समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 499, कुल 726 में से
संदर्भ में पढ़ें४३६ समराङ्गणसूत्रधारे तदध्यक्षश्चतुर्थ्यास्तु पञ्चम्याः शेष ईरितः । स्वमूलविस्तृतेर्भागस्तृतीयो वेदिकोर्ध्वतः ॥ २४ ॥ लतया विस्तृतिर्भद्रे युक्ताया जालवर्त्मनः (?)। (वेदिदोग्रंविधातव्यो२?) सार्धसविस्तृतौ ॥ २५ ॥ मञ्जर्याः स्तम्भसीमानां क्षोभयेत् पुष्टिमानतः (?)। (वेद्यां भागे?) शालायां निष्कामो मूलकोणतः ॥ २६ ॥ स्थानैर्विचित्ररूपैः स्यात् सिंहकर्णैश्च भूषितः । पञ्चव्यासेन सूत्रेण रेखामस्य समालिखेत् ॥ २७॥ एतद् विमानं ललितं देवदेवस्य कारयेत् । विमानम् ॥ संस्थानं सर्वतोभद्रस्येदानीमभिधीयते ॥ २८ ॥ जठरं बाह्यसीमा च तथा भित्यन्धकारिका५ । जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा भवेत् ॥ २९ ॥ तथैव भद्रविस्तारः षड्भागेन समन्ततः । रथिके च द्विभागे स्तः कोणसंज्ञे च पार्श्वयोः ॥ ३० ॥ मुष्टिप्रमाणं( ण)विस्तारं कर्तव्यमुदकान्तरम् । विस्ताराद् द्विगुणः स्कन्धस्योच्छ्रायो भागविंशतिः (?) ॥ ३१ ॥ पञ्चभागसमुत्सेधा जङ्घा कार्या सदा बुधैः । मेखलान्तरपत्रं च सार्धभागसमुच्छ्रितम् ॥ ३२ ॥ शृङ्गं६ भागत्रयोत्सेधं सग्रीवामलसारकम् । मूलशृङ्गस्य गर्भेण न्यस्येदुपरी भूमिकाम् ॥ ३३ ॥ द्वितीयभूमिविस्तारं दशधा प्रविभाजयेत् । द्वौ भागौ शृङ्गविस्तारौ( रो ) विधेयः पार्श्वयोर्द्वयोः ॥ ३४ ॥ सग्रीवामलसारस्य तैः शृङ्गस्योदयस्थितिः । तस्य शृङ्गस्य गर्भेण कर्तव्योपरिभूमिका ॥ ३५ ॥ १ द. स । २ द. व्यौ । ३ मुद्रित पु. ‘मञ्जर्याः स्तम्भसीमानं क्षोभयेत्पुष्टिमानतः’ इति पाठः स्यात् । ४ द. स्तंभेवि° । ५ द. °की । ६ द. ज्ञ । ७ द. °स्वादयस्त्रिभिः ।