भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 663, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 663

६०२ समराङ्गणसूत्रधारे अथ देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । त्रिदशानामथाकारान् ब्रूमः प्रहरणानि च । दैत्यानामथ यक्षाणां गन्धर्वोरगरक्षसाम् ॥ १ ॥ विद्याधरपिशाचानां १+ + + + यथाय॑थम् । ब्रह्मानलार्चिःप्रतिमँः कर्तव्यः सुमहाद्युतिः ॥ २ ॥ स्थूलाङ्गः श्वेतपुष्पश्च श्वेतवेष्टनवेष्टितः । कृष्णाजिनोत्तरीयश्च श्वेतवासाँश्चतुर्मुखः ॥ ३ ॥ दण्डः कमण्डलुश्चास्य कर्तव्यो वामहस्तयोः । अक्षसूत्रधरस्तद्वा( द्वदू ) मौञ्ज्या मेखलया वृतः ॥ ४ ॥ कार्या( र्यो ) र्वर्धयमानस्तु जगद् दक्षिणपाणिना । एवं कृते तु लोके( शे ) क्षेमं भवति सर्वतः ॥ ५ ॥ ब्राह्मणा( र्थं )वर्धन्ते सर्वकामैर्न संशयः । यदा विरूपा (दीनां वा क्रूरसोदरी ॥ ६ ॥ ब्राह्मणाैर्वा ? ) भवेद् वर्णा( ? ) सा नेष्टा भयदायिनी । निहन्ति कारकं रौद्रा दीनरूपा च शिल्पिनम् ॥ ७ ॥ कृशा व्याधि(धिं ) विनाशं च कुर्यात् कारयितुः सदा । कृशोदरी तु दुर्भिक्षं विरूपा चानपत्यताम् ॥ ८ ॥ एतान् दोषान् परित्यज्यै कर्तव्य‍ा सा सुशोभना । ब्रह्मणोवा( ऽर्चा ) विधानज्ञैः प्रथमो( मे ) यौवने स्थिताँ ॥ ९ ॥ चन्द्राङ्कितजटः श्रीमान् नीलकण्ठः सुसंयते( तः ) । विचित्रमुकुटः शम्भुर्निशाकरसमप्रभः ॥ १० ॥ दोर्भ्यां द्वाभ्यां चतुर्भिवा ( वधा ? ) युक्तो वा दोर्भिरष्टभिः । पटि( ट्टि )शव्यग्रहस्तश्चै पन्नगाजिनसंयुतः ॥ ११ ॥ १ द. भूतानां । २ द. त । ३ द. सि । ४ द. स । ५ द. मौज्यान् । ६ द. द । ७ द. थ । ८ द. ना; मुद्रित प्रतौ 'दीना वा कृशा रौद्रा कृशोदरी । ब्रह्मणोऽ' इति स्यात् । ९ द. त्व । १० द. ब्रह्मणोर्वा भं । ११ द. नः । १२ द. 'कर्तव्या यत् सा' इति पाठः । १३ द. वधात । १४ द. ताः । १५ द. स्य ।