समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 501, कुल 726 में से
संदर्भ में पढ़ें४३८ समराङ्गणसूत्रधारे विस्तारोऽ+थ जङ्घा च लतिनि स्वस्तिके यथा । उदकान्तर +++ श्रीवत्से² नन्दने यथा ॥ ४८ ॥ पद्मः ॥ ब्रूमोऽथ वृषभं स स्यात् पूर्वोक्तै रूपकर्मभिः । चतुर्भद्रश्चतुर्द्वारो विमानो³ ( सत्रिसाकृति ?५) ॥ ४९ ॥ ( तेवृद्धिरतत्प्रमाणाश्च ? ) सीमाशिखरकोदयैः । कर्णवेर्दकपोटाली⁷ जङ्घाग्रे मस्तकेन च( ? ) ॥ ५० ॥ सार्धद्विभागविस्तारौर( थ ) कैर्वामदक्षिणौ । कार्यौ भद्रं चतुर्भागं भागार्धं सलिलान्तरम् ॥ ५१ ॥ स्तम्भद्वयं भवेत् तस्य सर्वभूम्यन्तरेषु च । एकः स्तम्भो विमाने स्याद् द्वौ स्तम्भौ वृषभे पुनः ॥ ५२ ॥ एष भेदः समाख्यातो विमानस्य वृषंस्य च । वृषभः ॥ मुक्तकोणमथ ब्रूमस्तं भागैरष्टभिर्भजेत् ॥ ५३ ॥ मूलकर्णावुभौ भागौ भवतो वामदक्षिणौ । मध्यंशृङ्गं चतुर्भागं प्रमाणं जठरस्य च ॥ ५४ ॥ कर्णशृङ्गान्तयोर्मध्ये कुर्वीत सलिलान्तरम् । रथकौ पार्श्वयोः पूर्णौ भद्रदेशे जलान्तरम् ॥ ५५ ॥ विस्तारोत्सेथजङ्घाश्च सग्रीवामलसारकः । लतिनामिव कर्तव्याः प्रमाणेन समन्ततः ॥ ५६ ॥ मुक्तकोणः ॥ ब्रूमोऽथ नलिनीं११ तस्याः प्रमाणं लक्षणान्वितम् । तस्यां तु ( मार्गस्यश्च ? ) देवगर्भः सुरालयः ॥ ५७ ॥ भित्तिविस्तृतिरायामो मुक्तकोणे यथा तथा । मध्यदेशे तु यच्छृङ्गं ++ कर्णान्तरे च यत् ॥ ५८ ॥ १ द. ˚रोत्सेध˚ । २ द. त्स । ३ पद्मप्रासादलक्षणस्यारम्भो गजपृष्ठप्रासादलक्षणस्यावसानं च नोपलभ्यते । ४ द. ना । ५ द. तिः । ६ द. च्छे˚ । ७ द. ला । ८ ˚र्गमं˚ । ९ द. ˚षभस्य । १० द. ध्ये । ११ द. ˚नी तस्य ।