समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७७ कर्णशृङ्गद्वयं कार्यं विस्तारेण चतुष्पदम् । द्वादशांशमिता शाला निर्गमोऽस्याः पदत्रयम् ॥ प्राक्कर्णशृङ्गमष्टांस्तिस्यादुर्जनफलोपमम् (?) ।
-
- द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥ द्विपदं तस्य भद्रं च निर्गमो द्विपदं भवेत् । शृङ्गयोरुभयोर्मध्ये पदार्धं पक्षभद्रकम् ॥ पदार्धं वारिमार्गश्च प्रक्षेपः पदसंमितः । ऊर्ध्वमानमथ ब्रूमः षष्टिभागसमुच्छ्रितम् ॥ तुलोदयस्ततो ( विंशपञ्चसूदनमञ्जरी ? ) । ( स नृप्तंसत्यदोच्छ्रायो ? ) भागेष्वेषु विधीयते ॥ तुलोदयस्य मध्ये तु वेदी पञ्चपदोदया । तदर्धं कुम्भकं कुर्यात् तद्वत् कलशमेखला ॥ एकादशपदा जङ्घा हीरकं तु पदत्रयम् । द्वौ भागौ मेखला तद्वद् द्वितीयापि सतारका ॥ ऊर्ध्वतस्तलपट्टस्य प + षोडशभिः पदैः । राजसेनं सार्धभागं वेदी कार्या द्विभागिका ॥ पदार्धमासनं सार्धपदं चन्द्रावलोकनम् । स्तम्भः सप्तपदो ( दैर्घ्यहार ? ) सार्धत्रिभागिकम् ॥ शीर्षं सार्धपदोत्सेधं पक्षस्तु द्विपदो भवेत् । त्रिपदं छाद्यकं कुर्याद् भागेनैकेन लम्बितम् ॥ द्विपदां छेदहारां तु (?) द्वयंशा वा सन्तु पट्टिकाः । तदूर्ध्वं मञ्जरीं कुर्याद् द्राविडक्रमभूषितम् ॥ सप्तोच्छ्रितं कोणकूटं सघण्टाकलशाण्डकम् । द्वितीयामेतदूर्ध्वं च तन्मानेनैव कारयेत् ॥ १ 'दैर्घ्याद्धारं' इति स्यात् । वा. ४८
कर्णे कर्णं समाश्रित्य षट्पदानि तु कारयेत् । (षेष्ठाण्डके ?) द्वे कुर्वीत ष( डंश ? डण्ड )कचतुष्टयम् ॥ एवं कर्णाण्डकानि स्युश्चत्वारिंशत् समासतः । द्वादशांशकविस्तारमुच्छ्रायान्नवभागिकम् ॥ आद्यक्रमे विजानीयाद् द्राविडाभक्रियान्वितम् । अष्टाण्डकं समुत्सेधाद् विस्ताराद् दशभागिकम् ।१ भद्रक्रमं द्वितीयं तु विद्यात् कर्मविभूषितम् । विस्तारो मूलमञ्जर्या द्वाविंशत्यंशसंमितः ॥ त्रयोविंशतिरुच्छ्रायः स्कन्धाश्चैव त्रयोदश । ग्रीवा पट्ट( द )द्वयोत्सेधात् त्रिपदोन्नतमण्डकम् ॥ कर्परं द्विपदं भागचतुष्कं कलशोच्छ्रयः । प्रासादा( दे )द्वादशैतस्मिन्नुरोमञ्जरिका मताः ॥ अण्डकानां तु विज्ञेयं त्रिसप्तत्यधिकं मतम् । त्रैलोक्यभूषणं कृत्वा त्रिदशानन्दकारकम् ॥ कल्पान्तं यावदध्यास्ते पुरुषस्त्रिदशालयम् । त्रैलोक्यभूषणः ॥ प्रासादमथ पद्माख्यं कथयामोऽश्विनोः प्रियम् ॥ चतुरश्रीकृते क्षेत्रे सप्तभागविभाजिते । त्रीन् भागान् मध्यमे त्यक्त्वा द्वौ (द्वौ) कोणेषु लाञ्छयेत् ॥ ( सा द्वयेद्भूभि ? )रष्टाँ च पश्चादपि च षोडश । विस्तारार्धेन गर्भः स्याद् विस्तारार्धं तथा बहिः ॥ ऊर्ध्वमानमथ ब्रूमः पद्माख्यस्य यथाक्रमम् । विस्ताराद् द्विगुणोत्सेधं भागविंशतिभाजितम् ॥ वेदी जङ्घा तथैतस्मिन् कार्या मालाथ मञ्जरी । ग्रीवाण्डकलशाश्चेह शङ्खवर्धनवर्त्मना ॥ १ 'अष्टाण्डके' इति पाठ्यं भाति ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३७९ पद्माख्यः कारितो येन प्रासादो दश(स्र)वल्लभः । आत्मा समुद्धृतस्तेन पापपङ्कमहोदधेः ॥ पद्माख्यः ॥ पक्षबाहुमथ ब्रूमः प्रासादं कुलनन्दनम् । सर्वरोगहरं पुण्यं सर्वलोकक्षणं भवं( ? ) ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । अष्टभागायतं गर्भं कुर्याद् भित्तिर्द्विभागिका ॥ द्विपदं कारयेत् कर्णं भागार्धमुदकान्तरम् । प्रत्यङ्गं सार्धभागे सा(स्यात्) शाला चैव चतुष्पदा ॥ निष्क्राममु(उ)भयोर्भागाद् भागार्धेन पृथक् पृथक् । कर्तव्या(व्यौ) पक्षयोर्बाहू विस्तारेष्व(णा)ष्टभागिकौ ॥ चतुष्पदस्तयोगर्भो द्विपदा भित्तिविस्तृतिः । चतुर्भागं भवेद् भद्रं कोणश्चैव द्विभागिकः ॥ ऊर्ध्वमानमथ ब्रूमश्चतुर्विंशतिभागिकम् । त्रिपदो वेदिकाबन्धो जङ्घा पञ्चपदोन्नता ॥ द्वौ भागौ कलशः कार्यों द्वौ भागौ चन्द्रिकाण्डकम् । मध्ये तु मञ्जरी कार्या घण्टाबध(बद्धा) च पार्श्वयोः ॥ पक्षबाहुः कृतो येन त्रिगर्भः कर्मभूषितः । स त्रिनेत्रप्रतापः स्याच्च(त्) तुरङ्गव्रातनायकः ॥ पक्षबाहुः ॥ विशालं सम्प्रवक्ष्यामि विशालैरन्वितं गुणैः । दयितं कृत्तिकासूनोः पूजितं गणकिन्नरैः ॥ क्षेत्रे(त्रे) दशांशं कुर्वीत षड्भागा मध्यमञ्जरी । भागिक्यो भित्तयः कार्या भ्रमन्त्यभि(न्त्योऽपि) तथाविधाः ॥ भागद्वयं भवेत् कर्णो वारिमार्गेण संयुतः । पदेन तिलकं कुर्याद् भागार्धेन विनिर्गतम् ॥
३८० समराङ्गणसूत्रधारे आयामनिर्गमा(मौ) चास्य चतुर्भागा चतुष्किका । चतुष्पदो मध्यगर्भो(र्भः) चतुर्द्वारस्य शस्यते ॥ विस्ताराद् द्विगुणोच्छ्रायन्यू(यमू)र्ध्वमानं विधीयते । विदध्याद् वेदिकाबन्धं सार्धभागय(गेन) संमितम् ॥ सार्धैश्चतुर्भिः कुर्वीत भागैर्जङ्घोच्छ्रितिं बुधः । मालामन्तरपत्रं च भागेनैकेन कारयेत् ॥ सार्धद्विभागिकं शृङ्गं कलशाण्डकसंयुतम् । तस्यार्धमपरं शृङ्गं तावन्मानं विधीयते ॥ षड्भागविस्तृतां जङ्घामन्तर्या भागसप्तकम् । तद्विस्तारदशांशै(शै)स्यात् षड्भिः स्कन्धस्य विस्तृतिः ॥ ग्रीवायास्तु विधातव्या पदस्यार्धं समुन्नतिः । भागेनाण्डकमुच्छ्रायो भागेनार्धेतु(न) चन्द्रिका ॥ द्विपदं कलशं कुर्यात् समसूत्रं सुशोभनम् । प्रासादोऽयं विशालः स्यादेवं सप्तदशाण्डकम् ॥ यः करोति स लोकेऽस्मिन्(+ रं) नागाधिपो भवेत् । लभते च बहून् कामान् देहान्ते चोत्तमं पदम् ॥ विशालः ॥ ब्रूमोऽथ लक्ष्म(क्ष्मी)दयितं प्रासादं कमलोद्भवम् । सिद्धगन्धर्वसहितं स्कन्दो यत्र व्यवस्थितः ॥ चतुरश्रं समं क्षेत्रं भुवि दिक्षु विदिक्षु च । कृत्वा वृत्तं समालिख्य भागैर्द्वात्रिंशता भत्रे(जे)त् ॥ भागौ द्वौ द्वौ ततः कुर्यादेकैकां दलपङ्क्तिकाम् । कर्णं षोडशभिः का(कु)र्यादम्भोजसदृशाकृतिः(म्) ॥ पञ्चभिर्भाजिते सीम्नि गर्भो भागत्रयं भवेत् : अधस्तादा(सँमत्त स्यात् ?) पद्मपीठं प्रकल्पयेत् ॥ १ 'नरो' इति स्यात् । २ 'सनं तस्य' इति स्यात् ।
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८१ कृत्वा (१द्विगुणमूर्ध्वानर्द्विंशत्या ? ) प्रविभाजयेत् । तुलोदयोऽथ भागः स्याद् द्वादशांशा च मञ्जरी ॥ वेदी जङ्घा च माला च स्याद् यथा शङ्खवर्धने । तदूर्ध्वं पद्मकूटानि(दि ) चोन्नत्तं पद्मपत्रवत् ॥ भूमिका( : ) पञ्च कर्तव्या( : ) पदहीना य(य)थोत्तरम् । देवि(वेदि)का तस्य कर्तव्या विकासिशतपत्रवत् ॥ पादोनभागो ग्रीवा च सपादं पदमण्डकम् । चन्द्रिका चैव भागेन विकासिकमलाकृतिः ॥ द्विपदं कलशं कुर्यात् साब्जपत्रं सपल्लवम् । आरोग्यं स्यात् पुरोदेशे कारिते कमलोद्भवे ॥ आयुःश्रीवृद्धिपुत्राः स्युरपयानां( ? ) च संशय्या । कमलोद्भवः । हंसध्वजमथ ब्रूमो हंसक्रीडाविभूषितम् ॥ सेवितं सुरसङ्घेन वल्लभं पद्मजन्मनः । विभज्य दशधा क्षेत्रमारभ्य ब्रह्मणः पदात् ॥ आदाय पार्श्वयोर्भागांस्त्रींस्त्रीन् वृत्तं प्रकल्पयेत् । एवं गर्भो विधातव्यइच्छावस्य ( जगतालुभिः ? ) ॥ द्विपदा बाह्यतो भित्तिः कर्णः कार्यो द्विभागिकः । भद्रं पञ्चपदं कार्यं पदार्धमुदकान्तरम् ॥ द्वौ भागौ निर्गतं भद्रं स्तम्भद्वयसमन्वितम् । मध्ये तु च्छादकं कुर्याद् २वातोच्छ्रायं( ? ) द्विविस्तृतम् ॥ कुर्याद् भागं सविस्तारं तोरणं चतुरुन्नतम् । वरालमकरैर्युक्तं स्तम्भेषु स्यात् तथेल्लिकाः ॥ पुरस्तान्मण्डपं प्राज्ञो रचाय(रचये)न्मानपूर्वकम् । ऊर्ध्वमानमथ ब्रूमः सूत्रं स्याद् भागविंशतिः ॥ १ ‘द्विगुणमूर्ध्वं तद्विंशत्या' इति पठनीयं स्यात् । २ ‘भागोच्छ्रायम्' इति स्यात् ।
