समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 460, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ३९७ ऊर्ध्वतो बाह्यच्छन्दस्या (स्य) कर्तव्या कर्णमञ्जरी । षट्पदाः कर्णमञ्जर्यो द्विपदं कलशाण्डकम् ॥ (१द्वादशा सप्तविस्तारा ?) कर्तव्या मूलमञ्जरी । त्रयोदशपदोच्छाया ग्रीवास्या भागमुच्छ्रिता ॥ अण्डकं द्विपदोत्सेधं भागोत्सेधा तु चन्द्रिका । कलशस्त्रिपदोत्सेधो वर्तुलः शुभलक्षणः ॥ यावत् क्षितिर्यावदब्धिर्यावच्छशिदिवाकरौ । कर्तास्य तावद् दिव्यास्ते यावत् सुरगुरुः सुराः ॥ सुनाभाः ॥ माहेन्द्रमथ वक्ष्यामः प्रासादं भूषणं क्षितेः । सेवितं यक्षगन्धर्वैः फणीन्द्रैश्च महाप्रभैः ॥ माहेन्द्रं पञ्चदशभिर्भागैः प्राज्ञो विभाजयेत् । नवभागायतं गर्भं कुर्याद् भित्तिं त्रिभागिकीम् ॥ विस्तारेणास्य विख्याता तज्ज्ञैः शाला पदत्रयम् । शालायाः पार्श्वयोः कार्यों रथौ सार्धपदौ बुधैः ॥ रथशालान्तरेणैव कर्तव्यमुदकान्तरम् । (रथस्याग्रतः पश्चारि गृहकार्यं पदार्धकम् ?) ॥ प्रत्यङ्गानि पदं सार्धं + + + + जलान्तरम् । द्विपदं कर्णमानं च कार्यं कोणचतुष्टयं (ये) ॥ भागेनान्योन्यमेतेषां विधातव्यो विनिर्गमः । ऊर्ध्वमानं तु कर्तव्यं द्विगुणं सीमविस्तृतेः ॥ तुलोदयो दशांशः स्याद् विंशत्यंशा च मञ्जरी । वेदिबन्धं प्रकुर्वीत सार्धभागद्वयं बुधः ॥ जङ्घयोस्तु समुच्छ्रायमर्धपञ्चमभागिकम् । भागेन भरणं कुर्याल्लाञ्छितं पत्रभङ्गिभिः ॥ १ ‘द्वादशांशसविस्तारा’ इति स्यात् ।