भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१७ द्वितीया द्विपदोच्छ्रा¹यां रथिकां² परिकीर्त्तिताँ³ । उच्छ्रायः सिंहकर्णस्य प्रथमस्य पदत्रयम् ॥ पदद्वयं द्वितीयस्य न⁴न एव समुन्नतिः । शृङ्गाणां स्यान्मिथः क्षेपो भागं ( प⁶+?)यथोत्तरम् ॥ भागान् सप्तोच्छ्रितं कुर्याच्छिखरं विस्तृतं +⁷षट् । अर्धभागोच्छ्रिता ग्रीवा स्यादेकं भागमण्डकम् ॥ चन्द्रिकाऽर्धपदेन स्यात् सार्धं तु कलशः पदम् । मञ्जरीः⁸ पद्मपत्राग्रे तुल्याः सर्वत्र कारयेत् ॥ अधस्ताद् भद्रपीठं तु वास्तुवां⁹(पा)देन शोभनम् । यः कुर्यात् सर्वतोभद्रं सर्वलक्षणसंयुतम् ॥ जयश्रीर्जायते तस्य १०++++++++। सर्वतोभद्रः ॥ ब्रूमो (¹¹विमानं दस्या सादस्याथ ?) लक्षणम् ॥ ग¹²र्गेगन्धर्वजुष्टस्य वल्लभस्य दिवस्पतेः । चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते ॥ विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् । भद्रैश्चतुर्भिस्तं कुर्यात् कर्णप्राग्ग्रीवकै¹³स्तैथा ॥ विस्ताराधं भवेद् गर्भो यच्छेषं तेन भित्तयः । (¹⁴त्रिंशद्वा) मतो ज्येष्ठो मध्यमः ¹⁵ पञ्चविंशतिः ॥ कनीयांस्तु विधातव्यः ¹⁶ षोडशाप्येकविंशतिः । जातिशुद्धो भवेदेको मञ्जरीभिस्तथापरः ॥ मिश्रकस्य¹⁷ विमानस्य त्रैविध्यमिति कीर्तितम् । (ज्येष्ठो मिश्रको निर्मार्गेः ¹⁸ सर्वः कैलास द्रवान् ?) ॥ १ द. याः । २ द. काः । ३ द. ताः । ४ द. घ । ५ द. रा । ६ द. भाग । ७ द. च (तु) । ८ द. री । ९ द. देवेन । १० द. सर्वकामफलैर्युताः । ११ द. विमानं छंऽस्य प्रासादस्याथल° । मुद्रितपुस्तकानुसारेण 'विमानसंज्ञस्य प्रासादस्याथ' इति पाठ्यं स्यात् । १२ द. र्ण । १३ द. ॅस्तया । १४ द. विंशस्तांम°; मुद्रित पुस्तके 'त्रिंशत्पदो' इति स्यात् । १५ द. मा । १६ द. व्याः । १७ द. श्व । १८ द. °णः स च कैलासद्रवान् ॥ वा. ५३

मध्यमो जातिशुद्धस्तु मञ्जरीभिर्विवर्जितः । कनीयांश्च विधातव्यो मञ्जरीभिरलङ्कृतः ॥ कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसम्मितः । भागार्धं क्षोभणा कार्या यच्छेषं तच्च कर्णवत् ॥ भागस्यार्धेन कुर्वीत तस्माद् भद्रस्य निर्गमम् । मिश्रकस्य चतुर्भागः प्राग्ग्रीवो विस्तरेण तु ॥ मूलसूत्रानुसारेण पार्श्वयोः पदिकौ रथौ । ऊर्ध्वमानं विमानस्य यथावदथ कथ्यते ॥ द्विपदं पीठमाख्यातं किन्नरैरुपशोभितम् । स्कन्धं यावच्च भागानां द्वाविंशतिरुदाहृता ॥ (वेदीबन्धो तु +++ सार्धभागद्व + १भवेत् ? ) । (चतुर्भागो२ऽत्र + छाद्या भागार्धेन + किन्नरा ? ) ॥ मेखलान्तरपत्रं च पदमेकं समुन्नतम् । रूपाणि जङ्घागात्रे स्युर्वा (चारिणां रथके३ ? ) ॥ ५(सैनरसेका ?)तस्य मध्ये स्यान्मकरग्रासभूषिता । मल्लिकानोरणैश्चारुघण्टाचमरकिन्नरैः ॥ ऊर्ध्वं तुलाप्रमाणस्य चतुर्भोमं तु प्रथमं६ (?) । ++++ भूमिकायां चतुर्भागसमुन्नता ॥ (७सोर्धभागा त्वपरा विस्तारा ?) सार्धभागिकी । संक्षेपः प्रथमोऽस्याः कलशान्ते पदं भवेत् (?) ॥ तृतीया त्रिपदा कार्या सपादपदविस्तृता । ८पदार्धेन तु संक्षेपस्तस्याः कार्यों विचक्षणैः ॥ चतुर्थी त्रिपदा कार्या भूमिर्मेखलया सह । ललिता९ मञ्जरीमिश्च नीलोत्पलदलाकृतिः ॥


१ द. द्वं । २ द. गोट्टताद्या भागार्डेन किंनरेः । ३ द. पुस्तके नास्ति । ४ द. इतः पूर्वं रथके सूरसेनं स्यादुच्छ्रयेण चतुष्पदम् । पंचभागं प्रविस्तारं ग्रासैर्वा राहुतुंडेः ॥ इति अधिकः पाठः । ५ द. रथिका तस्य । ६ द. मा । ७ द. सा । ८ द. पा । ९ द. ललितो मंजरीमिश्च ।

