समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 697, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 697
६३६ समराङ्गणसूत्रधारे अथ पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । चतुःषष्टिरिहेदानीं$^१$ हस्तानामभिधीयते । लक्षणं विनि (योगश्च ) योगायोगविभागशः ॥ १ ॥ पताकस्त्रिपताकश्च तृतीयः कर्तरीमुखः । अर्धचन्द्रस्तथारालः शुकतुण्डस्तथापरः ॥ २ ॥ मुष्टिश्च शिखरश्चैव कपित्थः खटकामुखः । सूच्यास्य (स्यः) प(द्म )कोशाहि( शि )रसौ मृगशीर्षकः ॥ ३ ॥ $^२$काङ्गूलपद्मकोलश्च(? ) चतुरो भ्रमरस्तथा । हंसोस्यो हंसपक्षश्च सन्दंशो$^३$मुकुला( वैदि ? ) ॥ ४ ॥ ऊर्णनाभस्ताम्रचूडं ( ड ) इत्येषा चतुरन्विता । हस्तानां विंशतिस्तेषां लक्षणं कर्म चोच्यते ॥ ५ ॥ प्रसारिताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाङ्गुष्ठं स पताक इति स्मृतः ॥ ६ ॥ उत्क्षेप्रेन ( शिरो या + त्पाणिनां मेरसान ? ) पुनः । नतेन वामतः किञ्चिद् भ्रुकुटीकुटिले$^६$भ्रु चें ॥ ७ ॥ स्तोकविस्फारिताक्षेण प्रहारमभिनिर्दिशेत् । प्रतापनं तथोद्भूतो(नरेसोप्रतेन च ? ) ॥ ८ ॥ तथैवाविकृतास्येन भौलस्थः किञ्चिद् विचलितः करः (? ) । पताके$^१२$स्फोरिताक्षेण भ्रुकुटीकुञ्चितभ्रुवा ॥ ९ ॥ कार्योऽहमिति गर्वः$^१३$ स्याच्चित्रशास्त्रविशारदैः । अर्थेषु वक्ष्यमाणेषु संयुक्तं चैनमाचरेत् ॥ १० ॥ द्वितीयहस्तयुक्तो यः स हस्तः संयुक्तः स्मृतः । (तत्राग्निसैंपणाचामः पुरतो क्षिणतः पुनः ?) ॥ ११ ॥
१ द. नी । २ द. काङ्गू°; परन्तु मुद्रितपुस्तके 'काङ्गुलकालपद्मश्चे'ति लक्षण दृष्टपाठ्यानुरोधात् पथ्यम् । ३ द. स । ४ द. शं । ५ मुद्रितपुस्तके 'वपि' इति स्यात् । ६ द. ल । ७ द. ष्ट । ८ द. ट । ९ द. वा । १० द. नारसोग्रतेन च । ११ द. लाभस्थः । १२ द. कः । १३ द. र्वै । १४ द. व । १५ द. रु ।