समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 459, कुल 726 में से
संदर्भ में पढ़ें३९६ समराङ्गणसूत्रधारे मेखला चार्थभागेन भवेत् सान्तरपत्रका । पदानि पञ्च सार्धानि मञ्जर्याः स्यात् समुच्छ्रितिः ॥ त्रिपदः स्कन्धविस्तारो ग्रीवा वा (पदसादिकाः ? ) । अण्डकं स्यात् पदार्धेन भागपादेन चन्द्रिका ॥ भागोच्छ्रायस्तु कलशः कर्तव्यः शुभलक्षणः । मध्येन मूलमञ्जर्यास्त्रिपदा भद्रमञ्जरी ॥ सार्धा + त्रिपदोच्छ्राया ग्रीवा भागसमुच्छ्रिता । अण्डकं च त्रिभागेन कलशो भागमुच्छ्रितः ॥ पञ्चाण्डः पुण्डरीकोऽयं कर्तव्यः शुभवर्धनः । पुण्डरीकः ॥ सुनाभ(स)मथ ब्रूमो वन्दितो (तं) देवदानवैः ॥ वल्लभं लोकपालानां पुण्यमुत्कृष्टलक्षणम् । विभजेत् सप्तदशभिः समक्षेत्रं चतुर्भुजम् ॥ पञ्चभागायताः कोणा गर्भः कार्यस्त्रिभिः पदैः । उभयोः कोणयोर्मध्ये सप्तभागिकमन्तरम् ॥ व्यक्षेपात्(?) कर्णयोर्मध्ये प्रा(प्रो)ञ्छयेत् पदमन्तरम् । भागप्रवेशं भागार्धे(र्ध)विस्तारा(र)मुदकान्तरम् ॥ द्विपदा बाह्यभित्तिः स्यात् त्रिपदाथ भ्रमन्तिका । पञ्चभागायतो मध्ये भवेत् प्रासादनायकः ॥ त्रिपदस्तस्य गर्भस्तु भित्तिर्भागं विधीयते । त्रिपदं कर्णभद्रं च भागेनैकेन निर्गतम् ॥ पदप्रमाणकोणांस्तु चत्वा(तु)रोप(वि)निवेशयेत् । यथा कन्दस्तथा कोणो विभागैः स विधीयते ॥ पञ्च गर्भास्तु कर्तव्याः सममानप्रकल्पिताः । द्विगुणं चोर्ध्वमानं स्याद् ग्रीवाण्डकविवर्जितम् ॥ त्रिभिः पदैर्वेदिबन्धो जङ्घा सप्तपदा भवेत् । पदत्रयेण कर्तव्यं मेखलाद्वितयं बुधैः ॥