मेर्वादि१स्त्रिंशिका नाम सप्तपञ्चाशोऽध्यायः । ४१९ सीम्नः पञ्चगुणं सूत्रं रेखान्तं तत्र वर्तयेत् । (व्यासहर्वसममान्ना२ ? ) प्रवेशः प्रथमो भुवः ॥ ततोऽर्धवृद्धिर्वृद्धौ३ द्वावन्यस्तुर्यस्तु तत्समः । पदार्थं४ वेदिकोत्सेध(धाटू) विस्तारात् पञ्चभागिकी ॥ ग्रीवा पादोनभागं स्यात् सपा५दं भागमण्डकम् । कङ्कतीफलरूपं च मन्दारकुसुमाकृति ॥ चन्द्रिका ग्रीवया तुल्या कलशो द्विपदोन्नतः । विमानं छन्दकं कुर्यात् सर्वलक्षणसंयुतम् ॥ अश्वमेधप्रधानैर्यदिष्टैः (क्र) तुशतैर्भवेत् । तदेकेन विमानेन फलमाप्नोति मानवः ॥ विमानम् ॥ नन्दनस्याथ वक्ष्यामः प्रासादस्येह लक्षणम् । द्वाविंशतिकरं क्षेत्रमष्टधा प्रविभाजयेत् ॥ चतुर्भागप्रविस्तारं तस्य भद्रं प्रकल्पयेत् । भागेनैकेन निष्क्रान्तं७ प्राग्ग्रीवं चास्य शोभनम् ॥ मूलकर्णस्य पदिकौ कर्तव्यौ पार्श्वगौ रथौ । षडङ्गुलं त्र्यङ्गुलं वा८ चतुरङ्गुलमेव९ चं१० ॥ जलान्तरं प्रकुर्वीत दीयते तत्र मञ्जरी । गर्भश्चतुर्भिर्भागैः स्याच्छेषं भित्त्यन्धकारिका ॥ द्विपदं कन्दभद्रं स्यात् पदपादेन निर्गतम् । पुरतो मण्डपं चास्य सुग्रीवं नाम कारयेत् ॥ द्वैगुण्यं मूर्धविस्तारार्धे भै११ +++वेदिका । रेखामस्य तथा कुर्यात् कैलासस्य यथोदिता ॥ भूमयः षड् विधातव्या द्वादशाण्डाः पृथक् पृथक् । नन्दयत्येष कर्तारमिह लोके परे च यत् ॥ १ द. स्र । २ द. न्नाः । ३ द. द्वा द्वावन्यो तुर्यंस्तु । ४ द. थं । ५ द. सपादभागमंजकं । ६ द. णे । ७ द. न्त । ८ द. द्यं । ९ द. षि । १० द. वा । ११ द. द्विरतारद्वैनवेदिका ।

४२० समराङ्गणसूत्रधारे नन्दनो नाम तेनोक्तः प्राज्ञैः प्रासादसत्तमः । नन्दनः ॥ अ(था)भिदध्मः प्रासादं स्वस्तिकं स्वस्तिदायकम् ॥ देवासुरगणैर्वन्द्यं¹ यक्षसिद्धमहोरगैः । ज्येष्ठमध्यकनिष्ठस्य तलच्छन्दोऽस्य यद्देशः² (यादृशः) ॥ यादृगूर्ध्वप्रमाणं च तत् सम्यगिह³ कथ्यते । चतुरश्रे समे क्षेत्रे पञ्चविंशतिहस्तके ॥ सूत्रपातं प्रकुर्वीत कर्णतिर्यङ्मुखायतम् । ततः सीमार्थसूत्रेण वृत्तमालिख्य निश्चितम् ॥ द्वात्रिंशता समन्ता(त्त)रेखामिर्विभजेत् ततः । वृत्तं (तैथोमुघाताक्षि⁴र्दिर्विदे ?)स्थाभिरङ्कयेत् ॥ दिक्कर्णसूत्रयोर्मध्यं (र्ततो सेव ?)⁶त्रयं बुधः । कुर्याद् द्वात्रिंशदेवं⁵ स्युर्भागास्तुल्यप्रमाणकाः⁷ ॥ ऐन्द्र्यादिष्वीशपर्यन्तास्वष्टौ शालाः प्रकल्पयेत् । शालान्तरेषु कुर्वीत कोणानष्टौ⁸ यथाक्रमम् ॥ कोणात् कोणं नयेत् सूत्रं त्यक्त्वा शालाद्वयं मुहुः । विदिक्ष्वष्टसु सूत्राग्रं⁹ पद्मपत्रवदानयेत् ॥ कोणाश्च रथिकांश्चैव¹⁰ भवन्त्येवं सुलक्षणाः । चतुरश्रा भवन्त्यष्टौ शाला भागद्वयायताः¹¹ ॥ द्व्यंशानि कर्णभद्राणि पद्मपत्रनिभानि च । ऊर्ध्वमानं भवत्यस्य द्विगुणं (ह्यूर्ध्वमा+नैात्¹² ?) ॥ विंशत्या विभजेदूर्ध्वं तत्राष्टै¹³ष्टांशस्तुलोदयः । शेषां तु मञ्जरीं कुर्यादास्कन्धावेधि¹⁴ बुद्धिमान् ॥ १ द. ॰गणो वद्यं यं॰ । २ द. र्वि । ३ द. म । ४ मुद्रित पुस्तके ‘दिग्विदिक्रम्थाभिः’ इति स्यात् । ५ द. प्रतौ तु दे । ६ द. ततो सेवात्रयं । ७ द. कः । ८ द. ष्टो । ९ द. य । १० द. थ । ११ द. तः । १२ द. नत । १३ द. पुस्तके नास्ति । १४ द. ॰विधि॰ ।

मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२१ विस्तारेपञ्चमांशेन पीठोच्छ्रायं प्रकल्पयेत् । ^१त्रिपदं वेदिकाबन्धं (सुैकेण ? )समन्वितम् ॥ जङ्घांशालं(ब)नां कुर्याच्चतुर्भागसमुच्छ्रिताम् । मेखलान्तरपत्रं च भागेनैकेन कारयेत् ॥ द्वादशांशोच्छ्रिता रेखा कार्या सप्त च भूमयः । अर्धभागोच्छ्रिता ग्रीवा विस्तारेण चतुष्पदा ॥ स्कन्धः षड्भागविस्तारः कार्यो वृत्त: सुशोभनः । समालिखेदेषु कोशं विस्तारात् त्रिगुणात्मना ॥ सूत्रेण येन वा स्कन्धो भवेत् षड्भागविस्तृतः । हस्तैः स्यात् पञ्चविंशत्या ज्येष्ठः षोडशभिः परः ॥ कनीयान् स्वस्तिको ज्ञेयः करैर्द्वादशभिः पुनः । भागषट्कसमुच्छाया जङ्घा ज्येष्ठस्य कीर्तिता ॥ मध्यमाधमयोः पञ्चचतुर्भागोच्छ्रिता क्रमात् । स्वस्तिके कारिते खस्ति सर्वलोकस्य जायते ॥ विशेषतश्च भूपानां कर्तुश्च स्यात् समीहितम् । स्वस्तिकम् ॥ मुक्तकोणमथ ब्रूमः प्रासादं स्यात् स च त्रिधा ॥ हस्तैः क्रमेण ज्येष्ठादिः षोडशद्वादशाष्टभिः । ज्येष्ठो(ऽष्टा)दश भागान् स्यानमध्यमस्तु चतुर्दश ॥ कनीयान् दश भागा(न्) य(स्या)त् सदस्तस्याभिधीयते । चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ॥ कोष्ठकानां विधातव्यं चतुर्विशं शतत्रयम् । भागषट्त्रिंशता कुर्यान्मध्ये गर्भगृहं शुभम् ॥ बाह्य भित्तिस्तथान्धारी मध्यभित्तिरिति त्रयम् । पृथक् पृथक् स्याद् द्विपदविस्तारं परिमाणतः ॥ १ द. रं । २ द. द्वि° । ३ द. स्तु । ४ द. तं । ५ द. 'द्वेषु । ६ द. ताः । ७ द. कः । ८ द. सकनीयांश्च भागां यं छंदस्त° । ९ द. रैः ।

