समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 696, कुल 726 में से
संदर्भ में पढ़ेंरसद्दष्टिलक्षणं नाम व्यशीतितमोऽध्यायः । ६३५ म्लानभ्रूपुटपक्ष्मौ¹ या शिथिला म॑न्द²चारिणी । (क्लौम³ ?) प्रविष्टतारा च विह्वला (ताँमला⁴ ?) स्मृता ॥ २७ ॥ किञ्चिच्चला स्थिरा किञ्चिदुत्ताना तिर्यगायता । मूढा(ढा) चकिततारा च शङ्किता दृष्टिरिष्यते ॥ २८ ॥ आनिकुञ्चितपक्ष्मौ⁵ या पुटैराकुञ्चितैस्त(तात)था । (सत्रिजन्त + ?)तारा च कुञ्चिता दृष्टिरुच्यते ॥ २९ ॥ लम्बिता(र्ध)पुरा(टा)⁷ ⁸+ + तिर्यग्रूक्षेक्षणा शनैः । निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥ ३० ॥ ऋजुतारा राज(ऋजु)पुटा प्रसन्ना रागवर्जिता । त्यक्तादरा च विषये मध्यस्था दृष्टिरुच्यते ॥ ३१ ॥ समतारा समपुटा समभ्रूविकारिणी । (उपगारा ?)विहीना च स्थिरा दृष्टिः प्रकीर्तिता⁹ ॥ ३२ ॥ हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् । सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥ ३३ ॥¹⁰ आङ्गिके¹¹ चैव चित्रे + + + साधनमुच्यते । (भवेदन्त्रादैत¹² ?)स्तस्मादनयोश्चित्रमाश्रितम् ॥ ३४ ॥ दृष्टिः ॥ प्रोक्तं रसानामिदमत्र लक्ष्म दृशां च सांक्षिप्ततया तदेत्ये¹³(त्) । (¹⁴विज्ञेयचित्रालिखनान्तराणां ?) न संशयं याति मनैः¹⁶ कदाचित् ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे रसद्दष्टिलक्षणाध्यायो नामैका(मद्य)शीतितमः ॥ १ द. क्षा । २ द. ॰ला या मन्द॰ । ३ द. क्लम । ४ द. तामसा; मुद्रितपुस्तके ‘नाम सा’ इति स्यात् । ५ द. पद्माग्रा । ६ द. ॰तैस्तथा । ७ द. पुरा । ८ द. यू । ९ द. ताः । १० द. इतः पूर्वं ‘ऊर्ण नाभस्ताभ्रचूल इत्येषा चभुरन्विता । हस्तानां विंशतिस्तेषां लक्षणं कर्म चोच्यते ॥ प्रसारिताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाइङ्गुष्ठः स पताक इति स्मृतः ॥ उत्क्षिप्तेन शिरोयाल्याणि- नामेरूसा पुनः । न तेन वामतः किंचिद्भ्रुकुटी कुटलभ्रुवा ॥ स्तोक विस्फारिताक्षेण प्रहारमभिनिर्देशेत् । प्रतानं तथोद्भूतो नारसोग्रगजे ॥’ इत्यधिकः पाठः । ११ द. क । १२ द. दृ । १३ द. ते । १४ मुद्रित पुस्तके ‘विज्ञाय चित्रं लिखतां नराणां’ इति स्यात् । १५ द. ॰खिलं॰ । १६ द. न । १७ द. प्रतौ नास्ति ।