समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 677, कुल 726 में से
संदर्भ में पढ़ें६१६ समराङ्गणसूत्रधारे (मध्याच्चकलयावहः परे ? ) तिर्यग् विभज्यते । मध्यप्रान्तः पूर्वभागे भवेत् सूत्राद् दशाङ्गुलः ॥ ६६ ॥ तिर्यङ् नाभिप्रदेशः स्यात् पं(रनो)ब्रह्मसूत्रतः । यवैश्चतुर्भिरधिकमङ्गुलानां चतुष्टयम् ॥ ६७ ॥ पूर्वभागे विनिर्दिष्टः स एवैकादशाङ्गुलः । मध्येनैति परस्योरोः सूत्र(त्रं) नाभ्यन्तराश्रितम् ॥ ६८ ॥ प्रयात्यपरजाच्चैतत्(?) पूर्वतः कलया च तत् । जान्वधोभाग(त)श्चार्धकलया त्रियवेन च ॥ ६९ ॥ जङ्घामध्येन लेखायाः प्रसक्तं नलकस्य तु । ( षांते वैरवं ? ) परतश्चतुर्भिः सूत्रमिष्यते ॥ ७० ॥ अनेनैवानुसारेण बहिर्लेखा विधीयते । ब्रह्मसूत्रात् परे भागे कटिरङ्गुलपञ्चके ॥ ७१ ॥ (तामालर्मात्रा तु मा पूर्वे मेडाग्रं सूत्रसङ्गतम् । सूत्रादरभागोरू मूलाग्रैये ? ) ॥ ७२ ॥ सूत्रादपरभागोरुमध्ये रेखा कलाद्वये । सूत्रात् पूर्वोरुमूलं स्यात् पूर्वतः कलया तथा ॥ ७३ ॥ कलाद्वयेन विज्ञेया रेखा पूर्वस्य जानतुः । सार्धाङ्गुलर्यवं जानु तत्पार्श्वं चार्धमङ्गुलम् ॥ ७४ ॥ सूत्रेण पर(पा)दस्य मध्यरेखा विभज्यते । आदिमध्यान्तलेखायां सूत्रशौचमुदाहृता( ? ) ॥ ७५ ॥ सूत्रात् प्राग्भागमैलके(?) प्रान्तः पञ्चभिरङ्गुलैः । अर्धाङ्गुलं क्षयः कार्यः परभागोरुजङ्घयोः ॥ ७६ ॥ पराक्षिमध्यगं सूत्रं लम्बभूमिप्रतिष्ठितम् । परपादतनान्तात् प्रागङ्गुलेन विधीयते ॥ ७७ ॥ १ द. परस्मिन् । २ द. राधिक्यं । ३ द. प्रांते वैरं । ४ द. म । ५ द. मूला रेखा कला । ६ द. द्वयं । ७ द. न । ८ द. क्षयं कार्यार्न प° ।