समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 622, कुल 726 में से
संदर्भ में पढ़ेंजगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । ५६१ ( शेषा भ ? ) पूर्ववत् सर्वा शुण्डिकादिक्रिया भवेत् । ( यदागभी१ ? ) करवीरेयमीशादित्रिदशप्रिया ॥ १५८ ॥ एतस्या एव पृष्ठस्था२ यदा सन्त्यष( ष्ट ) कर्णिको३( काः )। वामशाले विधीयेते नलिनीति तदा भवेत् ॥ १५९ ॥ ( दत्तंशस्य सालि४ख्यात् तद्यौ दृशभिः पदैः ? ) । सूत्राणि पातयेत् तस्य ततो दिक्षु विदिक्षु च ॥ १६० ॥ प्रासादभ्रमणस्यान्ते द्विपदायामव( वि )स्तृती( न् ) । कुर्वीताष्टसु संम्पातेष्वष्टौ कन्दान् समन्ततः ॥ १६१ ॥ ( विधाय तां चतुर्भक्तां कुर्याद् भ्रमांस्तथा ? ) । अन्तरेण च कन्दानां कर्तव्यं कर्णिकाष्टकम् ॥ १६२ ॥ देशात् सार्धं यदा सूत्रे( ? ) यथा संपत्स्यते मिथः । पार्श्वद्वयात् कर्णिकानां संस्थानं स्यात् तथाविधम् ॥ १६३ ॥ भक्त्वैवं सर्वभद्रानि त्रिपदोऽन्तः सुरालयः । पार्श्वभ्रमो व्यर्धपादो( ? ) दशधा भाजिते भवेत् ॥ १६४ ॥ कन्दाश्च द्विपदाः कार्या बहिर्दिक्षु विदिक्षु च । अन्योन्याभिमुखास्तेषु शालाः कार्या यथोदिताः ॥ १६५ ॥ ( शंक्तियस्ता समीक्षते ? ) विष्णोरप्रतिमौजसः । कार्येयं तस्य ( तान्थेस्युः ? ) ( पुंडरीकविनामतः ? ) ॥ १६६ ॥ एतस्याः कर्णिकास्थाने यदा वृत्तं प्रकल्प्यते१३। तदानीमातपत्रं स्यात् कर्तव्या ब्रह्मणश्च सा ॥ १६७ ॥ कृत्वा वृत्तायतं क्षेत्रं विभजेद् दशभिः पदैः । तस्य मध्ये विधातव्यं देवागारं पदैस्त्रिभिः ॥ १६८ ॥ १ द. र्भा । २ द. स्थे । ३ द. के । ४ द. स्य स्यात् । ५ द. संतापे । ६ मुद्रित प्रतौ 'विधाय तांश्चतुर्भक्तान् कुर्याद् दिक्षु भ्रमांस्तथा' इति स्यात् । ७ द. तांश्चतुर्भक्ताः । ८ द. ग्रा° । ९ द. संपन्नसो मिथः । १० द. शक्तयस्ता समाख्यपेत् रष्टोर प्र° । ११ द. नान्येभ्य । १२ मुद्रित पुस्तके 'केति नामतः' इति स्यात् । १३ द. प्रकल्पयेत् । वा. ७१