समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 463, कुल 726 में से
संदर्भ में पढ़ें४०० समराङ्गणसूत्रधारे चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् । कोणासन्नप्रतिरथो द्राविडोऽस्य विधीयते ॥ भूमिका नव कर्तव्याः शेषं कार्यं महेन्द्रवत् । पादोनभागद्वितया ग्रीवास्य च विधीयते ॥ सार्धभागद्वयमितं विदध्यादण्डकं शुभम् । चण्डिका सार्धभागेन कलशश्चाण्डकैस्त्रिभिः ॥ इत्येष कथितः सम्यक् प्रासादः सुमुखाभिधः । य एनं कारयेद् भक्त्या स कामानश्नुतेऽखिलान् ॥ भुक्त्वेह विपुलान् भोगान् पदमभ्येति शाश्वतम् । सुमुखप्रासादः ॥ 'चतुर्मुखा(?)श्रीधरादीनां ये प्रोक्तास्तान् प्रचक्ष्महे ॥ लक्षणैरधुना सम्यग् देवानामनिवर्तनात्(?)। यत् स्याद् विजयभद्रस्य रूपं तस्मिंस्तथास्थिते ॥ विजयो नाम कर्तव्यः प्रासादो देवताप्रियः । कर्णे केसरि+++सर्वतोभद्रकः पुनः ॥ निवेशनीयो रथकैः सर्वलक्षणसंयुतः । तस्योपरि विधातव्या मञ्जरी चारुरूपिणी ॥ विस्तारादुदयात् तस्याः कुर्वीतैककलाधिकम् । स्कन्धस्तु षट्पदः कार्यो ग्रीवा भागसमुच्छ्रिता ॥ अण्डकं सार्धभागेन चन्द्रिकापि च तत्समा । तस्या एव हि मध्ये तु कुर्यादामलसारकम् ॥ सार्धभागद्वयोत्सेधं कलशं च तदूर्ध्वतः । द्राविडैश्च वराटैश्च प्रकुर्वीतास्य मञ्जरीम् ॥ +++++प्रपन्ना नापि जन्मनि जन्मनि(?)। नन्दः ॥ महाघोषाभिधानोऽथ प्रासादः कथ्यतेऽपरः ॥ १ 'श्वांशकैस्त्रिभिः' इति तु युक्तः पाठः । २ इह ग्रन्थपात इव लक्ष्यते ।