समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 497, कुल 726 में से
संदर्भ में पढ़ें४३४ समराङ्गणसूत्रधारे विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । विमानमथ वक्ष्यामः प्रासादं शम्भुवल्लभम् । स्वर्गपातालमर्त्यानां त्रयाणामपि भूषणम् ॥ १ ॥ सर्वेषां गृहवास्तूनां प्रासादानां च सर्वतः । प्रासादो मूलभूतोऽयं तथा च परिकर्मणाम् ॥ २ ॥ एकाशीतिपदे (दं) वास्तु विमाने पञ्चभूमिके । कर्णान्तयोः शतपदं प्रासादेष्वपरेषु तु ॥ ३ ॥ ब्रह्मासृजत् पञ्चभौमविमानानि पुरा रवेः २। मूलकर्णानुगैर्भङ्गैर्द्विगुणोच्छ्रायवन्ति च ॥ ४ ॥ शेषभद्रस्य निष्कासो ३ भद्रदेवचतुष्टयम् ( ? ) । आकाशदेवताधार ( ँ च्यथा ? ) विदिक्षु च ॥ ५ ॥ दशधा कृतविस्तारो विमाने सम्प्रकीर्तितः । पञ्चभाग्य( ग )प्रमाणश्च गर्भे ५ भित्तिस्तदर्धतः ॥ ६ ॥ प्राग्रीवं भित्तिविस्तारं गर्भायामत्तथायतः ( ? ) । ततः प्राग्रीवविस्तारः क्षोभणीयः कराङ्गुलैः ॥ ७ ॥ भागिको रथविस्तारः कर्णिका चार्धभागिकी । भागपञ्चकविस्तारं ६ भद्रं यत् ( तत् ) प्रकीर्तितम् ॥ ८ ॥ ( ७भूर्णस्तनोवहेस्तस्य ? ) निर्गमो भागिकः ८स्मृतः । भागार्धेन विधातव्यः क्षोभणो जलवर्त्मनः ॥ ९ ॥ कर्णिकां जलमार्गं ( च ) समसूत्रेण मापयेत् । अथोच्यते भूमिकानां स्तम्भानां चेह लक्षणम् ॥ १० ॥ विस्ताराद् द्विगुणः स्कन्धः सर्वस्मिन् १०बुद्धनागरे । ++++ पञ्चभागा स्याज्जङ्घाऽध्र्वसमुच्छ्रितिः ॥ ११ ॥ १ द. जे । २ द. रथेः । ३ द. शे । ४ द. धारं चरक्रान्था वि० । ५ द. गर्भोभित्तिस्तदर्द्धितः । ६ द. र । ७ द. तूर्णीसीम्नो वहिस्तस्य नि० । ८ द. सृतः । ९ द. आरा । १० द. °च्छुद्ध° ।