चतुर्भागायता शाला भागेनैकेन निर्गता । शालाया भूषणं भद्रं विधायैतत् पदद्वयम् ॥ तत्पार्श्वद्वितये कुर्यात् त्वधिके भागिके बुधः । वार्यन्तराणि कुर्वीत दिक्ष्वष्टचतसृष्वपि ॥ वार्यन्तरानन्तरं तु भागद्वितयसंमितान् । अष्टौ कुर्वीत रथिकांश्चतुर्दिशमनुत्तमान् ॥ कोणे द्विभागिकैः कुर्याद् रथानामांससंमिनाँ (?) । कोणे रथान् परित्यज्य शेषं कुर्याद् यथोदितम् ॥ मध्यमोऽयं समाख्यातः कनीयान् कथ्यतेऽधुना । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ चतुर्भागा भवेच्छाला भागेनैकेन निर्गता । एकभागप्रमाणानि पार्श्वे वार्यन्तराणि च ॥ तेषां मध्ये प्रकुर्वीत सरोजदलसंनिभम् । रथकर्णोन्य (र्णे य) थावच्च सलिलान्तरभूषणम् ॥ भागार्ध क्षोभणा कार्या चतुष्कोणे व्यवस्थित । सार्धभागोन्मितान् कुर्यात् कर्णप्राग्ग्रीवकांन् शुभान् ॥ वार्यन्तराणां (+प्रोक्ता भूषश्रोभि ?) कनीयसि । प्रासादे मध्यमेऽप्येषा ज्यायस्यपि च कल्प्यवै (ते) ॥ त्रिविधोऽयं समाख्यातो मुक्तकोणः समासतः । ऊर्ध्वमानं भवेदस्य विस्ताराद् द्विगुणोच्छ्रयम् ॥ (असिस्तु ?) पञ्चदशाभिस्तन्मध्यं स्यात् तुलोदयः । चतुष्पदो वेदिबन्धो जङ्घा सार्धैश्च सप्तभिः ॥ मेखलान्तरपत्रं (चार्ध सार्ध ?) हीरकं पदम् । त्रिपदों कर्णशृङ्गस्य कलशान्तैसमुच्छ्रयान् (?) ॥ १ द. विधीयेत प° । २ द. वी (?) । ३ द. दिक्षाष्टा । ४ द. वी । ५ द. का । ६ द. ताः । ७ द. वी । ८ द. भां । ९ द. °णव्यवस्थितः । १० द. °विका शुभान् । ११ मु. पुस्तके 'या प्रोक्ता :भूषणश्रीः' इति स्यात् । द. पुस्तके °णां या प्रोक्ता भूश्रोभिः । १२ द. द । १३ द. च द्वे सार्धं हीं । १४ द. दाः । १५ द. न्ता ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२३ सिंहकर्णश्च कर्तव्यः स्व+¹ भागे समुन्नतः । ऊर्ध्वतः कर्णशृङ्गे²(स्य) विधेया मूलमञ्जरी ॥ (³सावषो विस्तरो++)पदान्यष्टादशोच्छ्रिनाः (?) । चतुर्दिशं समायामः स्कन्धः स्यान्नवभागिकैः⁴ ॥ मञ्जर्यार्द्धांशपुरेमनः(?) शुकनाससमुच्छ्रितिः । ग्रीवा+मेन भागेन कुर्याद् द्विपदमण्डकम् ॥ चण्डिकां सार्धभागेन त्रिपदं कलशोच्छ्रयम् । ⁶+++ यन्नरः कश्चिन्मुक्तकोणं महायशाः ॥ (सं)प्राप्नो ते मं⁷हासौख्यं विमुक्तः सर्वपातकैः । सर्वद्वन्द्वविनिर्मुक्तः सर्वकिल्बिषवर्जितैः ॥ सर्वपापविनिर्मुक्तो भोगं मोक्षं च विन्दति । मुक्तकोणः ॥ श्रीवत्समथ वक्ष्यामः प्रासादं सुरपूजितम् ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । षड्भिर्भागैर्भवेद् ग र्भो भित्तिः कार्या द्विभागिकी ॥ रथकं त्रिपदं कुर्यात् प्रत्यङ्गात् सार्धभागिकात् । द्विपदं कर्णमस्याहुर्विदिक्षु चतसृष्व.⁵पे ॥ भागार्धं क्षोभणा क्षेपात् तदर्थार्धं जलान्तरम् । प्रक्षेपः स्यात् पदार्धेन पदमानस्य बाह्यतः ॥ ९द्वे पदे निर्गतं चास्य शुकनासं नि(वे )शयेत् । वास्तुविस्तारपादेन कर्तव्या द्वारविस्तृतिः ॥ द्वारोच्छ्राय(स्तुं)विस्तारात् कर्तव्यो द्विगुणो बुधैः । ऊर्ध्वमानमथ ब्रूमः श्रीवत्सस्य यथोदितम् ॥ १ द. स्व । २ द. ङ्गैं । ३ द. सा च थो पदान्यष्टा द । ४ दं. षिकः । ५ द. न्द्रि । ६ द. प्रतौ नास्ति परन्तु मुद्रितपुस्तके 'निर्माण्यन् नरः' इति स्यात् । ७ द. महत् । ८ द. सद्वन्द्व । ९ द. ताः । १० द. स्य ।

४२४ समराङ्गणसूत्रधारे पीठं प्रासादपादेन खुरकश्च पदार्धकैः । विस्ताराद् द्विगुणं१ ( चार्ध ?) कर्तव्यं कुम्भकादितः ॥ अंशैर्द्वादशभिस्तेषु कुर्याच्छिखरमायनम् । अष्टभागं तुलोच्छ्रायं वेदी सार्धद्विभागिकी ॥ कुम्भकं पदिकं कुर्यात् पादोनांशं३ मसूरकम् । ( पादोनं पादेन स्यात् ? ) मेखलान्तरपत्रकम् ॥ चतुर्भागोच्छ्रिता जङ्घा भागार्ध हीरकं भवेत् । मेखलान्तरपत्रं तु भागेनैकेन कारयेत् ॥ षड्भागविस्तृतं स्कन्धं भाजयेद् दशभिः पदैः । यथा मूले तथा स्कन्धेऽप्यङ्गप्रत्यङ्गकल्पना ॥ स्कन्धपार्श्वे तु या रेखा व्यक्ताश्च स्कन्धबाह्यतः । भजेत् ता दशभिर्भागै( रूढ ? )मेवं विभा/जयेत् ॥ ( ऊर्ध्वाधः प्रतिभागस्तन्त्रास्यात् ? ) पत्रसंहतिः । तदाकृतिं बाह्यरेखां गात्रे गात्रे प्रकल्पयेत् ॥ अनुमात्रगुणं सूत्रं त्रिभागेन समन्वितम् । भ्रमयेत् ( कोणरेखा स्यात् प्रत्यङ्गेऽस्नत्रपञ्चकान् ? ) ॥ षड्गुणेन तु सूत्रेण रथरेखां समालिखेत् । अत्र स्युर्भूमयः सप्त प्रथमांशद्वयोच्छ्रिता ॥ द्वितीया पदपादार्धहीना भूमितस्ततो भवेत् । पादद्वयं भागहीनं तृतीयायां भवेद् भुवि ॥ सार्धभागविहीनं च चतुर्थी स्यात् पदद्वयम् । पञ्चमा सार्धभागेन पदं स्यात् स्कन्धशीर्षकम् ॥ एवं परस्परं भागं पादार्धेन( जिता ? ) भुवः । त्रिभागीकृत्य शिखरं तत्रैकं भागमुत्सृजेत् ॥ १ द. द्वि। २ द. 'णं चोद्ध्र्वं कं०। ३ द. 'स' इति अधिकः पाठः। ४ द. स्थ। ५ द. ॰मन्त्रि०। ६ द. सूत्रं।

