समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 698, कुल 726 में से
संदर्भ में पढ़ेंपताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६३७ ऊर्ध्वं प्रसर्प्य कर्तव्यः प्रचलद्विरला(ङ्गुलिः) । विदध्यादित्थमेवोक्तो(क्तं) वर्षधारानिरूप(णम्) ॥ १२ ॥ (कित्त्वधोऽमियतं तौ तावमच्छन्तौ च ?) दर्शयेत् । पुष्पवृष्टिप्रपंतने प्रचलद्विरलाङ्गुलिः ॥ १३ ॥ कार्यं हस्तद्वयं वक्त्रं त्रयोऽप्यत्राधिकारिणैः (?) । (कैतवै ?) ++ चोत्तानं विधाय स्वस्तिकं बुधः ॥ १४ ॥ कुर्वाणो विच्युतिं तस्य पल्वं संप्रदर्शयेत् । पुष्पोपहारं (सर्ष्पाणि ?) ये चार्था भूतसस्थिता(ः) ॥ १५ ॥ तानुन्नमितवामभ्रूः किञ्चिदुद्वाह्यजि(ञ्छि )रः । तादृशं हस्तयुग्मं तुं कुर्यादविकृताननः ॥ १६ ॥ अधोमुखं (च) तेनैव कर्तव्याप्र(घं)टना मिथः । संवृतं वा (थ)विश्लिष्टं तारः ++++++ ॥ १७ ॥ दर्शनीयं च वदनमस्मिन्नविकृतं सदा । यो(पा)ल्यं छत्रेन(न्न च) कर्तव्यं (शैल्कशे परस्परा ?) ॥ १८ ॥ किञ्चिद्विनतमूर्धा चं विधायाधोमुखौ तलौ । निबिडं निबिडेमै(नै)व निर्विकारमुखाम्बुजो(जः) ॥ १९ ॥ उरसोऽग्रे तथोर्ध्वेने परावृत्ते च हस्तयोः । युगलेन मनसा(श्)शक्तिं प्रयत्नने प्रदर्शयेत् ॥ २० ॥ गोप्यं वामेन गुप्तेन किञ्चिद्विनतमस्तकः । किञ्चिदाकुञ्चितां वामां ध्रुवं कृत्वा प्रदर्शयेत् ॥ २१ ॥ पार्श्वस्थेन पताकेन (पाण्यङ्गद्वितयेन तु । अँधिकस्थेन पताकेन ?) पाण्यब्जद्वितयेन तु ॥ २२ ॥ १ द. भौ । २ द. ॰धोनियतं । ३ द. य । ४ द. व । ५ द. कैनेव । ६ द. ष्पा । ७ द. र्या । ८ द. त । ९ द. तत् । १० द. क । ११ द. ष्य । १२ द. ञ्न कं । १३ द. शल्के । मुद्रितपुस्तके ‘संसक्तेन परस्परम्’ इति स्यात् । १४ द. श्र । १५ द जाः । १६ द. प । १७ द. ‘अधिक...... द्विनयेन तु’ नास्ति ।