३८२ समराङ्गणसूत्रधारे मेखलावेदिकाजङ्घाः शङ्खवर्धनवन्मताः । कर्तव्याः कर्णरथिकास्त्रिपदाः कलशान्विताः ॥ चतुष्किका पञ्चपदा वराटीघटयान्विता । कार्या कलशसंयुक्ता विस्तारोच्छ्राययोः समा ॥ काँणशृङ्गोर्ध्वयः(?) कुर्यादष्टांशां मूलमञ्जरीम् । उच्छ्रिता नवभिर्भागैः पञ्चभौमास्तु संवृताः ॥ प्रथमा द्विपदा भूमिर्हेमकूटक्रियोपमा । अन्यास्तु पदपादार्धहीनाः कार्या यथोत्तरम् ॥ मेहारत्नपुनः(?) कार्यों भूमिकापरिवर्तने । भागेन वेदिकोच्छ्रायः स्कन्धस्तु शतवास्तुवत् ॥ ग्रीवाण्डकसमुत्सेधं विदधीत पदद्वयम् । अण्डके वर्तना कार्या कङ्कतीफलसन्निभा ॥ चन्द्रिका भागमेकं च द्वौ भागौ चेत् + + + + । हंसध्वजः कृतो येन वल्लभः पद्मजन्मनः ॥ स याति विविधैर्यानैर्देहान्ते वसु + गतिम् । हंसध्वजः ॥ अथ लक्ष्मीधरं ब्रूमो यं कृत्वा विजयं नरः ॥ राज्यमायुष्यपूजा च गुणानाप्नोति चैश्वरान् । चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ॥ कर्तव्यः षट्पदः कन्दो गर्भसूत्रचतुष्पदः । चतुसृष्वपि दिक्षु स्यात् त्रिभिर्भागैर्भ्रमन्तिका ॥ द्विपदा बाह्यभित्तिः स्याच्छुभा कार्या चतुर्दिशम् । कर्णेषु शृङ्गमेकैकं द्वे द्वे शृङ्गे तु मध्यगे ॥ द्व्यंशानि तानि विस्ताराद् दशशृङ्गाणि दिक्प्रयेत्(क्त्रये) । षट्शालाश्च विधातव्याः शुभा दिक्षु तिसृष्वपि ॥ १ 'कर्णशृङ्गोर्ध्वतः' इति पाठ्यं भाति । २ 'महान् यत्नः पुनः' इति स्यात् ।
मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ३८३ याम्येन (च) चतुर्भागा भागद्वितयनिर्गताः । तलच्छन्दोऽयमुद्दिष्टो मण्डपः पुरतो भवेत् ॥ विस्ताराद् द्विगुणा सासः (णो यामः)प्रासादस्यास्य चोच्छ्रयः । स्यात् त्रयोदशभागोऽत्र प्रमाणेन तुलोदयः ॥ ऊर्ध्वं च विंशतिपदं वेदीबन्ध(:) पदत्रयम् । उत्सेधात् षट्पदा जङ्घा भागेन भरणं भवेत् ॥ भागैस्त्रिभिर्मेखले द्वे शृङ्गं च कलशं त्रिभिः । उच्छ्रयेण विधातव्यः सिंहकर्णच(श्च)तुष्पदः ॥ दश शृङ्गाणि कुर्वीत घण्टा(पकं ?)च विक्र(दिक्त्र)ये । चतुर्दशांशविस्तारा पञ्चगा( ?) मूलमञ्जरी ॥ ऊर्ध्वं सप्तदशांशा च ग्रीवोच्छ्रायः पदद्वयम् । अण्डकं द्विपदं कार्यं भागेनैकेन कर्परम् ॥ कलशं त्रिपदं मूर्ध्नि वर्तयेत् सुमनोरमम् । लक्ष्मीधराख्यं प्रासादं यः कुर्याद् वसुधातले ॥ अक्षये स पदे तत्त्वे लीयते नात्र संशयः । लक्ष्मीधरः ॥ महावज्रमथ ब्रूमः प्र(प्रे)त्य पापहरं शुभम् ॥ प्रासादे कारये(रिते) यत्र सुरेन्द्रः परितुष्यति । अष्टौ हस्तान् कनीयान् स्यान्मध्यो द्वादश मानतः ॥ उत्तमः षोडश प्रोक्तस्त्रिधैवं करसंख्यया । खविस्तारस्य सूत्रेण(++ क्षेत्र)मालिख्य वर्तुलम् ॥ कोणेषु लाञ्छितं कृत्वा भागैः षट्त्रिंशता भजेत् । द्विपदाः कर्णिकाश्चेह कार्या द्वादशसंख्यया ॥ कर्णिकाद्वयमध्ये तु स्तम्भो भागे च वर्तुलः । शतपत्राकृतिः कार्या द्वौ भागौ मूर्धमानतः ॥ अधस्तान्मेखलायाश्च कमलोद्भववद् भवेत् । स्तम्भयेत् कर्णिकामध्ये तेषु कूटानि कारयेत् ॥
३८४ समराङ्गणसूत्रधारे कुर्यादालेखमुपरि कर्णिकायाः सुशोभनम् । कर्तव्या भूमयः पञ्च क्रमेणायतयान्विता (?) ॥ स्याद् भागार्धोदया ग्रीवा विस्तारेण चतुष्पदा । अण्डकं सार्धभागेन विधातव्यं सकर्परम् ॥ भागद्वयं तु कलशः शृङ्गकर्णैः सपल्लवैः । यः करोति महावज्रं प्रासादं पुरभूषणम् ॥ तुष्टो दिवि सदाम्पत्यो रमते सोऽप्सरोगणैः । महावज्रः ॥ रतिदेहमथ ब्रूमः प्रासादं सुमनोरमम् ॥ अप्सरोगणसंकीर्णं कामदेवस्य मन्दिरम् । अष्टभागीकृते क्षेत्रे समभागे समायंते ॥ द्विपदं कर्णकूटं स्याद् वारिमार्गसमन्वितम् । अलिन्दस्य चतुर्भागा विस्तारायामतः समाः ॥ भागिकी बाह्यभित्तिस्तु शेषं गर्भं प्रकल्पयेत् । मध्ये चतुष्किका कार्या यत्र स्तम्भाः सुशोभनाः ॥ नेकरका त्रिवक्त्रैश्च हस्ते सर्वैः सपत्रकैः (?) । पल्लवैर्नागबन्धैश्च सालभञ्जिभिरन्विताः ॥ खेल्लिका तत्र कर्तव्या मकरास्यविनिर्गता । चत्वारो बाह्यतोऽलिन्दाः स्तम्भद्वितयभूकुलम् (?) ॥ सदृशं प्रथमं कार्यं भवनं कर्मयुक्तिमत् । द्वितीयं भवनं कार्यं बाह्यालिङ्क(न्द)विवर्जितम् ॥ शेषं कर्म तथा कार्यं प्रथमायां यथा (भवति?) । तृतीयायां पुनः कार्या चतुःस्तम्भा चतुष्किका ॥ खेलिकातोरणन्यस्ता( ः ) संमुखाश्च वरालकाः । स्तम्भानां कुटकन् पूर्वान् सिंहकर्ण(र्णा)श्चमध्यतः ॥ म(ध्य?)लुच्छाद्यानि(वायार्धं?) भागोच्छायान्यनुक्रमात् । त्रीणि कुर्वीत युक्तानि शुभैरन्तरपत्रकैः ॥
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९ घण्टां च भागिनीं कुर्यादूर्ध्व(र्ध्वे)नामलसारकीम् । चन्द्रिकां भागपादेन द्विभागां कलशोच्छ्रितिम् ॥ एवंविधं यः कुरुते प्रासादं रतिवल्लभम् । सन्तोषयति कन्दर्पं स्याज्जनेषु स पुण्यभाक् ॥ रतिदेहः ॥ सिद्धिकाममथ ब्रूमः प्रमथैरुपशोभितम् । धनपुत्रकलत्राणि कृते यत्राप्नुयान्नरः ॥ चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते । गर्भं द्विभागं कुर्वीत भित्तिर्भा(भा)गेन शोभनम् ॥ भद्रं द्विभागविस्तारं भागेनैकेन निर्गतम् । कर्णमेकेन भागेन कुर्यात् प्रतिदिशं बुधः ॥ अस्योर्ध्वं द्विगुणं कुर्यात् षष्ठभागविभाजितम् । भागे च वेदिकाबन्धं जङ्घा सार्धपदोन्नता ॥ मेखलान्तरद्र(प)त्रे च पादहीनं पदं मते । स्यादुच्छितीश्चामा(?) जङ्घा पादोनं पदपञ्चकम् ॥ त्रिभागविस्तृता ग्रीवा भागपादसमुच्छ्रिता । पदार्धमण्डकं प्राहुः पदपादेन चण्डिकाम् (?)॥ भागस्यार्धेन कलशसमुच्छ्रायो मतः समः । +++गुणसूत्रास्या द्वितीयाः पञ्चभूतिकाः(?) ॥ यः सिद्धिकामं कुरुते सर्वपापविमोचनम् । सर्वेऽस्य कामाः सिध्यन्ति ये केचिन्मनसि स्थिताः ॥ सिद्धिकामः ॥ अथाभिधीयतेऽस्माभिः प्रासादः पञ्चचामरः । यो भक्त्या कारयत्येनं स चिरं दिवि मोदते ॥ भक्ते द्वादशभिः क्षेत्रे चतुरश्रे समन्ततः । चतुर्भागे भवेद् गर्भो भित्तिं भागेन कल्पयेत् ॥ वा. ४९
३८६ समराङ्गणसूत्रधारे अन्धारिका तु भागौ द्वौ बाह्यभित्तिस्तु भागिकी । त्रि(भि)र्भागैर्विनिष्क्रान्तं तेषु कार्याश्चतुष्किकाः ॥ द्विगुणं कथिते(तं) चोर्ध्वमानं घण्टाण्डकान्वितम् । प्रमाणेन विधातव्यो दश भागास्तुलोदयः ॥ त्रिपदो वेदिकाबन्धो जङ्घा स्यात् + षडंशकः । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥ पदत्रयेण (सादूर्ध्वं शृङ्गं कलश चाण्डकम् ?) । शिखरा विंशतिः कार्याः सम्भित्ताः (संभिन्नाः) सर्वमण्डपैः ॥ शृङ्गादधो विधातव्या(व्यं) मल्लच्छाद्यं मनोहरम् । एवं सर्वचतुष्केषु मल्लच्छाद्यानि कारयेत् ॥ छाद्यकैः पञ्चभिः कार्यों मध्ये प्रासादनायकः । घटिकानां समुच्छ्रायः सपादं पदमिष्यते ॥ घण्टायाः सार्धभागेन ग्रीवायाश्च पदादि(धि)का । कर्त्तव्यामलसारी तु (पादोनांशायखण्डिकाम् ?) ॥ द्विपदः कलशः कार्यों बीजस्वरसमन्वितः । पञ्चघण्टावृतं कृत्वा विमाना(नं) पञ्चचामरम् ॥ (अतीतविस्त्वयान् सर्वान् लोकः प्राप्नोति सम्भव ?) । पञ्चचामरः ॥ नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम् ॥ य एनं भक्तितः कुर्यात् स भवेदजरामरः । चतुरश्रे समे क्षेत्रे चतुर्भागविभाजिते ॥ भद्रं द्विभागविस्तारं कुर्याद् भागविनिर्गमम् । भित्तिरत्र न कर्तव्या दिशि कस्यामपि ध्रुवम् ॥ कुर्वीत राजसेनं तु वेदिचन्द्रावलोकनम् । दिक्षु क्रमोऽयं सर्वासु त्यक्त्वा मार्गचतुष्टयम् ॥ १ 'स्यादूर्ध्वं शृङ्गं सकलशाण्डकम्' इति स्यात् ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८७ विस्तारसदृशोच्छाया कर्तव्या पूर्वभूमिका । वक्ष्यमाणैर्विभागैश्च विप्रभज्यासणाः + + (?) ॥ भागेन राजसेनं स्याद् वेदिर्भागद्वयेन च । भागेन चन्द्रालोकः स्यादर्धेनासनपट्टकः ॥ स्तम्भोच्छ्रायस्त्रिभिर्भागैस्ततो भागेन शीर्षकम् । पट्टोच्छ्रायो भागमेकं स्याच्चतुर्विंशतिर्धराः ॥ नानासङ्गैः पल्लवैश्च चारुकर्मकराननैः । द्वितीया भूमिका कार्या स्तम्भैः षोडशभिर्युता ॥ एवं भूमौ द्वितीयायामपि कर्म विधीयते । स्तम्भैश्चतुर्भिः संयुक्ता तृतीयायां चतुर्धि(ष्कि)का ॥ नन्दिघोषः कृतो येन (मूर्यं तेजो ?) स जायते । कर्मक्षया तुतुं (त् तनुं) त्यक्त्वा प्राप्नोति परमं पदम् ॥ नन्दिघोषः ॥ प्रासादमभिधास्यामो मनूत्कीर्णं महाद्यु(द्भु)तम् । विमृश्य बुद्ध्या निपुणं निर्मितं प्राक् स्वयम्भुवा ॥ क्षेत्रे षड्भागविस्तारे गर्भे(र्भं) भागचतुष्टये । कुर्वीत वृत्तं मध्ये च नवभिर्वृत्तिमालिका( ? ) ॥ अष्टौ ( च ) रथिकाः कार्याः क्षेत्रे दिक्षु विदिक्षु वा । ऊर्ध्वमानमथ ब्रूमो द्विगुणं द्विपदान्वितम् ॥ (छाद्ययावद्विधातव्या तत्सार्धार्ङ्गकपञ्चकम् ?) । भागानष्टार्धसहितान् कुर्यादूर्ध्वं तुलोदयात् ॥ सार्धभागेन कर्तव्यो वेदीबन्धश्च शोभनः । भागद्वयं ततः सार्धं कार्या जङ्घासमुच्छ्रितिः ॥ भागार्ध हीरकं कुर्यान्मनोज्ञं कर्ति(र्णि)कान्वितम् । मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥ १ 'सूर्यतेजाः' इति स्यात् ।
३८८ समराङ्गणसूत्रधारे। शृङ्गोच्छ्रायस्ततः कार्यः सार्धभागद्वयोन्मितः । मध्येन सर्वशृङ्गाणां मस्तके वृत्तमालिखेत् ॥ षड्भागविस्तृतं तस्य + षड्भागसमुच्छ्रितम् । यावन्मात्राचरेत्(वरे) प्रोक्ता तावत् कार्या च मञ्जरी ॥ त्रिभौमं पञ्चभौमं च विचित्रं कारये(दि)मम् । ग्रीवा स्याद् भागपादेन विस्ताराद् द्विपदायता ॥ पादहीनं पदं कुर्यादण्डकं मनुसंभवे(त् ?) । चन्द्रिका भागपादेन पादोनं कुशलः(कलशः) पदम् ॥ प्रासादं मनसाप्येवं १मनुकीर्तः(र्ण) करोति यः । स गंध्या (गत्वा) भवनं शम्भोर्गाणपत्यमवाप्नुयात् ॥ मानकीर्णः( ? ) ॥ अथ सुप्रभनामानं प्रासादमभिदध्महे । यं कृत्वा प्रभयान्येषां प्रभा हन्ति रविर्यथा ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । कुर्याच्चतुष्पदं गर्भं विस्तारो यामतः समः ॥ प्रासादार्थं भवेत् कन्दः कन्दभद्रं पदद्वयम् । भ्रमन्ती द्विपदा दिक्षु चतसृष्वपि शोभना ॥ पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः । चतुष्पदं मध्यभद्रं विनिष्क्रान्तं त्रिभिः पदैः ॥ (२अस्यैर्वात) पुनः कार्या द्विपदा तु चतुष्किका । (३सोलायाः ? ) पार्श्वतः कुर्यादतिभद्रद्वयं बुधः ॥ तयोः पादेन निष्कासं पार्श्वयोरुभयोरपि । पार्श्वभद्रस्य कर्णस्य चान्तरं पदिके नयेत् ॥ जालैर्विचित्रितं कुर्यान्मध्ये ज्योतिर्यथा भवेत् । एवं दिक्षु समस्तासु कुर्वीतैनमनुक्रमात् ॥ १ 'मनूत्कीर्ण' इति पूर्वं व्यपदिष्टः । २ 'अस्यैवान्तः' इति स्यात् । ३ 'शालायाः' इति स्यात् ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३८९ प्रासादभागविधिना पुरः कुर्वीत मण्डपम् । चतसृष्वपि मञ्जर्यो दिक्षु कार्या यथाक्रमम् ॥ लीयमूलसजङ्घात्रा स्वसार्धा च यथादिमम् (?) । उच्छ्रायो मूलविस्ताराद् द्विगुणो द्विकलाधिकः ॥ तुलोदयो दशपदो मञ्जरी षोडशांशिका । वेदीबन्धसमुत्सेधः सार्धभागद्वयोन्मितः ॥ पञ्चभागोच्छ्रिता जङ्घा हीरं भागसमुन्नतम् । सार्धभागेन कर्तव्ये मेखलान्तरपत्रके ॥ कर्णशृङ्गसमुत्सेधः कलशान्तस्त्रिभागिकः । दिङ्मञ्जरी तु कर्तव्या विस्तारेण चतुष्पदा ॥ उदयेन विधातव्या पञ्चभागा प्रमाणतः । ग्रीवा पदस्य पादेन कलशोऽर्धपदं भवेत् ॥ विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः । ++भागत्रयोत्सेधो ग्रीवा पादे(दो)नभागिका ॥ अण्डकं सार्धभागेन द्विपदा कलशोच्छ्रितिः । (देशांशषट्कतो मूलास्कन्धोरेषोऽन्तको ?) भवेत् ॥ विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः । नवाण्डकोऽयं कर्तव्यः प्रासादः शुभलक्षणः ॥ यः प्रासादमिमं कुर्यात् सुप्रभं भक्तिमान् नरः । दिव्यते(१जारवहस्यास्य ?) देहान्ते मुक्तिमाप्नुयात् ॥ २शुभलक्षणः ॥ सुरानन्दमथ ब्रूमः प्रासादमतिसुन्दरम् । चतुरश्रं समं क्षेत्रे(त्रं) दशधा प्रविभाजयेत् ॥ षड्भागो गर्भविस्तारो द्वौ भागौ भित्तिविस्तृतिः । ३कर्तव्या सार्धभागेन(?) भागार्धेन जलाशयः ॥ १ ‘जोवहः स स्याद्’ इति पाठ्यं स्यात् । २ उपक्रमोपसंहारयोः सुप्रभ इत्यस्य नाम दृश्यते । ३ अत्र क्रियांश्चिच्छ्लोकांशो गलित इव भाति ।
३९० समराङ्गणसूत्रधारे प्रत्यङ्गस्थानकं कुर्यात् ( सप्रसं वृत्त ? )भागिकम् । शालास्त्रिभिः पदैः कार्याः शुभ्रूपाश्चतुर्दिशम् ॥ शालायाः पार्श्वयोः कार्यो वारिमार्गः पदार्धकः । परस्परं तु निष्कासो भागं भागं विधीयते ॥ ऊर्ध्वमानं विधातव्यं विस्ताराद् द्विगुणो ( णं ) बुधैः । गर्भच्छाद्यं पदान्यष्टौ भागा द्वादश मञ्जरी ॥ वास्तुविस्तारपादेन वेदीबन्धो विधीयते । चतुष्पदोर्ध्वतो जङ्घा भागार्धं ग्रासपट्टिका ॥ मेखलान्तरपत्रे च विधातव्ये पदोच्छ्रिते । कोणा द्रविडकूटस्य वृत्तस्तम्भा वराटका( ? ) ॥ मध्याङ्गतोरणानां स्युद्विशतित्रिशततुरो( ? ) भवेत् । षट्पदः स्कन्धविस्तारो ग्रीवा भवति भागिकी ॥ शिरः सार्धं पदं ज्ञेयं भागमेकं च चन्द्रिका । कलशोंऽशद्वयोच्छ्रायः कार्यः पल्लवभूषितः ॥ यः करोति सुरानन्दं वरदास्तस्य मातरः । सुरास्तस्य ह्यनिस्तार्यमपमृत्युं हरन्ति च ॥ सुरानन्दः ॥ अथ हर्षं प्रवक्ष्यामि सर्वलोकप्रहर्षणम् । नित्यं वसति यत्र श्रीः स्थानं यद् विश्वकर्मणः ॥ चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः । प्रतिकोणं विधातव्याः ( 'कर्णभागौ ? ) स्त्रिभिस्त्रिभिः ॥ द्विपदं कर्णभद्रं च भागेनैकेन निर्गतम् । वारिमार्ग( र्गं ) पदं कुर्यात् प्रवेश्य( शा )यामतः समम् ॥ त्रिभागमस्य प्रत्यङ्गं पदद्वितयनिर्गमम् । वेदिचन्द्रावलोकाभ्यां प्रत्यङ्गे कर्म कल्पयेत् ॥ १ 'कर्णा भागे' इति स्यात् ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९१ चतुष्पदं मध्यभागं द्विपदं चास्य भद्रकम् । विनिर्गतं च भागेन विदधीत विचक्षणः ॥ वलभ्यश्च द्विभागाः स्युः खा(स्वा)नुरूपाश्चतुर्दिशम् । गर्भो भागैश्चतुर्भिस्तु वलभीनां विधीयते ॥ द्विपदा बाह्यतो भित्तिर्द्विपदा च भ्रमन्तिका । स्कन्धः स्याद् दशभिर्भागैर्गर्भः षट्त्रिंशता पदैः ॥ ऊर्ध्वप्रमाणमेतस्य स्याच्चत्वारिंशता पदैः । भागैः षोडशभिश्चास्य विदध्याच्छादनं शुभम् ॥ वेदीबन्धः पञ्चपदो जङ्घा चाष्टपदा भवेत् । शाला( लां) चान्तरपत्रं च कुर्याद् भागत्रयाद् बुधः ॥ ऊर्ध्वमन्तरपत्रं स्याद् विधातव्यं यथाक्रमम् । वलभीसंवृतिः प्राज्ञैरुच्छायात् पञ्चभागिकी ॥ सा( स )शृङ्गैः सिंहकर्णैश्च कार्यों(र्या) भागसमुच्छ्रितिः । वर्धमानेन कर्तव्या त्रिपदा कर्णमञ्जरी ॥ ऊर्ध्वं पदेभ्यस्त्रिभ्यः स्याद् भागेन कलशाण्डकम् । विस्तारात् षोडशपदा कर्तव्या मूलमञ्जरी ॥ ऊर्ध्व( र्ध्वं )विंशतिभागस्य स्कन्धो नवपदायतः । ग्रीवा सार्धपदं कार्या ततो द्विपदमण्डकम् ॥ चन्द्रिकैकेन भागेन कलशस्त्रिपदात् ततः । हर्षणः क्रियते यत्र स देशः सुखमेधते ॥ क्षेमं गोब्राह्मणानां स्यात् पूर्णकामश्च पार्थिवः । हर्षणः ॥ इदानीं दुर्धरं ब्रूमः प्रासादं शुभलक्षणम् ॥ चतुरश्रे समे क्षेत्रे चतुर्विंशतिभाजिते । कर्णाः (षडापदाः कार्या प्रतिरथं च ?) द्वयं भवेत् ॥ कर्तव्याष्टपदा शाला निर्गमोऽस्य चतुष्पदः । पदद्वयं विनिष्क्रान्ता सर्वतः कर्णशोभिता ॥