मेर्त्रादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२५ शुकनासोच्छ्रितिः शेषं सिंहेनाधिष्ठिता भवेत् । पादोनभागा ग्रीवाण्डं सपादं पदमुच्छ्रितम् ॥ रेखा १++ विधा( त )व्यं ++ न्यूनाधिकमण्डकम् । सपादभागमानेन कर्तव्यं चन्द्रिकाद्वयम् ॥ पद्मपत्राकृतिं कुर्यान्मध्ये चामलसारि(काम् ) । द्विपदं कलशं कुर्याद् बीजपूरकवर्जितम् ॥ श्रीवत्सं कारयेद् यस्तु प्रासादमतिसुन्दरम् । कुलानां शतमुद्धृत्य स व्रजत्यमरावतीम् ॥ श्रीवत्सः ॥ अथ हंसस्य वक्ष्यामः प्रासादस्येह लक्षणम् । चतुरश्रीकृते क्षेत्रे चतुर्भिर्विभजेत् पदैः ॥ भागैश्चतुर्भिर्गर्भः स्याद् २भित्तिर्द्वादशभागिकी । भागद्वयेन भद्राणि ततश्च परिकल्पयेत् ॥ चतुर्भागेन निष्क्रामस्तेषां गर्भस्य शस्यते । भागस्य षोडशांशेन कुर्याद् नीरै३(रा)न्तराणि च ॥ ४पीठिका वेदिकाबन्धो जङ्घा मेखलया सह । ऊर्ध्वमानं च कर्तव्यं स्वस्तिकस्य यथोदितम् ॥ मध्ये किन्नररूपाणि पद्मपत्राणि चाप्यधः । उपरि व्यालहारांश्च पीठमेवं विभूषयेत् ॥ त्रिभौमं पञ्चभौमं वा कुर्यादेनं विचक्षणः । नागरं द्रावि(डे५ ?)श्चेति कर्णे कर्णे निवेशयेत् ॥ भूमिकाभाञ्जि कूटानि कुर्यादेकान्तराणि च । रथिके रथिका (?) कुर्याद् ( विन्य ? ) नागरकर्मणा ॥ विस्ताराधेन वेदी स्याद् ग्रीवा७ चास्य पदार्धिका । अण्डकं पदिकं कार्यं कङ्कतीफलसन्निभम् ॥ १ द. विवे। २ द. र्भृं । ३ द. रत। ४ द. पीठकं वेँ। ५ द. इतः परं 'वराटं द्राविडं चापि नागरं वा विशेषतः । जङ्घामध्ये विश्रान्तव्यं कर्मलोकेक्षणोत्सवम् ॥ इत्यधिकः पाठः । ६ द. डश्चेति । ७ द. ग्रवो । वा. ५४

४२६ समराङ्गणसूत्रधारे ¹+ चण्डिका(चोर्धेन ?)कलशः स्यात् पदोच्छ्रितः । यथा विराजते हंसो(हंसोमाशिरसि ? )स्थितः ॥ प्रासादोऽपि तथा हंसः पुरमध्ये विराजते । हंसारूयमेनं प्रासादं कारयेद् यो(नँरोत्तमा ? ) ॥ तावत् स्वर्गे वसेच्छ्रीमान् यावदिन्द्राश्चतुर्दश । हंसः ॥ रुचकाख्यँमथ ब्रूमः प्रासादं पुरभूषणम् ॥ आदौ समस्तवस्तूनां कल्पितं पद्मजन्मना । चतुरश्रीकृते क्षेत्रे⁶ चतुर्भिर्भाजिते पदैः ॥ भागमेकं भवेद् भित्तिस्तस्य गर्भः पदद्वयम् । ⁷वेदीबन्धं तथा जङ्घां मेखलामूर्ध्वमेखलाम् ॥ मानमूर्ध्वमधश्चास्य श्रीवत्सस्येर्व कारयेत् । कोणेषु स्तम्भकाः कार्या(हाँइ हीइसार्ष ? )समन्विता ॥ मध्ये तु रथिका कार्या चारुकर्मविभूषिता । चतुर्भौममिदं कार्य(स्तैवैवसट ? )कर्मणा ॥ युक्तं मध्ये तु रथिका प्रतिभूमि विधीयते । रुचकैः¹² कारितो येन प्रासादः शुभँ¹³वास्तुनि ॥ कुलानां तारितं¹⁴ तेन शतमात्मा तथोद्धृतः । रुचकः ॥ • वर्धमानमथ ब्रूमो धर्मारोग्ययशस्करम् ॥ तस्याष्टगुणमैश्वर्यँ¹⁵ भवेद् यः कारयेद् यदि । चतुरश्रं समं क्षेत्रं भाजयेद् दशभिः पदैः ॥ १ द. चन्द्रिका चार्धेनक°। २ मुद्रित पुस्तके 'च पदार्थेन' इति स्यात् । ३ द. ह्वामेन प्रा° । ४ द. °तरोत्तमः । मुद्रित पाठस्तु 'नरोत्तमः' इति स्यात् । ५ द. ख्या° । ६ द. प्रतौ 'क्षेत्रे' पाठः नास्ति । ७ द. वेदबंधे । ८ द. °स्यै । ९ द. °हीरसर्पे स°; मुद्रित प्रतौ 'हीरशीर्ष' इति स्यात् । १० द. °रु । ११ द. स्तस्यैवं सटकर्मणा । १२ द. रुचका कारितौ । १३ द. द्ध । १४ द. तां । १५ द. मैल्यर्थ ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२७ ततो भागचतुष्केण कर्तव्यो मध्यमो रथः । एकैकेन विभागेन द्वौ रथौ वामदक्षिणौ ॥ (१कर्णांस्तु पदा कार्या वर्जं चारिधर्माभिः ? ) । भद्रस्य निर्गमं तत्र भागेनैकेन कारयेत् ॥ भागस्यार्धेन पार्श्वस्थरथकानां विनिर्गतम्२ । विस्तारार्धेन गर्भः स्याद्३ यच्छेषं तेन भित्तयः ॥ ऊर्ध्वमानं भवेदस्य स्वस्तिकस्य यथोदितम् । ४वर्धमानोऽयमाख्यातो यशोलक्ष्मीविवर्धनः ॥ वर्धमानः ॥ गरुडस्याधुना ब्रूमः प्रासादस्येह लक्षणम् । प्रासादः सर्वदैवायं गरुडध्वजवल्लभः ॥ द्वाविंशतिपदं क्षेत्रं ( ५भैक्त्वाल्या समायतम् ? ) । पूर्वापरेण दशभिर्भागैर्भूयो विभाजितम् ॥ कुर्वीत मध्ये प्रासादं तस्मिञ् शतपदं बुधः । द्विपदं भित्तिविस्तारं कर्णांश्चापि द्विभागिकान् ॥ उत्सृष्टमूलप्रासादमुभयोरपि पक्षयोः । अग्रतः पृष्ठतश्चापि द्वौ द्वौ भागौ परित्यजेत् ॥ शेषेण षट्पदौ ++ सहसायामविस्तृतौ (?) । गर्भः षोडशभिर्भागैर्भित्तिः स्यात् पदमेतयोः ॥ श्रीवत्सउंस६रुचकवर्धमानेषु कोऽपि यः । रोचते गरुडं कुर्यात् तमेकं स्वेच्छया बुधः ॥ तस्य पक्षौ विधातव्यौ निर्गतौ वामदक्षिणम् । एवमेते त्रयो गर्भा गरुडे७ परिकीर्तिताः ॥ गरुडः ॥ १ द. कर्णास्तु द्विपदाः कार्या वर्जिता चारिध० । २ द. मम् । ३ द. प्रतौ ' द् ' नास्ति । ४ द. उर्द्ध । ५ द. पक्षाभ्या समायातं । ६ द. सं । ७ द. डं ।

