समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 496, कुल 726 में से
संदर्भ में पढ़ेंप्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः । ४३३ गृहहर(राट्) स्वस्तिकश्चैव रुचकः पुण्ड्रवर्धनः । कार्या¹ जनार्दनस्याष्टौ प्रासादाः पुरभूषणाः ॥ ८ ॥ मेरुमन्दरकैलासा हंसाख्यो भद्र एव च । उत्तुङ्गो मिश्रकश्चैव तथा मालाधरोऽष्टमः ॥ ९ ॥ इत्यष्टौ ब्रह्मणः प्रोक्ताः प्रासादाः पुरमध्यगाः । गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः ॥ १० ॥ श्रीवत्सः पद्मनाभश्च वैराजो वृत्त एव च । एते कार्या रवेरष्टौ प्रासादाः शुभलक्षणाः ॥ ११ ॥ (नन्द्यावर्तश्चैव चलभश्रर्णदित्यः² ?) सिंह एव च । विचित्रो योगपीठश्च घण्टानादपताकिनौ³ ॥ १२ ॥ अष्टावेते विधातव्याश्चण्डिकायाः⁴ सुरालयाः । (गुहारसलोकश्च⁵ ?) वेणुभद्रोऽथ कुञ्जरः ॥ १३ ॥ तथा च हर्षविजयावुदकुम्भोऽथ मोदकः । एतान् विनायकस्याष्टौ प्रासादान् कारयेच्छुभान् ॥ १४ ॥ महापद्म(हर्म्यननल)मुज्जयन्तस्तथा परः । गन्धमादनसंज्ञं च(ज्ञश्व) शतशृङ्गानवष्ककौ (नवद्यकौ) ॥ १५ ॥ सु(म)विश्रान्तो (मनो°) हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः । वृत्तो वृत्तायतश्चैवः किङ्किणीलयनाभिधः ॥ १६ ॥ पट्टिशो⁹ विभवाख्यश्च ततश्चा(स्ता)रागणा(णोऽ)ष्टमः । कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् ॥ १७ ॥ ‘प्रासादस्तवनं नाम ?
१ द. यों। २ द. °श्चैव लक्ष्मी स्वर्णादित्यः सिंह एव च । मुद्रित पुस्तके 'नन्द्यावर्त्तो वलभ्यश्च सुपर्ण' इति पठनीयं भाति । ३ द. घंटापादपताकिनैः । ४ द. °न्द्रि° । ५ द. गुहरसलाक़श्व वे°; मुद्रित पुस्तकानुसारेण 'गुहाधरश्च शालाक' इति पाठ्यं भाति । ६ द. महापद्मो हर्म्यंतलमु° । मुद्रित पुस्तका- नुसारेण 'स्तथा हर्म्य' इति पाठ्यं स्यात् । ७ द. थमनो । ८ द. ष्याः । ९ द. को । १० मुद्रित पुस्तके इहाध्यायस्य समाप्तिरिति भाति । अतः "इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गण- सूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादस्तवनं नामाष्टपञ्चाशोऽध्यायः ॥" इति लेखनीयम् । द. प्रतौ 'प्रासादस्तवनं नाम' इत्येव पाठः । वा. ५५