समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 479, कुल 726 में से
संदर्भ में पढ़ें४१६ समराङ्गणसूत्रधारे तत्र गर्भो भवेत् तावान् यावत् स्याद् ब्रह्मणः पदम् । १++++++++भित्तिश्चेति पदं पदम् ॥ भागषट्केन भद्रं स्यात् सार्धभागैविनिर्गतम् । ३कैर्णं द्विभागिकं कुर्यात् ४+लमाग्रसमन्वितम् ॥ पदपादस्य पादेन विस्तारो जलवर्त्मनः । यत्रैकमेव भद्रं स्याच्चारुस्तम्भैरलङ्कृतम् ॥ स(सं)मोददं स्यात् तद् वस्तु धनधान्यसुखावहम् । चतुर्भिर्विस्तृतं भागैः सार्धभागविनिर्गतम् ॥ भद्रस्यैवाग्रतो भद्रं तच्छौ(च्च) बाह्योदरं विदुः । विस्ताराद् द्विगुणश्चास्य समुच्छ्रायः प्रकीर्तितः ॥ कुम्भकं भागिकं कुर्याद् भागार्धेन मसूरकम् । भागपादेन कुर्वीत ततश्चान्तरपत्रकम् ॥ मेखलायाः समुच्छ्रायमर्धभागेन कारयेत् । चतुर्भागोन्नता जङ्घा प्रासकिङ्किणिकान्विता५ ॥ पदं पादविहीनं स्यात् (कृप्तं६ ?)स्थानेषु हीरकम् । मेखलान्तरपत्रं च पदार्धेन समुद्यं(च्छ्रि)तम् ॥ त्रिभागविनतं कुर्याद् भागे चन्द्रावलोकनम् । ऊर्ध्वमासनपट्टस्य स्तम्भं कुर्यात् पदद्वयम् ॥ हीरग्रहणशीर्षं च पदेनैकेन कारयेत् । भागेनैकेन कुर्वीत पट्टपिण्डं१० विचक्षणः ॥ द्विपदं छाद्यविस्तारं तदर्धेन(तुलस्वनमः ?) । जठरं बाह्यसीमा च भित्तयश्चान्धकारिका ॥ जङ्घोत्सेधश्च कर्णश्च+++यथा ११भवेत् । कोणेषु रथिकाः कार्याः कलशान्ताः पदत्रयम् ॥ १ द. भित्तिम्र्मंतिकां बाह्यभिं । २ द. ॰गेननिर्गतं । ३ द. प्रतौ इतः पूर्वं ‘समोददं स्यात्तद्वस्तु धनधान्यसुखावहम्’ । अयं अधिकः पाठः । ४ द. ॰जलमार्गासं । ५ द. तु । ६ द. कां । ७ द. र्तां । ८ द. ष्ठं । ९ द. दृतं । १० द. ण्ड विं । ११ द. मेरो तथा ।