समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 615, कुल 726 में से
संदर्भ में पढ़ें५९४ समराङ्गणसूत्रधारे +++ ¹पुरतश्चैवं पार्श्वयोरुभयोरपि । भ्रमोऽस्तस्या विधातव्योः +++ पञ्चभिः पदैः ॥ ६६ ॥ कर्णकन्दाश्च कर्तव्या भ्रमसूत्राद् बहिः स्थिताः । द्विभागायामविस्ताराश्चतुःशालोपशोभिताः ॥ ६७ ॥ ⁴अमुनैव क्रमेण स्युर्भद्रकन्दाः पदाधिकाः । मूलप्रासादमालायां मालात्रितयधारिणाम्( ? ) ॥ ६८ ॥ कर्णे कर्णे तु याः शालास्ता द्वयंशायामविस्तृताः । द्विभागिकजलाधारा( स्तथा ) भागपरिश्रमाः ॥ ६९ ॥ पदप्र( वि )ष्टाम्बुपदा भ्रमपद्धतिसंयुताः । तुल्याश्चतुर्षु कर्णेषु तुल्या भद्रत्रयेऽपि च ॥ ७० ॥ भागद्वितयविस्तीर्णा भागत्रितयमायताः । ( सृग ? ) भ्रमाश्च कर्तव्या भ्रमशालादिशान्तयोः ॥ ७१ ॥ शेषं च पूर्ववत् कार्यं शुण्डिकागण्डमण्डनम् । स्यात् कर्णमञ्जरीत्येषा त्रिलोक्यानन्ददायिनी ॥ ७२ ॥ कर्णमञ्जरिकाभद्रे विभक्ते दशाभिः पदैः । द्विभागायामविस्तारं तुर्यां शालां निवेशयेत् ॥ ७३ ॥ उद ( र्क ) क्षणपूर्वाणि मुखान्यासां प्रकल्पयेत् । परिक्रमस्त्रि( स्तु ) सर्वासाम् भागैकः सर्वतो भवेत् ॥ ७४ ॥ द्वौ भागौ भद्रकर्णाभ्यां संक्षेपो( भ्योभयपार्श्वयो¹⁰? ) । भागिकोभयविस्तारा भद्रेऽन्या कर्णिका भवेत् ॥ ७५ ॥ पदैः षोडशभिर्युक्त( क्ता ) विचित्रभ्रमविभ्रमं( मा ) । ¹²भद्रास्या( च ) चतुष्की स्यात् पुरतः संवृतान्तरैः( रा ) ) ॥ ७६ ॥ श्रीमण्डपं प्रकुर्वीत प्रभूतस्तम्भमण्डितम् । ( दितामेतानेन परिक्षिप्तं छाद्यकाले हसंयुतै¹⁴? ) ॥ ७७ ॥ १ द. पुरतः पृष्टत । २ द. म । ३ द. व्यः । ४ द. अमुनैव......विस्तृताः इति यावत् पाठः नास्ति । ५ द. त्रि । ६ द. यनं । ७ द. चैर्द । ८ द. ग्द । ९ द. भ्यो । १० द. योः । ११ द. मुक्तं । १२ द. भद्राशा चतुष्क स्यात्पुरतः । १३ द. रं । १४ द. क्तं ।