४२८ समराङ्गणसूत्रधारे प्रासादस्य गजस्याथ लक्षणं सम्प्रचक्ष्महे । चतुःषष्टिपदं क्षेत्रं विधाय विभजेद् गजम् ॥ ततः सीमार्थसूत्रेण पृष्ठतो वृत्तमालिखेत् । गर्भं कुर्यात् तदर्धेन ++ रेखाकृतिं त ²+ ॥ ऊर्ध्वप्रमाणमधुना गजस्य स्पष्टमुच्यते । स्तम्भाश्चतुष्पदोच्छ्रायाः कार्याः कोणचतुष्टये ॥ जङ्घेयमस्य निर्दिष्टा (खल्लैस्तम्भान्तरं ?) भवेत् । पट्टिकान्तरपत्राभ्यां समैर्भागेन मेखला ॥ अग्रतः शूरसेनं स्यात् पृष्ठतस्तु गजाकृतिः । गजः ॥ ⁶प्रासादस्या( धुना ) लक्ष्म सिंहसंज्ञस्य कथ्यते ॥ चतुरश्रं समं क्षेत्रं विभजेन्नन्दने यथा । गर्भो ⁸भागैश्चतुर्भिः स्यात् कञ्च( न्द )भित्तिस्तु भागिकी ॥ भागेनान्धारिका कार्या बाह्यभित्तिश्च भागिकी । भद्रं भागैश्चतुर्भिः स्याद् भागेनैकेन निर्गतम् ॥ कर्णस्तु द्विपदः कार्यों जलमार्गसमन्वितः । द्विपदं पीठमुत्सेधात् सिंहै९रूपैरधिष्ठितं¹⁰म् ॥ ¹¹खुरकं च पदार्धेन कुर्यात् पीठस्य मध्यै¹²तः । ¹³कुर्यादूर्ध्वं + विस्ताराद् द्विगुणं कलयाधिकम् ॥ द्विपदं वेदिकाबन्धं जङ्घा चास्य चतुष्पदम् । मेखलान्तरपत्रं च विदध्याद् भागिकोदयम् ॥ त्र्यंशानि¹⁴ कर्णशृङ्गाणि ग्रीवाण्डकलशैः सह । सिंहकर्णस्तु कर्तव्यः समुच्छ्रायाच्चतुष्पदः ॥ सिंहरूपसमाक्रान्ते¹५ प्रासादे सिंहसंज्ञिते¹⁶ । ऊर्ध्वतः कर्णशृङ्गस्य षट्पदा मूलमञ्जरी ॥


१ द. संप्रवक्षसे । २ द. ततः । ३ द. लँ । ४ द. ०म्व । ५ द. मं । ६ द. प्र । ७ द. प्रतौ नास्ति । ८ द. र्भा । ९ द. हे । १० द. ०तैः । ११ द. सुं० । १२ द. मव्ययः । १३ द. कुर्यादूर्ध्वं वि । १४ द. न्वि । १५ द. न्तः । १६ द. के ।

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२९ सप्तभागसमुत्सेधा लताभिः पञ्चभिर्युता । ग्रीवोच्छ्रायस्तु कर्तव्यः पदं पादेन वर्जितम् ॥ अण्डकं तु पदोत्सेधं रेखायां च द्विनिस्सृतम् । पादोनभागमुच्छ्रायश्चन्द्रिकायाः प्रकीर्तितः^२ ॥ द्विपदं कलशं कुर्याद् बीजपूरकसंयुतम् । (^३यद्दामं ?) कारयेत् स स्यादजेयः पुरुषो ध्रुवम् ॥ व्यवहारे नृपकुले सङ्ग्रामे शक्रसंसदि । सिंहः ॥ इदानीं पद्मकं ब्रूमः प्रासादं पद्मसंनिभम्^४ ॥ यः (^५कंसान् ?) कारयत्येनं स कामाँल्लभतेऽखिलान् । चतुरश्रीकृते क्षेत्रे ++ दिक्षु विदिक्षु वा ॥ न्यस्येत् पृथक् पृथक् सूत्राण्यथ वृत्तं प्रसाधयेत् । (^७दिधिसूत्रयोर्मध्ये चतुरश्रं तु रोमकम् ॥ ^९तुल्यप्रामाण्यविन्यस्येत् स्यूर्द्वांत्रिंशदमीरीतः ? ) । विस्तृतान्यथ भागौ द्वौ कर्णपत्राणि षोडश ॥ पद्मपत्रसमानानि वारिमार्गान्वितानि च । गर्भः स्याद् बाह्य(^१०संमोहाँ ?)सीमार्थं यच्छेषं तेन भित्तयः ॥ षडष्टादशकरः पद्मो ज्येष्ठादिकः क्रमात् । द्वात्रिंशत् षोडशाष्टौ च तस्य स्यू रथकाः क्रमात् ॥ जलान्तराणि चैतस्य श्रीवत्सस्येव कारयेत् । पीठकं वेदिकाबन्धं जङ्घाशेखरचन्द्रिकाः ॥ अण्डकं कलशं ग्रीवामेतस्योच्छ्रै^१२यमानतः । कुर्वीत स्वस्तिकस्येव खविस्तारानुसारतः ॥ पद्मः ॥

