समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 480, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१७ द्वितीया द्विपदोच्छ्रा¹यां रथिकां² परिकीर्त्तिताँ³ । उच्छ्रायः सिंहकर्णस्य प्रथमस्य पदत्रयम् ॥ पदद्वयं द्वितीयस्य न⁴न एव समुन्नतिः । शृङ्गाणां स्यान्मिथः क्षेपो भागं ( प⁶+?)यथोत्तरम् ॥ भागान् सप्तोच्छ्रितं कुर्याच्छिखरं विस्तृतं +⁷षट् । अर्धभागोच्छ्रिता ग्रीवा स्यादेकं भागमण्डकम् ॥ चन्द्रिकाऽर्धपदेन स्यात् सार्धं तु कलशः पदम् । मञ्जरीः⁸ पद्मपत्राग्रे तुल्याः सर्वत्र कारयेत् ॥ अधस्ताद् भद्रपीठं तु वास्तुवां⁹(पा)देन शोभनम् । यः कुर्यात् सर्वतोभद्रं सर्वलक्षणसंयुतम् ॥ जयश्रीर्जायते तस्य १०++++++++। सर्वतोभद्रः ॥ ब्रूमो (¹¹विमानं दस्या सादस्याथ ?) लक्षणम् ॥ ग¹²र्गेगन्धर्वजुष्टस्य वल्लभस्य दिवस्पतेः । चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते ॥ विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् । भद्रैश्चतुर्भिस्तं कुर्यात् कर्णप्राग्ग्रीवकै¹³स्तैथा ॥ विस्ताराधं भवेद् गर्भो यच्छेषं तेन भित्तयः । (¹⁴त्रिंशद्वा) मतो ज्येष्ठो मध्यमः ¹⁵ पञ्चविंशतिः ॥ कनीयांस्तु विधातव्यः ¹⁶ षोडशाप्येकविंशतिः । जातिशुद्धो भवेदेको मञ्जरीभिस्तथापरः ॥ मिश्रकस्य¹⁷ विमानस्य त्रैविध्यमिति कीर्तितम् । (ज्येष्ठो मिश्रको निर्मार्गेः ¹⁸ सर्वः कैलास द्रवान् ?) ॥ १ द. याः । २ द. काः । ३ द. ताः । ४ द. घ । ५ द. रा । ६ द. भाग । ७ द. च (तु) । ८ द. री । ९ द. देवेन । १० द. सर्वकामफलैर्युताः । ११ द. विमानं छंऽस्य प्रासादस्याथल° । मुद्रितपुस्तकानुसारेण 'विमानसंज्ञस्य प्रासादस्याथ' इति पाठ्यं स्यात् । १२ द. र्ण । १३ द. ॅस्तया । १४ द. विंशस्तांम°; मुद्रित पुस्तके 'त्रिंशत्पदो' इति स्यात् । १५ द. मा । १६ द. व्याः । १७ द. श्व । १८ द. °णः स च कैलासद्रवान् ॥ वा. ५३