समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 579, कुल 726 में से
संदर्भ में पढ़ें५१८ समराङ्गणसूत्रधारे शिखरस्य त्रिभागोना शुकाग्रायाः समुच्छ्रितिः । यं¹ एनं कमलं नाम प्रासादं कारयेन्नृपः ॥ ८८ ॥ त्रैलोक्ये² कमलाधीशविजये( यी ) स भवेन्नृपः । कमलप्रासादः ॥ अथातः कथ्यते सम्यक् प्रासादः कमलोद्भवः ॥ ८९ ॥ सदा लक्ष्मीपतिर्यत्र देवो विश्राम्यति स्वयम् । चतुरश्रीकृते क्षेत्रे चतुर्दशभि( रंशितै³ ) ॥ ९० ॥ ⁴++++++स्तारो भद्रं पञ्चपदं भवेत् । वि( द्वि )भागायामविस्तारौ( राः ) कार्याः प्रतिरथास्तथा ॥ ९१ ॥ कोण⁵ ++++++++++++++। कार्या( र्यः ) पल्लविकायाश्च नि( र्गमो ) वृत्तमध्यतः ॥ ९२ ॥ शालाविभक्तिश्चैतस्य कर्त ६++++++। ⁷++++++++ न्तरेषु स्याज्जलान्तरम् ॥ ९३ ॥ द्व्यङ्गुलं ( त्र्यङ्गुलं ) वापि तद् विधेयं विपश्चिता । भागा ⁸+++++++++++ ल्पयेत् ॥ ९४ ॥ प्रासादस्यास्य⁹ +++ भाजयेद् दशभिः पदैः । गर्भश्च पूर्ववत् कार्यः¹⁰ पूर्ववद् भित्तयोऽपि च ॥ ९५ ॥ प्राग्वत् खुरवरण्डी स्याज्जङ्घाकूटाद्यभूमिका( ः ) । शिखरस्योच्छ्रितिः प्राग्वत् तां सार्धैकानु( न्न )विंशतिम् ॥ ९६ ॥ भागान् कुर्यात् ततः कार्या भूर्द्वितीयांशपञ्चकर्मै¹¹ । कार्यास्तिस्रो भुवः शेषाः पादपादपरिच्युताः¹² ॥ ९७ ॥ भागं वेदी भूप्रवेशः कार्यों रेखावशादितैः¹³। पूर्ववच्चार्थ( र्थ ) विस्तारः स्याद् घण्टाकलशादि वा ॥ ९८ ॥ १ द. य एवं तं क ं । २ द. क्य । ३ द. क । ४ द. द्विपदः कर्ण त्रि ं । ५ द. कोणसून्ना- परानृत्तेरष्टौ वृत्तस्य मध्यतः । ६ द. व्या पूर्ववच्छुभाः । ७ द. कोणशाला प्रतिरथा ं । मु. पु. ‘शालाकोण- प्रतिरथा ’ इति पूरणीयं भाति । ८ द. श्रतुर्दशैते ये पूर्वं क्षेत्रं प्रक ं । ९ द. ˚स्यास्य व्यर्थं ता भजेद् ं । १० द. र्या । ११ द. कात् । १२ द. ते । १३ द. ह ।