१ द. म । २ द. ताः । ३ मुद्रित पुस्तके 'य इमम्' इति वा 'यः सिंहम्' इति वा स्यात् । ४ द. प । ५ द. भां । ६ मुद्रित पुस्तके 'पुमान्' इति स्यात् । ७ द. दिग्वि । ८ द. चतुरोमृत्तुरोंसकं । ९ द. तुल्यप्रमाणान्विन्यस्ये˚ । १० द. ह्य । ११ द. स्यैव । १२ द. च्छा ।

४३० समराङ्गणसूत्रधारे अथाभिधीयते सम्यक् प्रासादो नन्दिवर्धनः । नन्दयत्येष कर्तारं पुत्रदारधनादिभिः ॥ चतुरश्रीकृते क्षेत्रे भजेत् षोडशभिः पदैः । शतद्वयं विभागाः स्युः षट्पञ्चाशत् तथा(परैः ? ) ॥ गर्भः शतपदः कार्यों भित्तिश्च त्रिपदायता । कर्णप्रमाणं त्रिपदं नवबन्धसमन्वितम् ॥ भागायतं भागपदं(पाद)विस्तीर्णं वारिवर्त्म च । विभजेत् पञ्चधा कर्णं तस्य भद्रं त्रिभिः पदैः२ ॥ भागं भागं भवेत् कर्णे३ भागार्धं भद्रनिर्गमः । प्रत्यङ्गं द्विपदं कुर्याद् वारिमार्गेण संयुतम् ॥ निर्गमाँ(मः) सार्धभागेन पार्श्वयोरुभयोरपि । शालाषट्पदविस्तारा प्रत्यङ्गा भौगनिर्गतम् ॥ भद्रं तदग्रतः कुर्याद् विस्तारेण चतुष्पदम् । भागार्धनिर्गमं६ सम्यग् (दिक्षु) सर्वास्वयं विधिः८ ॥ कर्णस्यार्धे नयेद् गर्भाद् वृत्तं तत् पूर्वमालिखेत् । अनुसारेण वितरेदङ्गप्रत्यङ्गनिर्गमम् ॥ सार्धभागं गजाधारं साब्जपत्रं समेखलम् । कुर्यात् पदं पादहीनं जङ्घाकुम्भसमुच्छ्रितम् ॥ भागपादेन कणकं पादोनान्तरपत्रकम् । तैन११धं ग्रासहारं च भागार्धं खुरकं तथा ॥ खुरकेण समं प्रोक्ता पीठस्यैषा समुच्छ्रितिः । विस्ताराद् द्विगुणश्चायं (स्यादूर्ध्वकल्पयाधकः ?) तुलोदयो विधातव्यस्त्रयोदशभिरंशकैः । विंशत्यंशं तु शिखरं ++++ श्रतुष्पदम् ॥ १ द. तयापरे । २ द. पदं । ३ द. र्णो । ४ द. मा । ५ द. द्धा । ६ द. मम् । ७ द. ंतं । ८ द. धेः । ९ द. ˚न यद्गं । १० द. ˚समुद्धृतिं । ११ द. य ।

मेर्वादिर्विशिका नाम सप्तपञ्चाशोऽध्यायः । ४३१ पादोनभागद्वितयं कुम्भकं तेषु कारयेत् । भागेनैकेन कलशमर्धेनान्तरपत्रकम् ॥ पादहीनपदं कार्या मेखलास्य सुशोभना । जङ्घा षड्भागिकोच्छ्राया भागार्धं ग्रासपट्टिका ॥ हीरकं चैकभागेन कर्णस्थं परिकीर्तितम् । मेखलान्तरपत्रं च सार्धभागसमुन्नतम् ॥ जङ्घामध्ये तु कर्तव्या रथका रथकास्तथा (?) । वृत्तस्तम्भैः समकरैरग्रैर्मुक्तारत्नैः (सैर्मुक्तावरालकैः) ॥ जङ्घा तु संवृता कार्या मल्लुच्छाद्यैर्विभूषिता । जलान्तरेषु रूपाणि कुर्यात् सङ्घाटकैः शुभैः ॥ कुर्यात् तुलोदयस्योर्ध्वमिमं(?)भूमिभिरष्टभिः । स्कन्धाष्टांशोऽस्य दूराद्या +++ सपद्त्रयम् ॥ द्वितीया त्रिपदा प्रोक्ता तृतीया पादवर्जिता । सार्धद्व्यंशा चतुर्थी च पादोना पञ्चमी ततः ॥ षष्ठी तु द्विपदा कार्या पादोना सप्तमी ततः । अष्टमी तु कृ(क्षि)तिः कार्या सार्धभागेन संमिता ॥ एकैकस्याः पदार्धेन प्रक्षेपः स्यात् परस्परम् । कोणे कूटानि कुर्वीत प्रत्यङ्गे तिका(ल)कानि च ॥ भद्रे कुर्वीत रथिका विविधाः कर्मसङ्कुलाः । रथस्य पार्श्वयोर्लेखाः कर्तव्याश्चोभयोरपि ॥ वेदिकाश्य विधातव्या भागमेकं समुन्नता । ग्रीवा तावँदू भागमेकमण्डकं द्विपदोदयम् ॥ कुर्यात् सामलसारिं च चन्द्रिकां सार्धभागिकाम् । कलशस्त्रिपदः कार्यो बीजपूरं बहिस्ततः ॥ पुरतः शूरसेनं स्यान्मध्ये रूपसमाकुलम् । मिश्रकस्य विमानस्य सदृशं कारयेदमुम् ॥ १ द. व । २ द. र्भ्या । ३ द. म । ४ द. स्कंधो दृष्टं । सो स्यदूराद्यासपदं स्यात् पदत्रयं । ५ द. श । ६ द. तां । ७ द. भवेद् । ८ द. न्द । ९ द. री ।

