समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 490, कुल 726 में से
संदर्भ में पढ़ेंमेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः । ४२७ ततो भागचतुष्केण कर्तव्यो मध्यमो रथः । एकैकेन विभागेन द्वौ रथौ वामदक्षिणौ ॥ (१कर्णांस्तु पदा कार्या वर्जं चारिधर्माभिः ? ) । भद्रस्य निर्गमं तत्र भागेनैकेन कारयेत् ॥ भागस्यार्धेन पार्श्वस्थरथकानां विनिर्गतम्२ । विस्तारार्धेन गर्भः स्याद्३ यच्छेषं तेन भित्तयः ॥ ऊर्ध्वमानं भवेदस्य स्वस्तिकस्य यथोदितम् । ४वर्धमानोऽयमाख्यातो यशोलक्ष्मीविवर्धनः ॥ वर्धमानः ॥ गरुडस्याधुना ब्रूमः प्रासादस्येह लक्षणम् । प्रासादः सर्वदैवायं गरुडध्वजवल्लभः ॥ द्वाविंशतिपदं क्षेत्रं ( ५भैक्त्वाल्या समायतम् ? ) । पूर्वापरेण दशभिर्भागैर्भूयो विभाजितम् ॥ कुर्वीत मध्ये प्रासादं तस्मिञ् शतपदं बुधः । द्विपदं भित्तिविस्तारं कर्णांश्चापि द्विभागिकान् ॥ उत्सृष्टमूलप्रासादमुभयोरपि पक्षयोः । अग्रतः पृष्ठतश्चापि द्वौ द्वौ भागौ परित्यजेत् ॥ शेषेण षट्पदौ ++ सहसायामविस्तृतौ (?) । गर्भः षोडशभिर्भागैर्भित्तिः स्यात् पदमेतयोः ॥ श्रीवत्सउंस६रुचकवर्धमानेषु कोऽपि यः । रोचते गरुडं कुर्यात् तमेकं स्वेच्छया बुधः ॥ तस्य पक्षौ विधातव्यौ निर्गतौ वामदक्षिणम् । एवमेते त्रयो गर्भा गरुडे७ परिकीर्तिताः ॥ गरुडः ॥ १ द. कर्णास्तु द्विपदाः कार्या वर्जिता चारिध० । २ द. मम् । ३ द. प्रतौ ' द् ' नास्ति । ४ द. उर्द्ध । ५ द. पक्षाभ्या समायातं । ६ द. सं । ७ द. डं ।