भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 440, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 440

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७७ कर्णशृङ्गद्वयं कार्यं विस्तारेण चतुष्पदम् । द्वादशांशमिता शाला निर्गमोऽस्याः पदत्रयम् ॥ प्राक्कर्णशृङ्गमष्टांस्तिस्यादुर्जनफलोपमम् (?) ।

    • द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥ द्विपदं तस्य भद्रं च निर्गमो द्विपदं भवेत् । शृङ्गयोरुभयोर्मध्ये पदार्धं पक्षभद्रकम् ॥ पदार्धं वारिमार्गश्च प्रक्षेपः पदसंमितः । ऊर्ध्वमानमथ ब्रूमः षष्टिभागसमुच्छ्रितम् ॥ तुलोदयस्ततो ( विंशपञ्चसूदनमञ्जरी ? ) । ( स नृप्तंसत्यदोच्छ्रायो ? ) भागेष्वेषु विधीयते ॥ तुलोदयस्य मध्ये तु वेदी पञ्चपदोदया । तदर्धं कुम्भकं कुर्यात् तद्वत् कलशमेखला ॥ एकादशपदा जङ्घा हीरकं तु पदत्रयम् । द्वौ भागौ मेखला तद्वद् द्वितीयापि सतारका ॥ ऊर्ध्वतस्तलपट्टस्य प + षोडशभिः पदैः । राजसेनं सार्धभागं वेदी कार्या द्विभागिका ॥ पदार्धमासनं सार्धपदं चन्द्रावलोकनम् । स्तम्भः सप्तपदो ( दैर्घ्यहार ? ) सार्धत्रिभागिकम् ॥ शीर्षं सार्धपदोत्सेधं पक्षस्तु द्विपदो भवेत् । त्रिपदं छाद्यकं कुर्याद् भागेनैकेन लम्बितम् ॥ द्विपदां छेदहारां तु (?) द्वयंशा वा सन्तु पट्टिकाः । तदूर्ध्वं मञ्जरीं कुर्याद् द्राविडक्रमभूषितम् ॥ सप्तोच्छ्रितं कोणकूटं सघण्टाकलशाण्डकम् । द्वितीयामेतदूर्ध्वं च तन्मानेनैव कारयेत् ॥ १ 'दैर्घ्याद्धारं' इति स्यात् । वा. ४८
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 440, कुल 726 में से · BharatKosha