भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 692, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 692

ऊरू विंशतिमात्रौ च शशस्य परिकीर्तितौ । त्र्यङ्गुले जानुनी ल( ज )ङ्घे मात्राविंशतिमायते ॥ ११ ॥ गुल्फौ च त्र्यङ्गुलायामौ तावन्मात्रं १ शिरो भवेत् । आयामोय( ऽयं ) शशस्यैव( वं ) स्यान्नवत्यङ्गुलोन्मितः ॥ १२ ॥ द्वाविंशत्यङ्गुलं ( वेंक्ष्यां ? ३ ) विस्तारेणास्य कीर्तितम् । बाहुप्रबाहू पाणी च शशकस्यापि हंसवत् ॥ १३ ॥ समयाच्चै स कर्तव्यो( व्य ४ ): स्वभावाच्च कृशोदरः । ( तयोयेवेत् केशोरुजङ्घो द्विद्वान् ? ) विचक्षणैः ॥ १४ ॥ रुचकस्य ( तुं ५ खायामघाम ? ) प्रोक्तः सार्धदशाङ्गुलः । ग्रीवाङ्गुलत्रयं सार्धमायामेनास्य कीर्तिता ॥ १५ ॥ एकादशाङ्गुलो ६ ( व्याँ ७ पूर्वकृस्तस्य ? ) प्रमाणतः । तावन्त्ये ८ वोदरं तस्य नाभिमेढ्रान्तरं दश ॥ १६ ॥ विंशतिश्चाङ्गुलान्यूरू जानुनी चाङ्गुलत्रयम् । विंशत्यङ्गुलमायामं जङ्घयोस्तस्य निर्दिशेत् ९ ॥ १७ ॥ अङ्गुलत्रितयं गुल्फौ कुर्यात् तस्य शिरोऽपि च । द्विनवत्यङ्गुलायामो रुचकः परिकीर्तितः ॥ १८ ॥ इत्यायामोऽस्य विस्तारो वक्षसोऽङ्गुलविंशतिः । भुजौ दशाङ्गुलायामौ प्रकोष्ठौ तद्वदेव च ॥ १९ ॥ एकादशाङ्गुलौ हस्तौ विस्तारेणास्य कीर्तितौ । पीनांसः पीनबाहुश्च सलिं ११ ( ली )लगतिचेष्टितैः १० ॥ २० ॥ बलवान् वृत्तबाहुँ १२: स्याद् रुचको रुचकाकृतिः । भद्रस्य प्राहुरायामं मस्तकस्याङ्गुलत्रयम् ॥ २१ ॥ १ द. त्रौ । २ द. प्रतौ 'वक्षो' तथा मुद्रित पुस्तकेऽपि सैव पाठः स्यात् । ३ द. श्वः । ४ द. व्याः । ५ द. 'मुखायामः' तथा मुद्रित पुस्तकेऽपि सैव पाठः स्यात् । ६ द. 'लो' स्थाने 'ला'। ७ द. न्यां । मुद्रित पुस्तके 'न्याहूर्वक्षस्तस्य' इति स्यात् । ८ द. ंत्ये । ९ द. त्र्यं । १० द. प्रतौ नास्ति । ११ द. ता । १२ द. हू ।