भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 464, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 464

मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४०१ नन्दिघोषस्य संस्थाने रूपे चास्य व्यवस्थितः । अस्य कर्तृ (र्णे) षु सर्वेषु भद्राणि विनिवेशयेत् ॥ भद्रे चतुष्किका कार्या द्विपदायामनिर्गमा । भागिकी भित्तिरन्तश्च शेषं गर्भग्रहं स्मृतम् ॥ शृङ्गाणि कर्णे कुर्वीतेत्येषा प्रथमभूमिका । द्वितीया तु पुनः कार्या भित्तिविन्यासवर्जिता ॥ चतुर्दिशं विधातव्यं वेदीचन्द्रावलोकनम् । विदधीत चतुःस्तम्भां तृतीयामपि भूमिकाम् ॥ छाद्यकैरूर्ध्वेने तस्या कार्या संवरणा बुधैः (?) । कारयेन्नन्दिघोषं यः प्रासादमिममृत्तमम् ॥ विभूतिर्वाञ्छिता तस्य कुलेऽपि न विनश्यति । महाघोषः । प्रासादो मिश्रकेष्वेव वृद्धिरागो(मो) विधीयते ॥ (स्रीनिस्सय ?) संस्थानं यत् तदस्यापि कीर्तितम् । गर्भकन्दं परित्यज्य स्तम्भैः षोडशभिर्वृतम् ॥ अस्य मध्यं विधातव्यं शेषं च श्रीनिवासवत् । उरोघण्टाभिरष्टाभिरश्वशालाभिरेव च ॥ अस्य भद्राणि कुर्वीत सर्वालङ्कारवन्ति च । वसुन्धरस्य ये भेदास्तैः सर्वैरन्वितः शुभः ॥ कलशैरेकविंशत्या वृद्धिरामः प्रशस्यते । प्रासादस्यास्य कर्ता च यावच्चन्द्रार्कतारकम् ॥ तावदिन्द्र इव स्वर्गे क्रीडत्यप्सरसां गणैः । वृद्धिरामः ॥ वृद्धिरामस्य संस्थाने प्रासादः स्याद् वसुन्धरः ॥ १. 'छाद्यकैरूर्ध्वतस्तस्याः कार्यं संवरणं बुधैः' इति पाठनीयं स्यात् । २. 'श्रीनिवासस्य' इति स्यात् । वा. ५१