समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 670, कुल 726 में से
संदर्भ में पढ़ेंदोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः । ६०९ ( ऊर्ध्वपिण्डका सासिसासि ? ) स्वामिनो दुःखमावहेत् । ( कुक्षिष्टिप्राय ? ) दुर्भिक्षं रोगा( न् ) कुब्जार्चिता नृणाम् ॥ १० ॥ पार्श्वहीना तु भवति राज्यैस्याशुभदर्शनी । ४ ( शालायासनया स्थानं स्त्रीश्व ? ) प्रतिमया भवेत् ॥ ११ ॥ आसनालयहीनायां बन्धनं स्थानविच्युते( तिः ) । नानाकाष्ठसमायुक्ता या चैवायसपिण्डिता ॥ १२ ॥ सन्धिभिः ( प्रविसहिर्या ? ) सानर्थभयदा भवेत् । ( सम्बन्धार्कृष्ट ? ) लोहेन त्रपुणा वा कदाचन ॥ १३ ॥ दारुणा च तथैवोक्ता प्रतिमायाँस्तु( शास्त्र )वेदिभिः । सन्धयश्चापि कर्तव्याः सुश्लिष्टाः पुष्टिमिच्छता ॥ १४ ॥ अर्चानाम धराधेन(?) शास्त्रदृष्टविधानतः । बध्नीयात् ताम्रलोहेन सुवर्णरजतेन वा ॥ १५ ॥ ( कृतेन केणुना चान्यथा स्तुसामबद्धावरुजावहा ? ) । तस्मात् सर्वप्रयत्नेन स्थपतिः शास्त्रकोविदः ॥ १६ ॥ कुर्यादर्चां यथान्यायं सुविभक्तां प्रमाणतः । ( न क्षतां नोपदिगां च न च १२विवर्जिता ॥ १७ ॥ न प्रत्यङ्गैः प्रहीनं च घ्राणपा१३दैर्नखादिभिः ? ) । सुविभक्तां१४ यथोत्सेधां प्रसन्नवदनां शुभाम् ॥ १८ ॥ निगूढसन्धे( न्धि )करणां समायतिम्ऋजुस्थिताम् । ( १५ईदृशां राणायेदर्घा ? ) प्रमाणगुणसंयुताम् ॥ १९ ॥ समोपचितमां१६साङ्गाः पुरुषाः स्युः समासतः । प्रमाणलक्षणयुता वस्त्ररत्नविभूषितैः १७ (?) ॥ २० ॥ १ द. सासि इति पाठः प्रतौ नास्ति । २ द. ष्ट्र् । ३ द. र्शि । ४ द. इतः परं 'अधोमुखी तु विज्ञेया वच्चलंकारहारिणी ॥ प्रतीक्षार्थमुखी या स्यात्सा मृत्युर्भयदायिनी' । इत्यधिकः पाठः । ५ द. प । ६ द्वा । ७ द. यास्तु इति पाठः प्रतौ नास्ति । ८ द. य । ९ द. प्रत्नेन । १० द. र्था । ११ द. र्तां । १२ द. च मान वि° । १३ द. देन । १४ द. क्तं । १५ द. ईदृशी कारयेदर्चा; मुद्रित प्रतौ 'ईदृशी कारयेदर्चा' इति स्यात् । १६ द. मा । १७ द. ताः । वा. ७७