समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 673, कुल 726 में से
संदर्भ में पढ़ें६१२ समराङ्गणसूत्रधारे त्रियवाः श्वेतभागः स्यात् तारा च प्रोक्तमानतः । विस्तारः श्वेतभागश्च करवीरोऽपि चोक्तवत् ॥ १९ ॥ परभाः(?) करवीरं स्याद् ब्रह्मसूत्रात् तथाङ्गुलम् । पूर्वभाकरवीरात्तु(?) सङ्गमश्चाङ्गुलं भवेत् ॥ २० ॥ कर्णनेत्रान्तरं प्रोक्तं कलाभ्य(ध्य)र्धाङ्गुलाधिकम्(का) । (पूर्वक्कं सर्वदिस्याविक्षायत् कथयेत् पराम् ?) ॥ २१ ॥ पुटोऽङ्गुलं ब्रह्मसूत्रात् कपोलोद् द्व्यङ्गुलं भवेत् । पूर्वे परत्र मात्रार्थं पुटः स्याच्छेषमुक्तवत् ॥ २२ ॥ (परभागौन्तराष्ट ?) स्यादङ्गुलं द्वियवाधिकम् । अधरः परभागे तु यवषट्कं विधीयते ॥ २३ ॥ अधरान्ता कला(?) गण्डो ब्रह्मसूत्रात् पुनर्हनुः । परभागेऽङ्गुलं सार्धं मुखलेखाङ्गुलं ततः ॥ २४ ॥ (आरुड वा यत्कार्यं मुखयां पर्यतलेखया । परिवर्त्तसुखादेशा ?) ज्ञात्वा कार्या प्रयत्नतः ॥ २५ ॥ (अपादमध्यं हि ज्ञातः ? ) सूत्रेऽन्यस्मिन् प्रवर्तिते । (खरे लुप्येत तुर्यांशः पूर्वेत्वेवाविवर्धते ?) ॥ २६ ॥ कक्षाधरः परे भागे सूत्रतः पञ्चगोलकः । पूर्वभागे(तृतं ?) ˚विद्यात् पङ्गो(षङ्गो)लपरिमाणतः ॥ २७ ॥ मध्ये सूत्रात् (पर?) पार्श्वलेखा ++ गावच्चतुष्कलम् । उरसो मध्यमो(मात्) सूत्रात् कक्षा स्यान्नव (माभंचा!) ॥ २८॥ (द्वंतलेखात्तस्मात्वं° विधाकलत्रयम् । स्तनाः पार्श्वकलां कुर्यात् स्तनं वा पतमण्डलम् ?) ॥ २९ ॥ परतो हस्तकः कार्यः कर्मयोगानुसारतः । (पार्श्वपर्यन्त सर्वा भागे षषंडलालम् ?) ॥ ३० ॥ १ द. क्कू । २ द. लो । ३ द. सू । ४ द. गो । ५ द. से । ६ द. ˚वर्त्त्यसुखोद्देशा । ७ द. विं । ८ द. स । ९ द. न । १० द. ˚स्माच्च विधातव्या कालत्रयं । ११ द. र्श्व । १२ द. स्तनतः पार्श्वपर्यतः सर्व भागे˚ ।