समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 477, कुल 726 में से
संदर्भ में पढ़ें४१४ समराङ्गणसूत्रधारे अन्योऽपि कश्चिद् यः कुर्याद् (वेर्णाच्छतं ?) भक्तिमानिमम् । सोऽपि सौख्यमवाप्नोति पश्चादन्ते परं पदम् ॥ पृथिवीजयः ॥ अतः परं प्रवक्ष्यामि प्रासादं क्षितिभूषणम् । अमरैर्वन्दितं सर्वैस्तथा चाप्सरसां गणैः ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । भद्रे पञ्च पदानि स्युः कोणे कार्यं पदत्रयम् ॥ गर्भं षोडशभिर्भागैस्तस्य कुर्याद् विचक्षणः । कर्तव्या पदविंशत्याँ कन्दभित्तिः समन्ततः ॥ प्रासादस्यास्य कर्तव्या रमणी तु पदद्वयम् । पट्टि(दि)का बाह्यभित्तिः स्याद् द्विपदो भद्रनिर्गमः ॥ जलान्तरं तु भागस्तु ++++ गवाक्षकाः । भद्राणां मध्यतः पञ्च(स?) प्रकाशाः स(सु)मनोरमाः ॥ बाह्यालिन्दं प्रकुर्वीत वेदीजालविभूषितम् । तस्योपरिष्टात् कुर्वीत माल्युच्छ्रायं सुशोभनम् ॥ ऊर्ध्वमानमथ ब्रूमः प्रासादे क्षितिभूषणे' । क्षुरकं तस्य कुर्वीत त्रिपदं पीठसंयुतम् ॥ अस्योच्छ्रायतस्तः सार्धं°(पदाः स्यात् ?) पञ्चविंशतिः । एतन्मध्ये तु दशभिः पदैः कार्यस्तुलोदयः ॥ रेखा पञ्चदशांशा स्यात् स्कन्धशीर्षं पदार्धकम् । वेदीबन्धस्तु कर्तव्यः सार्धभागद्वयं बुधैः ॥ जङ्घा षड्भागिकोच्छ्राया भागार्धे(षेचराः ?) शुभाः । मेखलान्तरपत्रं च पदेनैकेन कारयेत् ॥ कार्या चतुष्किका पञ्चविस्तारा त्रिपदोच्छ्रिता । तदूर्ध्वतः क्रमः कार्यों द्विपदोऽन्योऽधिकं पदम् ॥ १ द. दथः । २ मुद्रित पुस्तके 'वर्णानाम्' इति स्यात् । ३ द. तः । ४ द. मां । ५ द. च प्रवक्ष्यामः । ६ द. त्यां । ७ द. तु भागार्द्धं द्विभागस्तु ग° । ८. द. तां । ९ द. णे । १० द. द्वे । ११ द. र्द्वि°।