समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 661, कुल 726 में से
संदर्भ में पढ़ेंषडङ्गुलपरीणाहं कोशस्तु चतुरङ्गुलः । अष्टादशाङ्गुलमिता विस्तारेण कटिर्भवेत् ॥ ३८ ॥ अङ्गुलार्धं (भवेन्नारीरोधोध्वश्वाङ्गुलं ?) भवेत् । नाभिमध्ये परीणाहः षट्चत्वारिंशदङ्गुलः ॥ ३९ ॥ द्वादशाङ्गुलमात्रं तु स्तनयोरन्तरं विदुः । स्तनयोरुपरिष्टात्तु कक्षप्रान्तौ षडङ्गुलौ ॥ ४० ॥ उत्सेधात् पृष्ठविस्तारो विंशतिश्चतुरन्विता । उरसः सह पृष्ठेन परीणाहः प्रकीर्तितः ॥ ४१ ॥ षडङ्गात् परीमाणादङ्गुलानीति निश्चयः (?) । परीणाहाच्चतुर्विंशत्यङ्गुलाष्टौ च विस्तृता ॥ ४२ ॥ ग्रीवा(वा ?) कार्या भुजायामः षट्चत्वारिंशदङ्गुलः । पर्वोपरितनं बाहोः कार्यमष्टादशाङ्गुलम् ॥ ४३ ॥ षोडशाङ्गुलमात्रं तु द्वितीयं पर्व कथ्यते । बाहुमध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥ ४४ ॥ प्रबाहोस्तु परीणाहो भवति द्वादशाङ्गुलः । आयामेन (तैलत्वापि ?) कीर्तिते(तो) द्वादशाङ्गुलः ॥ ४५ ॥ अङ्गुलीरहितः प्राज्ञो(ज्ञैः) सप्ताङ्गुल उदाहृतः । पञ्चाङ्गुलानि विस्तीर्णा(र्णो) लेखालक्षणलक्षितः ॥ ४६ ॥ पञ्चाङ्गुलानि मानेन कर्तव्या मध्यमाङ्गुलिः । पर्वणोऽर्धं(तु)मध्याया हीनां विद्यात् प्रदेशिनीम् ॥ ४७ ॥ प्रदेशिनीसमा चैव स्यादायामादनामिका । पर्वाधंमानहीना च प्रमाणेन कनिष्ठिका ॥ ४८ ॥ अङ्गुलीनां नखाः कार्याः सर्वे पर्वाधंसंमिताः । आयाममात्रमेतासां परीणाहं प्रचक्षते ॥ ४९ ॥ १ द. श्वा । २ द. र्या । ३ द. मो । ४ मुद्रित पुस्तके 'तलश्वापि' इति स्यात् । ५ द. प्रदेशिनी ।