भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 478, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 478

मेर्वादिद्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९ भूमयः पञ्च कर्तव्या १न्यूना(+च ?) यथोत्तरम् । प्रथमा भूमिका (का)र्या सार्ध२ (द्विभागास्तु गवाक्ष ?) भागत्रयं बुधैः ॥ सपादास्तु त्रयो भागा द्वितीयाया ( स ) मुदाहृता३ । ४तृतीया त्रिपदा ++++++++ परा ॥ ५++++++++ पञ्चमी भूमिरिष्यते । पादहीनपदं ग्रीवा सपादपदमण्डकम् ॥ चन्द्रिका भागमेकं स्यात् पद्मपत्रनिभा शुभा । त्रिपदं कलशं ६विद्यान्मातुलिङ्गसमन्वितम् ॥ द्राविडं नागरं वापि वाराटं वास्तु शोभनम् । ( यदेकं तेवते कर्तु ? ) तद्रूपं तं प्रकल्पयेत् ॥ नानाप्रकारैः स्तम्भैश्च नानाभूषणभूषितैः । कलशैः पद्मपत्रैश्च हीरकैश्चोपशोभितम् ॥ कृत्रिमग्रासयुक्ताभिश्चन्द्रशालाभिरन्वितम् । मकरग्राससंयुक्तैस्तोरणैर्लक्षणान्वितैः७ ॥ (कोणोत्कण्ठै ?)र्विचित्रैश्च रूपैश्चित्रैश्च शोभितम् । कर्म रम्यं प्रकुर्वीत यथावद् वित्तैविस्तृतम् ॥ गुणवान् नृपतिर्यद्वद् भूषयत्यखिलां महीम् । क्षितिं विभूषयत्येवं प्रासादः क्षितिभूषणः ॥ द्रव्येषु रेणुसंख्या या सुधायामपि यावती । तावद्युगसहस्राणि कर्ता शिवपदे वसेत् ॥ क्षितिभूषणः ॥ संस्थानं सर्वतोभद्रस्याधुना परिकीर्त्यते । चतुरश्रीकृतं क्षेत्रं१० विभजेद् दशभिः पदैः ॥ १ मुद्रित पुस्तके ‘न्यूनास्ताश्च’ इति स्यात् । २ द. सार्ध द्विभागास्तु । ३ द. ताः । ४-५ मुद्रित पुस्तके ‘तृतीया त्रिपदा कार्या पादोनत्रिपदा परां ।’ इति पाठ्यं स्यात् । ‘अर्धहानित्रिभागा तु पञ्चमी भूमिरिष्यते’ इति पाठ्यं स्यात् । द. पुस्तकेऽपि ‘तृतीया त्रिपदा परा’, ‘पंचमी भूमिरिष्यते’ इत्येव पाठः । ६ द. विं । ७ द. ताः । ८ द. कोणे कूटैर्विचित्रैश्च । ९ द. त । १० द. याः । ११ द. त्रे ।