भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 475, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 475

भागैश्चतुर्भिर्गर्भः स्याद् भित्तिः कार्या तु भागिका । भ्रमन्तिकापि भागेन बाह्यभित्तिश्च भागिकी ॥ भागद्वयेन कुर्वीत दिक्त्रयेऽस्य चतुष्किकाम् । पुरतो मण्डपं कुर्यादुपेतं कर्मशोभया ॥ एवं विभागान् संकल्प्य यथोद्देशं विचक्षणः । मन्दरस्येव कुर्वीत कर्मशोभां समन्ततः ॥ ऊर्ध्वतो यत् प्रमाणं स्यात् तदस्येहाभिधीयते । अधस्तान्नागपीठः स्यात् प्रमाणेन पदद्वयम् ॥ हीरकं भागपादेन तस्य मध्ये निवेशयेत् । विस्ताराद् द्विगुणं चोर्ध्वमानं भागार्धसंयुतम् ॥ ऊर्ध्वमानस्य मध्ये स्यात् षट्पदानिबर्हणादयः(?) । वेदीबन्धश्च तन्मध्ये कर्तव्यः सार्धभागिकः ॥ ततो हीरकसंयुक्ता जङ्घा पदचतुष्टयौ । मेखलान्तरपत्रं च कार्यं भागार्धसंमितम् ॥ भागद्वयेन कर्तव्यं वेदिका राजसेरका । चन्द्रावलोकं भागेन विदधीत विचक्षणः ॥ कुर्यात् पदस्य पादेन तत्रैवासनपट्टकम् । पदद्वयेन सांशेन स्तम्भमूर्ध्वं निवेशयेत् ॥ अर्धभागेन कुर्वीत भरणं स्तम्भशीर्षके । अर्धभागेन पट्टं च छाद्यं सार्धपदायतम् ॥ (द्वे सन्त पठिका ?) कार्या ततो भागार्धसंमिता । ऊर्ध्वमन्तरपत्रस्य (कथमोध ?) यथाक्रमम् ॥ कुर्याद् ग्रीवाण्डकलशं र्चन्द्रिकाभिः समं बुधः । उच्छ्रायं कर्णशृङ्गाणां सार्धभागं प्रमाणतः ॥ स्तम्भसूत्रेण कर्तव्यं नष्टशृङ्गं विचक्षणैः । कूटानि पञ्च कुर्वीत यथावत् प्रथमक्षितौ ॥ १ द. ॰णैः । २ द. ठा । ३ द. परुक्खं । ४ द. ॰बंध्याश्च । ५ द. ॰यां । ६ द. कं । ७ द. द्विसंत पट्टिका का॰ । ८ द. सच । ९ द. कौ ।