भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 652, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 652

अथाऽण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः । ५९१ अर्धगोलकमायामादलसाण्डकमुच्यते । नवगोलकदैर्घ्यं तदंशाहासमुखं (?) भवेत् ॥ ७ ॥ पुंसां षडादात्तं(यतं) मानं विस्तारात् पञ्चगोलकम् । वनिताण्डकमालेख्यं नालिकेरफलोपमम् ॥ ८ ॥ चतुर्गोलकविस्तीर्णमायतं पञ्चगोलकान् । शिशूनामण्डकं तावत् कर्तव्यं चित्रकर्मणि ॥ ९ ॥ (हास्योभिः प्रस्रवेत् ?) तस्य गोलकार्धान् विशेषयेत् । आलस्याण्डकमप्येवं रोदनं तद्वदेव तु ॥ १० ॥ षड्गोलक(प्र)विस्तारमार्यतं सप्तगोलकम् । राक्षसस्याण्डकं कुर्याच्चन्द्रमण्डलसन्निभम् ॥ ११ ॥ (हास्यौभिप्रस्तवे ?) तस्य गोलकार्धान् विशेषयेतं । देवाण्डकं प्रमाणेन तदालस्येऽत्र कीर्तितः (?) ॥ १२ ॥ षड्गोलक(प्र)विस्तारं गोलकाष्टकमायतम् । (वृत्तांया ?) समालेख्यं दिव्याण्डकमिति स्मृतम् ॥ १३ ॥ अथाभिधीयते दिव्यमानुषाण्डव(क)(वि ?)लक्षणम् । गोलकार्धाधिकं भे(त)च्च कार्यं मानुषमानतः ॥ १४ ॥ पञ्चगोलकविस्तीर्णं षड्गोल(सेर्कमायुतम् ?) । मुखाण्डं मानुषं कृत्वा (केत्तरस्य ?) विधीयते ॥ १५ ॥ शिशुकाण्डकमानेन प्रमथानां मुखाण्डकम् । राक्षसाण्डकमानेन यातुधानाण्डकं भवेत् ॥ १६ ॥ दानवस्याण्डकं कुर्याद् देवानां वदनोपमम् । गन्धर्वनागयक्षाणां तद्वद्देवाण्डकं भवेत् ॥ १७ ॥ १ द. °दूहा° । २ द. स्य । ३ द. र्णा । ४ द. इतः परं “कंचु संनिभं । वक्रा भवज्रतुल्यं वा कर्तव्यं लक्ष्मैष्णवे । पुष्पक्षेत्रोद्भवमिदं द्विजादीनां सितार्यत् ॥” इत्ययं अधिकः पाठः । ५ द. ता । ६ द. या । ७ द. स्या । ८ द. °धं । ९ द. षतः । १० द. समायुतं । ११ द. °त्ता । मुद्रित पुस्तके ‘वृत्तायतं’ इति स्यात् । १२ द. र्या । १३ द. तां । १४ द. °लकसमायुतं । मुद्रित पुस्तके ‘ °कसमायतम्’ इति स्यात् ।