समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 675, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 675
६१४ समराङ्गणसूत्रधारे
भूमिसूत्राद् गतोऽधस्तात् पूर्वाङ्गुष्ठो भवेत् कला । अङ्गुष्ठोऽङ्गुलयश्चेति सर्वमन्यद् यथोदितम् ॥ ४२ ॥ ( द्वयपार्श्वतलप्रविपारंहौ ? ) मध्यमे¹ तलम् । एवमुक्तप्रमाणेन् ज्ञात्वा युक्त्या समादिशेत् ॥ ४३ ॥ अर्धर्ध्वगतमित्येतत् प्रवरं स्थानमीरितम् । लक्ष्म सा वो( साची )कृतस्याथ स्थानकस्याभिधीयते ॥ ४४ ॥ विन्यस्येद् ब्रह्मसूत्रं प्रा( कूँ² स्था )नबोधस्य सिद्धये । ललाटं परभागं( गे ) स्यात् केशलेखा तथा कला ॥ ४५ ॥ परभागभ्रुवो लेखा +++ ⁵र्धमुदाहृता । ( परतो + क्षिलेखायां कालिका द्वियतो ज्ञत ? ) ॥ ४६ ॥ ज्योतिषः स्यात् परे भागे तारा दृश्या यवोन्मिता । यवमात्रं ततो ज्योतिस्तस्मात् तारा यवद्वयम् ॥ ४७ ॥ श्वेतं च करवीरं च ततः प्रागुक्तमानतः । ( कनीलिका तु ? ) नासाया मूलं ⁶विद्याद् यवान्तरम् ॥ ४८ ॥ नासामूल( लं ) प्रमाणेन ततो ज्ञेयं यवत्रये । ब्रह्मसूत्रात् पूर्वभागे ( नग्नन्तो ? )र्ध्वगोलकौ⁸ ॥ ४९ ॥ ( आपाङ्गं स्तोंत्रेतो⁹ ?) विद्याद् द्विगोलकमितेऽन्तरे । तस्माद् भागेन कर्णान्तः कर्णः स्याद् विस्तरेण तु ॥ ५० ॥ द्वियवोना कला चक्षुर्व्यावृत्त्या परिवर्धितः । पूर्वस्य करवीरेण सह श्वैत्यं यवत्रयम् ॥ ५१ ॥ द्वितीयश्वैत्यहक्ताराप्रसृतिः¹⁰ प्रोक्तमानतः । कपोललेखा परतो ( यवर्द्धा¹¹ ता ? ) कला भवेत् ॥ ५२ ॥ ब्रह्मसूत्रान्नासिकाग्रं परस्मिन् सप्तभिर्यवैः । नासापुटे¹² पूर्वभागे¹³ स्याद् यथा( वा )धिकमङ्गुलम् ॥ ५३ ॥
१ द. म । २ द. ज्वा । ३ द. द्धा । ४ द. भा । ५ द. थो । ६ द. विकातो । ७ द. र्वि । ८ द. के । ९ द. सूत्रतो विंयाद् । १० द. प्रसूतीन्ध्रो° । ११ द. हीना । १२ द. द्धा । १३ द. गो ।