भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 659, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 659

५९८ समराङ्गणसूत्रधारे ऊर्ध्वतः कर्णविस्तारो गोलकाद् द्वियवान्वितः । मध्ये च द्विगुणं नालं मूले मात्रा सपद्म(षड्ब)वा ॥ १८ ॥ समुदायप्रमाणेन (णेर्लेक?)द्वितयायतः । कर्णप्रसप्तः(?) कर्तव्यो निम्न्रो(३च्चूमत?)विभागवान् ॥ १९ ॥ अङ्गुलं पश्चिमं नालं पूर्वमर्धाङ्गुलं भवेत् । कुर्वीत कोमले नाले कल(ला)द्वितयमायते ॥ २० ॥ श्रवणस्य विभागोऽयं पूर्वा(यथा)वत् परिकीर्तितः । अन्यूनाधिकमानः स्यात् प्रशस्तो दूषितोऽन्यथा ॥ २१ ॥ चिबुकं द्व्यङ्गुलायामं तस्यार्धमधरं विदुः । तदर्धमुत्तरोष्ठः स्याद् भाजी चार्धाङ्गुलोष्ठधा(च्छ्रूया) ॥ २२ ॥ नासापुटौ तु विज्ञेयौ चतुर्थं भागमष्ट(मोष्ठ)योः । तयोः प्रान्तौ तु कर्तव्यौ करवीरसमौ शुभौ ॥ २३ ॥ तारकान्तःसमे चैव सृक्वणी परिचक्षते । नासिका स्याँ(त्) प्रमाणेन चतुरङ्गुलमायते(ता) ॥ २४ ॥ पुटभा(प्रा)न्ते च विस्तारो नासाग्रस्याङ्गुलद्वयम् । विस्तारेणाङ्गुलान्यष्टौ तदर्थमपि चायताम् ॥ २५ ॥ प्रमाणगुणसंयुक्तं ललाटं परिकीर्तितम् । आरभ्य चिबुकां(काद्) यावत् कु(के)शान्तं पश्चिमात् तथा ॥ २६ ॥ ५र्गणिक(ण्डा)न्तं शिरसो मानं भवेद् द्वात्रिंशदङ्गुलम् । +++ कर्णयोर्मध्ये (मष्टको?)ऽष्टादशाङ्गुलः ॥ २७ ॥

  • ग्रीवयोः परीणाहो विंशतिश्चतुरन्विता । श्री(ग्री)वातः स्यादुरोभागा(ग) उरसो नाभिरेव च ॥ २८ ॥ १ द. लं । २ मुद्रित पुस्तके 'गोलक' इति स्यात् । ३ द. ब्रूत । ४ द. त्स्या । ५ द. ल । ६ द. गणितं । ७ द. रनयो मध्ये । ८ द. मस्तको ।