समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 653, कुल 726 में से
संदर्भ में पढ़ें५९२ समराङ्गणसूत्रधारे विद्याधराणां विज्ञेयं दिव्यमानुषमण्डकम् । बुध्यन्ते केऽपि शास्त्रार्थं¹ केचित् कर्माणि कुर्वते ॥ १८ ॥ करामलकवं( त्यास्यं पर ? )²द्वयमप्यदः । न वेत्ति शास्त्रवित् कर्म न शास्त्रमपि कर्मवित् । यो वेत्ति द्वयमप्येनत् स हि चित्रकरो वरैः*³ ॥ १९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे अण्डकप्रमाणं नाम त्रि( चतुः )सप्ततितमोऽध्यायः ॥
अथ मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः । ब्रूमोऽथ( माँतमङ्गाणां ? )⁴ परमाण्वादि तद् भवेत् ॥ १ ॥ परमाणु रजो रोम लिक्षा⁵ (६प्ररिका ? ) यवोऽङ्गुलम् । क्रमशोऽष्टगुणा वृद्धिरैव( वं ) मानाङ्गुलं भवेत् ॥ २ ॥ द्वयङ्गुलो गोलको ज्ञेयः कलां वा तां प्रचक्षते । द्वे ⁷कले गोलकौ (८बाहौ ? ) भागो मानेन तेन तु ॥ ३ ॥ आयामाद् विस्तृतेश्चित्रमन्यूनाधिकमाचरेत् । देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् ॥ ४ ॥ ( त्रिंशद् ? )१०भा( गा )यतं चैतद् विदध्याच्चित्रशास्त्रवित् । असुराणां ( सैरं ? )¹¹ स्याद् भागान् समा(प्ता )र्धसंयुतान् ॥ ५ ॥ विस्तारेण तदायामादेकान्नत्रिंशदिष्यते । सप्तभागं राक्षसानां विस्तारेणायतं पुनः ॥ ६ ॥
पादटिप्पण्यः (Footnotes): १ द. र्था । २ द. लस्यंत्यपरे । ३ द. रैः । ४ द. मानमंगाणां । मुद्रित पुस्तके ' मानगणनम् ' इति स्यात् । ५ द. क्ष्या । ६ मुद्रित पुस्तके ' यूका ' इति स्यात् । ७ द. वा । ८ द. कलो गलको । ९ मुद्रित पुस्तके ' वा द्वौ ' इति स्यात् । १० मुद्रित पुस्तके ' त्रिंशद् ' इति स्यात् । ११ मुद्रित पुस्तके ' शरीरं ' इति स्यात् । * अध्यायावसाने नियमेन दृश्यमानां तत्तदध्यायविषयक्रोडीकरणकारिकां विनैवेहाध्यायपरिसमाप्तिर्मातृकायामुपलभ्यते, एतदध्यायारम्भे ' कायमानमपि च ' इति यद् विषयान्तरं प्रतिज्ञातं, तत् समनन्तराध्याये सप्रपञ्चं निरूप्य मध्ये ' अण्डकवर्तना ' ' कायमानमि 'त्येतयोरेतदध्यायगतयोर्द्वयोर्विषययोः क्रोडीकारः कारिकारूपेणाध्यायावसान इव निबद्धः ।