु कार्याश्चतुष्किकाः ॥ द्विगुणं कथिते(तं) चोर्ध्वमानं घण्टाण्डकान्वितम् । प्रमाणेन विधातव्यो दश भागास्तुलोदयः ॥ त्रिपदो वेदिकाबन्धो जङ्घा स्यात् + षडंशकः । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥ पदत्रयेण (सादूर्ध्वं शृङ्गं कलश चाण्डकम् ?) । शिखरा विंशतिः कार्याः सम्भित्ताः (संभिन्नाः) सर्वमण्डपैः ॥ शृङ्गादधो विधातव्या(व्यं) मल्लच्छाद्यं मनोहरम् । एवं सर्वचतुष्केषु मल्लच्छाद्यानि कारयेत् ॥ छाद्यकैः पञ्चभिः कार्यों मध्ये प्रासादनायकः । घटिकानां समुच्छ्रायः सपादं पदमिष्यते ॥ घण्टायाः सार्धभागेन ग्रीवायाश्च पदादि(धि)का । कर्त्तव्यामलसारी तु (पादोनांशायखण्डिकाम् ?) ॥ द्विपदः कलशः कार्यों बीजस्वरसमन्वितः । पञ्चघण्टावृतं कृत्वा विमाना(नं) पञ्चचामरम् ॥ (अतीतविस्त्वयान् सर्वान् लोकः प्राप्नोति सम्भव ?) । पञ्चचामरः ॥ नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम् ॥ य एनं भक्तितः कुर्यात् स भवेदजरामरः । चतुरश्रे समे क्षेत्रे चतुर्भागविभाजिते ॥ भद्रं द्विभागविस्तारं कुर्याद् भागविनिर्गमम् । भित्तिरत्र न कर्तव्या दिशि कस्यामपि ध्रुवम् ॥ कुर्वीत राजसेनं तु वेदिचन्द्रावलोकनम् । दिक्षु क्रमोऽयं सर्वासु त्यक्त्वा मार्गचतुष्टयम् ॥ १ 'स्यादूर्ध्वं शृङ्गं सकलशाण्डकम्' इति स्यात् ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८७ विस्तारसदृशोच्छाया कर्तव्या पूर्वभूमिका । वक्ष्यमाणैर्विभागैश्च विप्रभज्यासणाः + + (?) ॥ भागेन राजसेनं स्याद् वेदिर्भागद्वयेन च । भागेन चन्द्रालोकः स्यादर्धेनासनपट्टकः ॥ स्तम्भोच्छ्रायस्त्रिभिर्भागैस्ततो भागेन शीर्षकम् । पट्टोच्छ्रायो भागमेकं स्याच्चतुर्विंशतिर्धराः ॥ नानासङ्गैः पल्लवैश्च चारुकर्मकराननैः । द्वितीया भूमिका कार्या स्तम्भैः षोडशभिर्युता ॥ एवं भूमौ द्वितीयायामपि कर्म विधीयते । स्तम्भैश्चतुर्भिः संयुक्ता तृतीयायां चतुर्धि(ष्कि)का ॥ नन्दिघोषः कृतो येन (मूर्यं तेजो ?) स जायते । कर्मक्षया तुतुं (त् तनुं) त्यक्त्वा प्राप्नोति परमं पदम् ॥ नन्दिघोषः ॥ प्रासादमभिधास्यामो मनूत्कीर्णं महाद्यु(द्भु)तम् । विमृश्य बुद्ध्या निपुणं निर्मितं प्राक् स्वयम्भुवा ॥ क्षेत्रे षड्भागविस्तारे गर्भे(र्भं) भागचतुष्टये । कुर्वीत वृत्तं मध्ये च नवभिर्वृत्तिमालिका( ? ) ॥ अष्टौ ( च ) रथिकाः कार्याः क्षेत्रे दिक्षु विदिक्षु वा । ऊर्ध्वमानमथ ब्रूमो द्विगुणं द्विपदान्वितम् ॥ (छाद्ययावद्विधातव्या तत्सार्धार्ङ्गकपञ्चकम् ?) । भागानष्टार्धसहितान् कुर्यादूर्ध्वं तुलोदयात् ॥ सार्धभागेन कर्तव्यो वेदीबन्धश्च शोभनः । भागद्वयं ततः सार्धं कार्या जङ्घासमुच्छ्रितिः ॥ भागार्ध हीरकं कुर्यान्मनोज्ञं कर्ति(र्णि)कान्वितम् । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥ १ 'सूर्यतेजाः' इति स्यात् ।
३८८ समराङ्गणसूत्रधारे। शृङ्गोच्छ्रायस्ततः कार्यः सार्धभागद्वयोन्मितः । मध्येन सर्वशृङ्गाणां मस्तके वृत्तमालिखेत् ॥ षड्भागविस्तृतं तस्य + षड्भागसमुच्छ्रितम् । यावन्मात्राचरेत्(वरे) प्रोक्ता तावत् कार्या च मञ्जरी ॥ त्रिभौमं पञ्चभौमं च विचित्रं कारये(दि)मम् । ग्रीवा स्याद् भागपादेन विस्ताराद् द्विपदायता ॥ पादहीनं पदं कुर्यादण्डकं मनुसंभवे(त् ?) । चन्द्रिका भागपादेन पादोनं कुशलः(कलशः) पदम् ॥ प्रासादं मनसाप्येवं १मनुकीर्तः(र्ण) करोति यः । स गंध्या (गत्वा) भवनं शम्भोर्गाणपत्यमवाप्नुयात् ॥ मानकीर्णः( ? ) ॥ अथ सुप्रभनामानं प्रासादमभिदध्महे । यं कृत्वा प्रभयान्येषां प्रभा हन्ति रविर्यथा ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । कुर्याच्चतुष्पदं गर्भं विस्तारो यामतः समः ॥ प्रासादार्थं भवेत् कन्दः कन्दभद्रं पदद्वयम् । भ्रमन्ती द्विपदा दिक्षु चतसृष्वपि शोभना ॥ पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः । चतुष्पदं मध्यभद्रं विनिष्क्रान्तं त्रिभिः पदैः ॥ (२अस्यैर्वात) पुनः कार्या द्विपदा तु चतुष्किका । (३सोलायाः ? ) पार्श्वतः कुर्यादतिभद्रद्वयं बुधः ॥ तयोः पादेन निष्कासं पार्श्वयोरुभयोरपि । पार्श्वभद्रस्य कर्णस्य चान्तरं पदिके नयेत् ॥ जालैर्विचित्रितं कुर्यान्मध्ये ज्योतिर्यथा भवेत् । एवं दिक्षु समस्तासु कुर्वीतैनमनुक्रमात् ॥ १ 'मनूत्कीर्ण' इति पूर्वं व्यपदिष्टः । २ 'अस्यैवान्तः' इति स्यात् । ३ 'शालायाः' इति स्यात् ।