समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 678, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 678
ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६१७
- सूत्रात् पूर्वपादस्य तलमष्टाङ्गुलं भवेत् । अभ्य(ध)स्तात् तलयोः सूक्ष्मा( : ?)स्याल्लेखाष्टादशाङ्गुलम् ॥७८॥ अङ्गुष्ठकाद्र्क्रमात्(?) प्रदेशिन्यङ्गुलाधिका । ( परपादतलावस्तून पूर्वा ह्यङ्गुष्ठमूलगम् ॥ ७९ ॥ सूत्रं यथाति ?) सा भूमिलेखेति परिकीर्त्तिनाँ । सूत्रादर्धाङ्गुलेनोर्ध्वं तस्मात् पार्णि( : )परस्य च ॥ ८० ॥ अङ्गुष्ठादङ्गुलीपातः पूर्वपादेऽनुसारतः । उ( प )प्रदेशिनीमानात् कुर्यादत्र प्रदेशिनीम् ॥ ८१ ॥ अपराश्चाङ्गुलीः सर्वाः क्रमेण क्षपयेत् ततः । इति साचीकृतं स्थानमेतदुक्तं यथार्थतः ॥ ८२ ॥ अध्यर्धाक्षमिदानीं च स्थानकं ( सूं प्रचक्षते ? ) । ⁷ब्रह्मसूत्रमुखे कृत्वा मानमात्रं(?) विधीयते ॥ ८३ ॥ केशान्तलेखा सूत्रा(त्) स्यान्मो(न्मा)त्रैका यवसंयुता । पृथग् वक्षः पृथक् श्रोणिः वृत्तं बाहुः सुसंस्कृतिः (?) ॥ ८४ ॥ ⁹भद्राकारो भवेद् भद्रो वृत्तवक्त्रः स्वभावतः । मालव्यस्य भवेन्मूर्धा प्रमाणेनाङ्गुलत्रयम् ॥ ८५ ॥ ( चतुर्मात्रललाटं च नाश वक्त्राशिरोधरा । मात्रा द्वादश वक्षस्ये नाभिमेद्रान्तरोदरे ?) ॥ ८६ ॥ अष्टादशाङ्गुलौ ¹⁴ चोरू जङ्घे अप्येवमेव हि । चतुरङ्गुलौ + + जानुनी चतुरङ्गुले ॥ ८७ ॥ मालव्यस्यायमायामः पण( षण्ण )वत्यङ्गुलो मतः । विस्तारो वक्षसस्तस्य मात्राः षड्विंशतिः स्मृतः ॥ ८८ ॥ १ द. क्र । २ द. कं । ३ द. ल । ४ द. ताः । ५ द. ˚शिनी । ६ द. सं; मुद्रित प्रतौ ' संप्रच- क्ष्महं ' इति स्यात् । ७ मुद्रित प्रतौ ' ⁷ब्रह्मसूत्रं मुखे कृत्वा मानमत्र ' इति स्यात् । ८ द. प्रतौ नास्ति । ९ द. क्ष्यः । १० द. न्त । ११ मुद्रित पुस्तके ' भद्रहंसादीनां पुरुषविशेषाणां लक्षणमध्यायान्तरेण वक्ष्यति । ततः कियांश्चिदंश इह प्रमादान् प्रक्षिप्त इति भाति, प्रक्रमभञ्जान् । १२ द. णा । १३ द. क्त्रा । १४ द. क्ष्ये । १५ द. लो । १६ द. व्या । वा, ७८