समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 583, कुल 726 में से
संदर्भ में पढ़ेंचतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते । कर्णा द्विभागविस्ताराः शाला स्यात् पञ्चभागिका ॥ १३२ ॥ वृत्तान्तः पल्लवी कार्या शेषाः शालासु¹ पूर्ववत् । त्रयस्त्रयः प्रतिरथा मध्ये स्युः² कर्णशालयोः ॥ १३३ ॥ परिवृत्यैं( त्या ) वृत्तमध्ये द्विभागायामविस्तृताः । शालाकर्णप्रतिरथप्रान्तेषु स्याद्बलान्तरे( रम् ) ॥ १३४ ॥ ⁵त्रिचतुर्विंशतिर्भागा विभाज्यौः शिल्पिभिः पुनः । विधेयं गर्भभित्त्यादि प्राग्वत् स्याच्च वरण्डिका ॥ १३५ ॥ जङ्घादिभूमिकोच्छ्रायः प्राग्वद्धू(द्वा ) शिखरोच्छ्रितिः । (तं) पञ्चत्रिंशता⁶ भागैर्विभजेच्छिखरोच्छ्रयम् ॥ १३६ ॥ द्वितीया भूमिका चास्य कार्या पञ्चपदोच्छ्रिता । पदपादविहीनाः स्युः शेषाः सप्तास्य भूमिकाः ॥ १३७ ॥ द्विभागो वेदिकोच्छ्रायो भूमिकानां प्रवेशनम् । रेखावशेन कर्तव्यं शेषमेतस्य यत् पुनः ॥ १३८ ॥ तत् पूर्ववद् विधातव्यं स्तम्भकूटादि तद्विदा । सर्वाङ्गसुन्दरं योऽत्र प्रासादं कारयेदमुम् ॥ १३९ ॥ स स्वर्गसुन्दरीभोगानाप्नोति विपुलान् दिवि⁷ । सर्वाङ्गसुन्दरः प्रासादः ॥ अथाष्टशालान् वक्ष्यामो + + + भूमिजातिषु ॥ १४० ॥ तेष्वाद्यः स्वस्तिकोऽन्यश्च वज्रस्वस्तिकसंज्ञितः । तृतीयो हर्म्यतलकश्चतुर्थ उदयाचलः ॥ १४१ ॥ गन्धमादनसंज्ञश्च पञ्चमः परिकीर्तितः । अथामिधीयते तेषु + + + ⁸स्वलक्षणः ॥ १४२ ॥ चतुरश्रीकृते क्षेत्रे विस्तारायामतः⁹ समे । कर्णार्धसूत्रपातेन वृत्तमस्य समं लिखेत् ॥ १४३ ॥
पादटिप्पण्यः (Footnotes):
१ द. स्तु । २ द. स्यात् कं° । ३ द. त्या । ४ द. ते । ५ द. ज्य । ६ द. त । ७ द. धिः । ८ द. मुद्रित पुस्तके ‘स्वस्तिकः शुभलक्षणः' इति स्यात्; द. स्वस्तिकास्य लक्षणः । ९ द. °तो समे ।