४३२ समराङ्गणसूत्रधारे भूषणं भवनस्यास्य प्रासादं नन्दिवर्धनम् । प्रासादविंशतिरियं परिकीर्तितेह मेर्वादिका सकलनाकसदामभीष्टा । तत्त्वेन वेत्ति य इमां स समग्रशिल्पि- वर्गाग्रणीर्बहुमतश्च भवेन्नृपाणाम् ॥ इति महाराजाधिराजपरमेश्वरश्रीमद्भोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे मेर्वादिविंशिका नाम³ षट्(सप्त)पञ्चाशोऽध्यायः ॥ अथ प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः । प्रासादानां चतुःषष्टिरिदानीमभिधीयते । या पूर्वं ब्रह्मणा दत्ता प्रा(प्र)सादा ⁴विश्वकर्मणे ॥ १ ॥ मर्मवेधस्थिता वास्तुदेवाः पूज्याँ यथोचितम् । पूज्यता च स्मृता तेषां प्रासादे मण्डपे ध्वजे ॥ २ ॥ आसने वाहने तद्वत् सर्वोपकरणेष्वपि । प्रासादे यादृश(ईच्छन्दस्तादृक्षान्दपीठयोः ? ) ॥ ३ ॥ तथा वास्तुविरुद्धं स्यात् प्रासादाङ्गे हिते(?)विदुः । अष्टावष्टौ स्मृतास्तेषु त्रिदशानां पृथक् पृथक् ॥ ४ ॥ शम्भो(हरे)र्विरिञ्चस्य ग्रहाणाम(धिपस्य च) । चण्डिकाया गणेशस्य श्रियाः सर्वदिवौकसाम् ॥ ५ ॥ विमानः सर्वतोभद्रो गजपृष्ठोऽथ पद्मकः । वृषभो मुक्तकोणश्च नलिनो¹¹ द्राविडस्तथा ॥ ६ ॥ इत्येतेऽष्टौ¹² समुद्दिष्टाः प्रासादास्त्रिपुरद्रुहः । गरुडो वर्धमानश्च शङ्खावर्तोऽथ पुष्पकः ॥ ७ ॥ १ द. न्द । २ द. शतिका । ३ द. नामष्टपंचमोध्यायः समाप्तः । ४ द. ब्रा । ५ द. द्वि । ६ द. ज्य । ७ द. मे । ८ द. च्छंदस्तादृक्षमंदपीठयोः । ९ द. शंभोर्विरिवेस्यग्रहाणामध्ये यस्य च । १० द. चेन्द्रिकाया । ११ द. नी । १२ द. ज्यौ । १३ द. स्त्रिखुरर्दहः ।

प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः । ४३३ गृहहर(राट्) स्वस्तिकश्चैव रुचकः पुण्ड्रवर्धनः । कार्या¹ जनार्दनस्याष्टौ प्रासादाः पुरभूषणाः ॥ ८ ॥ मेरुमन्दरकैलासा हंसाख्यो भद्र एव च । उत्तुङ्गो मिश्रकश्चैव तथा मालाधरोऽष्टमः ॥ ९ ॥ इत्यष्टौ ब्रह्मणः प्रोक्ताः प्रासादाः पुरमध्यगाः । गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः ॥ १० ॥ श्रीवत्सः पद्मनाभश्च वैराजो वृत्त एव च । एते कार्या रवेरष्टौ प्रासादाः शुभलक्षणाः ॥ ११ ॥ (नन्द्यावर्तश्चैव चलभश्रर्णदित्यः² ?) सिंह एव च । विचित्रो योगपीठश्च घण्टानादपताकिनौ³ ॥ १२ ॥ अष्टावेते विधातव्याश्चण्डिकायाः⁴ सुरालयाः । (गुहारसलोकश्च⁵ ?) वेणुभद्रोऽथ कुञ्जरः ॥ १३ ॥ तथा च हर्षविजयावुदकुम्भोऽथ मोदकः । एतान् विनायकस्याष्टौ प्रासादान् कारयेच्छुभान् ॥ १४ ॥ महापद्म(हर्म्यननल)मुज्जयन्तस्तथा परः । गन्धमादनसंज्ञं च(ज्ञश्व) शतशृङ्गानवष्ककौ (नवद्यकौ) ॥ १५ ॥ सु(म)विश्रान्तो (मनो°) हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः । वृत्तो वृत्तायतश्चैवः किङ्किणीलयनाभिधः ॥ १६ ॥ पट्टिशो⁹ विभवाख्यश्च ततश्चा(स्ता)रागणा(णोऽ)ष्टमः । कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् ॥ १७ ॥ ‘प्रासादस्तवनं नाम ?


१ द. यों। २ द. °श्चैव लक्ष्मी स्वर्णादित्यः सिंह एव च । मुद्रित पुस्तके 'नन्द्यावर्त्तो वलभ्यश्च सुपर्ण' इति पठनीयं भाति । ३ द. घंटापादपताकिनैः । ४ द. °न्द्रि° । ५ द. गुहरसलाक़श्व वे°; मुद्रित पुस्तकानुसारेण 'गुहाधरश्च शालाक' इति पाठ्यं भाति । ६ द. महापद्मो हर्म्यंतलमु° । मुद्रित पुस्तका- नुसारेण 'स्तथा हर्म्य' इति पाठ्यं स्यात् । ७ द. थमनो । ८ द. ष्याः । ९ द. को । १० मुद्रित पुस्तके इहाध्यायस्य समाप्तिरिति भाति । अतः "इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गण- सूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादस्तवनं नामाष्टपञ्चाशोऽध्यायः ॥" इति लेखनीयम् । द. प्रतौ 'प्रासादस्तवनं नाम' इत्येव पाठः । वा. ५५

४३४ समराङ्गणसूत्रधारे विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । विमानमथ वक्ष्यामः प्रासादं शम्भुवल्लभम् । स्वर्गपातालमर्त्यानां त्रयाणामपि भूषणम् ॥ १ ॥ सर्वेषां गृहवास्तूनां प्रासादानां च सर्वतः । प्रासादो मूलभूतोऽयं तथा च परिकर्मणाम् ॥ २ ॥ एकाशीतिपदे (दं) वास्तु विमाने पञ्चभूमिके । कर्णान्तयोः शतपदं प्रासादेष्वपरेषु तु ॥ ३ ॥ ब्रह्मासृजत् पञ्चभौमविमानानि पुरा रवेः २। मूलकर्णानुगैर्भङ्गैर्द्विगुणोच्छ्रायवन्ति च ॥ ४ ॥ शेषभद्रस्य निष्कासो ३ भद्रदेवचतुष्टयम् ( ? ) । आकाशदेवताधार ( ँ च्यथा ? ) विदिक्षु च ॥ ५ ॥ दशधा कृतविस्तारो विमाने सम्प्रकीर्तितः । पञ्चभाग्य( ग )प्रमाणश्च गर्भे ५ भित्तिस्तदर्धतः ॥ ६ ॥ प्राग्रीवं भित्तिविस्तारं गर्भायामत्तथायतः ( ? ) । ततः प्राग्रीवविस्तारः क्षोभणीयः कराङ्गुलैः ॥ ७ ॥ भागिको रथविस्तारः कर्णिका चार्धभागिकी । भागपञ्चकविस्तारं ६ भद्रं यत् ( तत् ) प्रकीर्तितम् ॥ ८ ॥ ( ७भूर्णस्तनोवहेस्तस्य ? ) निर्गमो भागिकः ८स्मृतः । भागार्धेन विधातव्यः क्षोभणो जलवर्त्मनः ॥ ९ ॥ कर्णिकां जलमार्गं ( च ) समसूत्रेण मापयेत् । अथोच्यते भूमिकानां स्तम्भानां चेह लक्षणम् ॥ १० ॥ विस्ताराद् द्विगुणः स्कन्धः सर्वस्मिन् १०बुद्धनागरे । ++++ पञ्चभागा स्याज्जङ्घाऽध्र्वसमुच्छ्रितिः ॥ ११ ॥ १ द. जे । २ द. रथेः । ३ द. शे । ४ द. धारं चरक्रान्था वि० । ५ द. गर्भोभित्तिस्तदर्द्धितः । ६ द. र । ७ द. तूर्णीसीम्नो वहिस्तस्य नि० । ८ द. सृतः । ९ द. आरा । १० द. °च्छुद्ध° ।

विमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४३५ १तिलकानां तथोच्छ्रायो विधानव्यो द्विभागिकः । तिलकस्य शिरोघण्टां चैकसूत्रेण मापयेत् ॥ १२॥ जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत् । खुरकं वेदिबन्धं च समसूत्रेण मापयेत् ॥ १३॥ ३जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत् । खुरकं वेदिबन्धं च समसूत्रेण सूत्रयेत् ॥ १४॥ द्वितीयभूमिकोत्सेधं सिंहकर्ण विभूषयेत् । मस्तके घण्टया युक्ता चतुर्भागोच्छ्रिता च सा ॥ १५॥ ततस्तृतीयभूत्सेधः पदतुल्यांशवर्जितः । चतुर्थी भूमिका कार्या सार्धभागत्रयोच्छ्रिता ॥ १६॥ मञ्जरीस्तम्भयोर्मध्ये सवातायनमेखला । द्वितीया भूमिका या सा सिंहकर्णैरलङ्कृता ॥ १७॥ तस्या द्वारं विधातव्यं कपाटद्वयसंयुतम् । (स्याद्वर्द्वात् ?) पाटितं द्वारं तृतीयायां सदा भुवि ॥ १८॥ पादे(दो) नद्विपदोत्सेधा तदूर्ध्वं वेदिमेखला । कैरवाणां दलैर्युक्ता कर्तव्या दृष्टिहारिभिः ॥ १९॥ वेदिका पञ्चविस्तारा कार्या भागसमुच्छ्रिता । ग्रीवार्धभागिकोत्सेधा घण्टैकं११ भागमुच्छ्रिता१२ ॥ २०॥ पञ्चभाग + विस्तारा घण्टाकोटिर्विधीयते । (कुमान्दं ?)वेदिबन्धं च घण्टाग्रं मस्तकोदयम् ॥ २१॥ मापयेत् समसूत्रेण समन्ताद् भूमिपञ्चके । व्यार्रार्धहस्तसङ्ख्यानि(प्रवेशो ?) प्रथमं क्षितेः ॥ २२॥ अङ्गुलानि तदा ह्यर्थौ द्वितीयायाः प्रकीर्त्तिताः (?)। संयोगादनयोर्यः१६ स्यात् तृतीयायास्तमादिशेत् ॥ २३॥ १ द. वि. । २ द. सूत्र । ३ द. अयं श्लोकः नास्ति । ४ द. सिंहं कर्णे विं० । ५ द. ताः । ६ द. ताः । ७ द. संपुटं । ८ द. स्यादर्द्धोद्घाटितं । ९ द. द्वि । १० द. चो । ११ द. के । १२ द. प्रतौ इतः परं "ग्रीवार्ध भागिकोत्सेधां घण्टैकं भाग मुच्छ्रिता ॥” अयं अधिकः पाठः । १३ द. कुमदं । १४ द. शः । १५ द. तः । १६ द. र्यन् ।

४३६ समराङ्गणसूत्रधारे तदध्यक्षश्चतुर्थ्यास्तु पञ्चम्याः शेष ईरितः । स्वमूलविस्तृतेर्भागस्तृतीयो वेदिकोर्ध्वतः ॥ २४ ॥ लतया विस्तृतिर्भद्रे युक्ताया जालवर्त्मनः (?)। (वेदिदोग्रंविधातव्यो२?) सार्धसविस्तृतौ ॥ २५ ॥ मञ्जर्याः स्तम्भसीमानां क्षोभयेत् पुष्टिमानतः (?)। (वेद्यां भागे?) शालायां निष्कामो मूलकोणतः ॥ २६ ॥ स्थानैर्विचित्ररूपैः स्यात् सिंहकर्णैश्च भूषितः । पञ्चव्यासेन सूत्रेण रेखामस्य समालिखेत् ॥ २७॥ एतद् विमानं ललितं देवदेवस्य कारयेत् । विमानम् ॥ संस्थानं सर्वतोभद्रस्येदानीमभिधीयते ॥ २८ ॥ जठरं बाह्यसीमा च तथा भित्यन्धकारिका५ । जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा भवेत् ॥ २९ ॥ तथैव भद्रविस्तारः षड्भागेन समन्ततः । रथिके च द्विभागे स्तः कोणसंज्ञे च पार्श्वयोः ॥ ३० ॥ मुष्टिप्रमाणं( ण)विस्तारं कर्तव्यमुदकान्तरम् । विस्ताराद् द्विगुणः स्कन्धस्योच्छ्रायो भागविंशतिः (?) ॥ ३१ ॥ पञ्चभागसमुत्सेधा जङ्घा कार्या सदा बुधैः । मेखलान्तरपत्रं च सार्धभागसमुच्छ्रितम् ॥ ३२ ॥ शृङ्गं६ भागत्रयोत्सेधं सग्रीवामलसारकम् । मूलशृङ्गस्य गर्भेण न्यस्येदुपरी भूमिकाम् ॥ ३३ ॥ द्वितीयभूमिविस्तारं दशधा प्रविभाजयेत् । द्वौ भागौ शृङ्गविस्तारौ( रो ) विधेयः पार्श्वयोर्द्वयोः ॥ ३४ ॥ सग्रीवामलसारस्य तैः शृङ्गस्योदयस्थितिः । तस्य शृङ्गस्य गर्भेण कर्तव्योपरिभूमिका ॥ ३५ ॥ १ द. स । २ द. व्यौ । ३ मुद्रित पु. ‘मञ्जर्याः स्तम्भसीमानं क्षोभयेत्पुष्टिमानतः’ इति पाठः स्यात् । ४ द. स्तंभेवि° । ५ द. °की । ६ द. ज्ञ । ७ द. °स्वादयस्त्रिभिः ।