३९२ समराङ्गणसूत्रधारे द्विपदा बाह्यभित्तिः स्याच्चतुर्भागान्धकारिका । द्विपदा कन्दभित्तिस्तु गर्भश्चाष्टपदायतः ॥ षट्पदा कन्दशाला च कन्दकर्णाः पदत्रयम् । ऊर्ध्वप्रमाणं विस्ताराद् द्विगुणं द्विपदाधिकम् ॥ (विंशत्यम ?) तुलोच्छायाः शिखरं त्रिंशता पदैः । कुम्भः सार्धद्विभागश्च कलशो भागमुच्छ्रिति(त)ः ॥ भागार्धेनान्तरं पत्रं भागेनैकेन मेखला । दशभागोच्छ्रिता जङ्घा हीरकं भागिकं भवेत् ॥ भागैश्चतुर्भिः कर्तव्यं मेखलाद्वितयं ततः । अधस्तादूर्ध्वपट्टस्य तलपट्टस्य चोपरि ॥ भवेत् षोडशभिर्भागैरनयोरन्तरं द्वयोः । द्विपदो वेदिकाबन्धो वेदी कार्या चतुष्पदा ॥ आसनं चैव भागेन स्तम्भः पञ्चपदैर्भवेत् । भागेनैकेन भरणं शीर्षकं भागमुन्नतम् ॥ पट्टो भागद्वयोत्सेधश्छाद्यं च त्रिपदायतम् , मूलभरणानि( ? ) चत्वारि कोणभद्राणि (कं भवेत् ?) ॥ कर्णशृङ्गाणि दश च द्वयम(थ ?) स्तिंमश्चतुर्दिशम् । (ग्रीवां + भगसन्तानां ?) शृङ्गाणां त्रिपदोच्छ्रितिः ॥ षट्पदाः कर्णमञ्जर्यः सप्तभागसमुच्छ्रिताः । ग्रीवार्धभागिकी भागः स्यादुच्छ्रायोऽण्डकस्य (तत् ?) ॥ पदत्रयोन्नता कार्या सिंहकर्णश्चतुष्पदा (?) । मध्ये भद्रे तदुत्सेधो विस्तारादर्धभागिकः ॥ विस्तारो मूलमञ्जर्याः पदैः षोडशभिर्भवेत् । अष्टादशभिरुच्छ्रायो ग्रीवा सार्धपदोच्छ्रिता ॥ अण्डकं द्विपदं कार्यं चन्द्रिका पदमुच्छ्रिता । कलशं त्रिपदं विद्यात् सर्वलक्षणसंयुतम् ॥
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९३ अण्डकैः सप्तदशभिः प्रासादो दुर्धरो भवेत् । दुर्धरं यः करोतीह भागा (भर्गा) च्छक्तिं समा (आ)प्नुयात् ॥ कालेन शिवसायुज्यं ('निगधिश्च प्रपद्यते ?) । दुर्धरः ॥ इदानीं दुर्जयं ब्रूमः प्रासादं शत्रुमर्दकम् ॥ यं कृत्वा (दुर्जयं लोके ?) भवेत् क्रीडति च क्षितौ । चतुरश्रीकृते क्षेत्रे पञ्चभागविभाजिते ॥ गर्भं नवपदं कुर्याद् भित्तिः षोडशभागिकी । भागेन कर्णरथिका भागाभ्यां मध्यमे रथः ॥ भागेन निर्गमं (स्त)स्य वि(धि)रेष चतुर्दिशम् । भद्रकर्णान्तरे कुर्याद् वारिमार्गं पदाधिकम् ॥ ऊर्ध्वमानं विधातव्यं (त्वमस्मि ?) दशभागिकम् । वेदिबन्धः सपादांशौ जङ्घांसौ पादसंयुतौ ॥ मेखलान्तरपत्रे तु पदार्धेन प्रकल्पयेत् । शिखरः (शिखिरैः ?) सार्धं भागषट्कोच्छ्रितो भवेत् ॥ त्रिपदः स्कन्धविस्तारो रेखा पद्मदलाकृतिः । भूमयः पञ्च कर्तव्या न्यूनमाना यथाक्रमम् ॥ प्रथमा सार्धभागान्या पदपादोनेत्ता क्रमात् । स्कन्ध(:)पादोन्भागेन स्याद् ग्रीवार्ध(र्धं) पदेन च ॥ अण्डकं त्वेकभागेन कर्परं चार्धभागिकम् । भागोत्सेधस्तु कलशः समवृत्तः सुशोभनः ॥ दुर्जयः क्रियते यत्र पुरे वा नगरेऽथवा । न भवेत् तत्र दुर्भिक्षं न च व्याधिकृतं भयम् ॥ दुर्जयः ॥ ब्रूमस्त्रिकूटं ब्रह्मार्थैः सेवितं त्रिदशैस्त्रिभिः । फलं क्रतुसहस्रस्य येन मोक्षं च विन्दति ॥ १ 'निधने च प्रपद्यते' इति स्यात् । २ 'दुर्जयो लोको' इति स्यात् । वा. ५०
३९४ समराङ्गणसूत्रधारे (संसाध्यतुल्यत्रिभजं ?) क्षेत्रमिष्टप्रमाणतः । ततोऽस्य बाहुमेकैकं चतुर्भिर्विभजेत् पदैः ॥ द्विभागं मध्यमं भद्रं भागिकीं कर्णपक्षि(द्वि)काम् । अर्धेन गर्भमर्धेन कुर्याद् भित्त्रित्रयं बुधः ॥ विस्तारं पञ्चधा भक्ता(क्त्वा) कुर्याद् द्विगुणमुच्छ्रय(यम्) । वेदिबन्धो विधातव्यः सपादं भागमुच्छ्रितः ॥ जङ्घा सपादौ भागौ द्वौ कार्या तस्य समुच्छ्रितिः । मेखलान्तरपत्रे च भागस्यार्धेन कारयेत् ॥ मञ्जरी भागषट्केन पञ्चभागविभाजिता । आसमन्तात् (स्तम्भस्कन्धः ?) कार्यः पूर्वोक्तवर्त्मना ॥ पादभागेन तु ग्रीवामर्धभागेन चाण्डकम् । चन्द्रिका भागपादेन कलशं भागमुच्छ्रितम् ॥ त्रिकूटं कारयेद् यस्तु ब्रह्मेशानहरिप्रियम् । सिद्धा(द्धो)भूत्वा पुरीं तेषां यात्यसौ नात्र संशयः ॥ त्रिकूटः ॥ इदानीमभिधास्यामः प्रासादं नवशेखरम् । चतुरश्रं भजेत् क्षेत्रं विंशत्येकोनया पदैः । कर्णाश्चतुष्पदाः कार्यास्तेषां भद्रं द्विभागिकम् । विनिर्गतं पदार्धेन जलमार्गस्त+++॥ ++भागयता कार्या सा भवेहि (?) विवङ्गैः । शाला(कर्गपदाद्धूतु ?) प्रत्यङ्गं भागमानतः ॥ त्रिपदो रथकः कार्यो मञ्जरीणां चतुष्टयम् । चतुष्पदा भवेद् भित्तिर्गर्भश्चैकादशांशकः ॥ चत्वारिंशत्पदादूर्ध्वं यावत् स्कन्धं समस्तकम् । तुलोदयः षोडशभिर्मञ्जरी चाष्टकैस्त्रिभिः ॥ १. 'संसाध्य तुल्यत्रिभुजम्' इति पाठ्यं भाति ।
मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३५५ चतुष्पदो वेदिबन्धो जङ्घा साष्टपदा भवेत् । भागेन भरणे त्र्यंशं मेखलान्तरपत्रकम् ॥ उच्छ्रायतः पञ्चपदा कर्तव्या कर्णमञ्जरी । ग्रीवार्धभागेन भवेदण्डकं चैव भागिकम् ॥ भागेन चन्द्रिकामूर्ध्वं भागेन कलशं तथा । सपादमुदयं (शाला मञ्जर्या विस्तृते ?) विदुः ॥ ग्रीवा पादेन भागेन सपा(१दासमना ?)ण्डकम् । भागाद्धि चन्द्रिका भागद्वयेन कलशोदयः ॥ विस्तारो मूलमञ्जर्याः कार्यः पञ्चदशांशकः । तथा सप्तदशोच्छ्रायः स्कन्धायामो नवांशकः ॥ ग्रीवा चास्यार्धभागेन सार्धद्विपदमण्डकम् । वण्डिका सार्धभागेन त्रिपदः कलशोदयः ॥ एवं यः कारयत्येनं प्रासादं नवशेखरम् । नवभिः सहितां खण्डैः स भुनक्ति वसुन्धराम् ॥ नवशेखरः ॥ पुण्डरीकमथ ब्रूमो यशसो वर्धनं परम् । यस्मिन् कृते स्थिरा कीर्तिर्भवेद् यावद् वसुन्धरा ॥ चतुरश्रं समं क्षेत्रं विभजेत् पञ्चभिः पदैः । त्रिपदं कल्पयेद् गर्भं तस्य भित्तिं च भागिकाम् ॥ त्रिपदं तस्य भद्रं स्यात् सार्धभागविनिर्गमम् । भद्रेषु वर्तुलं दिक्षु रथिकानां चतुष्टयम् ॥ भागेनैकेन रथिका मूलच्छन्दोऽयमीरितः । ऊर्ध्वमानं भवेद् यस्य द्विगुणो दशभागिकम् (?) ॥ भागेनोच्छालकं विद्याद् भागार्धेन तु मेखला । वेदिबन्धं न कुर्वीत जङ्घा सार्धद्विभागिका ॥
१ 'दाशमथ' इति स्यात् ।
३९६ समराङ्गणसूत्रधारे मेखला चार्थभागेन भवेत् सान्तरपत्रका । पदानि पञ्च सार्धानि मञ्जर्याः स्यात् समुच्छ्रितिः ॥ त्रिपदः स्कन्धविस्तारो ग्रीवा वा (पदसादिकाः ? ) । अण्डकं स्यात् पदार्धेन भागपादेन चन्द्रिका ॥ भागोच्छ्रायस्तु कलशः कर्तव्यः शुभलक्षणः । मध्येन मूलमञ्जर्यास्त्रिपदा भद्रमञ्जरी ॥ सार्धा + त्रिपदोच्छ्राया ग्रीवा भागसमुच्छ्रिता । अण्डकं च त्रिभागेन कलशो भागमुच्छ्रितः ॥ पञ्चाण्डः पुण्डरीकोऽयं कर्तव्यः शुभवर्धनः । पुण्डरीकः ॥ सुनाभ(स)मथ ब्रूमो वन्दितो (तं) देवदानवैः ॥ वल्लभं लोकपालानां पुण्यमुत्कृष्टलक्षणम् । विभजेत् सप्तदशभिः समक्षेत्रं चतुर्भुजम् ॥ पञ्चभागायताः कोणा गर्भः कार्यस्त्रिभिः पदैः । उभयोः कोणयोर्मध्ये सप्तभागिकमन्तरम् ॥ व्यक्षेपात्(?) कर्णयोर्मध्ये प्रा(प्रो)ञ्छयेत् पदमन्तरम् । भागप्रवेशं भागार्धे(र्ध)विस्तारा(र)मुदकान्तरम् ॥ द्विपदा बाह्यभित्तिः स्यात् त्रिपदाथ भ्रमन्तिका । पञ्चभागायतो मध्ये भवेत् प्रासादनायकः ॥ त्रिपदस्तस्य गर्भस्तु भित्तिर्भागं विधीयते । त्रिपदं कर्णभद्रं च भागेनैकेन निर्गतम् ॥ पदप्रमाणकोणांस्तु चत्वा(तु)रोप(वि)निवेशयेत् । यथा कन्दस्तथा कोणो विभागैः स विधीयते ॥ पञ्च गर्भास्तु कर्तव्याः सममानप्रकल्पिताः । द्विगुणं चोर्ध्वमानं स्याद् ग्रीवाण्डकविवर्जितम् ॥ त्रिभिः पदैर्वेदिबन्धो जङ्घा सप्तपदा भवेत् । पदत्रयेण कर्तव्यं मेखलाद्वितयं बुधैः ॥