समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 584, कुल 726 में से
संदर्भ में पढ़ेंभूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । १२३ वर्तुलं भाजयेत् क्षेत्रं षड्गुणैरष्टभिः पदैः । अष्टौ शाला विधातव्या विस्तारेण चतुष्पदाः ॥ १४४॥ पल्लवी वृत्तसूत्रेण १++++++++। +++ कर्णिका ज्ञेया मानमूर्ध्वमथोच्यते ॥ १४५॥ वेदिबन्धो विधातव्यो भागद्वितयमुच्छ्रितः । तं भजेत् पञ्चभिर्भागैः +++ तत्र कुम्भकः ॥ १४६ ॥ पादयुक्तेन भागेन कर्तव्यस्तु मसूरकः । अर्धांशेनोत्त(नान्त)रं पत्रं कपोताली ततो भवेत् ॥ १४७॥ सपादेनास्य भागेन जङ्घां(ङ्गा) भागचतुष्टयात् । तलकुम्भोच्छालकाभ्यां संयुक्ता शुभलक्षणा ॥ १४८ ॥ भागद्वितै२यमाया भूः कर्तव्या सवरण्डिका । व्यासं दशपदं कृत्वा तैर्द्वादशभिरुच्छ्रितिः ॥ १४९ ॥ स्कन्धश्च षट्पदस्तत्र विधातव्यो विजानता । षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥ १५० ॥ द्वादशांशो य उत्सेधो भागानां सम +++। ५तं कृत्वा पञ्चभिर्भागैस्ते द्वि(स्तैर्द्वि)तीया भवेन्मही ॥ १५१ ॥ पदपादोच्छ्रिताः कार्यास्ततस्तिस्रोऽपरा भुवः । (गर्भा गर्भं ?) विधातव्यं भूमिकानां प्रवेशकम् ॥ १५२ ॥ वेदिका च ततः कार्या सार्धभागसमुच्छ्रिता । पादोनद्विपदा घण्टा विभजेत् तां त्रिभिः पदैः ॥ १५३ ॥ पदं८ स्यात् कण्ठकोत्सेधो ग्रीवा भागसमुच्छ्रिता । अण्डकं भागिकं तस्यां कर्तव्यं सुमनोरमम् ॥ १५४॥ कर्परं सार्धभागेन कुर्यात् सामलसारकम् । (१०सीस्तन चाभागायाः ?) सार्धभागचतुष्टयात् ॥ १५५ ॥ १ मुद्रित पुस्तके 'बाह्यतो भद्रकर्णिके' इत्ययं पूरणीयांशः प्रकरणान्तरादुपलभ्यते । २ द. त । ३ द. ती । ४ द. ते । ५ द. ष्टि । ६ द. द्व । ७ द. दैः । ८ द. स्याः । ९ द. रि । १० द. सीम्न- स्तुनवा ।