समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 679, कुल 726 में से
संदर्भ में पढ़ें६१८ समराङ्गणसूत्रधारे बाह्यो(ह्वोः) षोडशमात्रश्च प्रबाह्यो(ह्वो)रेवमेव सं¹ः। (पाष्ण्र्यौ² द्वादशमात्रस्ये मालव्यस्त्वेह³ विस्तृनिः⁴?) ॥ ८९ ॥ पीनांसो ⁵दीर्घबाहुश्च पृथुवक्षाः कृशोदरः । वृत्तो रुकटीजङ्घश्च मालवः पुरुषोत्तमः ॥ ९० ॥ हंसस्य वक्त्रं पृथग्(थु) गण्डभागं कृशं शशस्यायतमास्यमाहुः । विस्तारदैर्घ्याद् भवकस्य तुल्यं (?) सुखं सुवृत्तं त्विहच(?) ⁸भद्रवक्त्रे⁶ ॥ ९१ ॥ (स्यान्मालावस्या लेपनं तु कान्तमयोऽयं । देही⁷ तु रूपैश्च भवन्ति युक्तास्ते कर्मणि सर्वगुणान्वितास्ते ?) ॥९२॥ (स दुर्लभं स्यात् पुरुषः प्रमेय- मानोऽस्ति कीर्ण इति¹⁰ ह षष्ठः?)॥९३॥ (मांसलेन शरीरेण ग्रीवा¹¹सिरा अग्रा ++ । मांसलायत¹²शाखा च नारी वृत्तेति सा मता?) ॥ ९४ ॥ पृथुवक्त्रा¹³ कटीह्रस्वा ह्रस्वग्रीवा पृथूदरी । पुंवत्काण्डकतुल्या(?) स्यात् सा नारी पौरुषी मता ॥ ९५ ॥ अल्पकायशिरोग्रीवा लघुशाखा भवेच्च या । कृशाल्पब्रह्मसत्त्वा¹⁵ च सा नारी बालकी स्मृता(?) ॥ ९६ ॥ पुंस्पर्शात् पश्यता(?)या स्यात् कौमारे प्राप्तयौवना । अन्या सा बालकी प्रोक्ता स्त्रीलक्षणविचक्षणैः ॥ ९७ ॥ [ भ्रुवः¹⁶ सद्विर्यवामात्रा लेखा कृशैर्यवाङ्गुलाः । दत्तोयमन्तरे वर्त्म ताराय¹⁷ अर्धमालिखेत्¹⁸ ॥ ९८ ॥ १ द. च । २ द. ण्यो । ३ द. स्वेह । ४ द. विस्तृभिः । ५ द. दीर्घ वा ह्रस्व पृथ्वक्ष्याः । ६ द. क्त्रं । ७ द. ‘ ‘योमवचेति शरीरवंशाः सिंम्यानभावैः कथिता नराणां सामान्य कथितं च योज्यं । इत्यधिकः पाठः समाविष्टः अस्ति । ८ द. हानु । ९ द. भां । १० द. ती । ११ द. ग्रीवां शिराश्च या । १२ द. य । १३ द. क्त्रा । १४ द. ल्यां । १५ द. त्व । १६ द. भ्रु; इत उत्तरं वक्ष्यमाणास्तु प्रकृता- ध्यायगता विधयाश्चतुरशीतितमश्लोकपूर्वार्धानुगता इति शक्यमुन्नेतुम् । १७ द. यं । १८ द. स । १९ द. श्चा ।