समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 699, कुल 726 में से
संदर्भ में पढ़ें६३८ समराङ्गणसूत्रधारे अधिकारीमुखे(?)^१ वायोः कुर्यादभिन(न्द?)^२यं ततः। नतोत्त + शिरास्तेन (^३द्विहित भ्रुकुटिमानके?)^४ ॥ २३ ॥ वेलामुर्वी^५ च मतिमान् पाणियुग्मेन दर्शयेत् । पुरःस्थितेन वामेन दक्षिणेन तु पाणिना ॥ २४ ॥ (^६तसृष्टे ?) सर्पता स्तोकमुद्वाहितशिरा नराः(रः) । वेगं प्रदर्शयेन्नित्यमविकारि दधन्मुखम् ॥ २५ ॥ (^७ईत्युश्वेनुश्च ?) चलता हस्तयोर्द्वितयेन तु । मूर्ध्ना तदनुगेनैव तथैव विकृताननः ॥ २६ ॥ क्षोभस्या(भि)नयं कुर्याद्धस्ताभिनयकोविदः । (उधंस्तुधो मुखेनावः यतैन्परार्थतापि च ?)^११ ॥ २७ ॥ पताकेनाभिनेतव्यो^१२ विधाय भ्रुकुटिं मैनाक्^१३। पार्श्वव्यवस्थितेनोर्ध्वं चलदङ्गुलिना^१४ मुहुः ॥ २८ ॥ उत्साहनं विधातव्य(मुंत्तप्य?)(च)^१५ शिरोधराम् । तिर्यग्विस्फार्यमाणेण^१६ प्रभूतंमभिनिर्दिशेत्^१७ ॥ २९ ॥ महतोऽभिनयः कार्यः^१८ पार्श्वयोरूर्ध्वसर्पिणा^१९। भ्रान्तेनोत्तानिते^२०(द्यौनिकृतास्येन ^२१सिंहाजनम्?)^२२ ॥ ३० ॥ रूपयेदुच्चमुचेन^२३ पताकेनैव पाणिना । इतस्ततः प्रचलता^२४ दर्शयेत् पुष्कराहतिम् ॥ ३१ ॥ (सत्ताक्षेपेण वक्त्रेण चलयै^२५ + मुखेन च ?) । स्थितेन पार्श्वयोस्तिर्यग् रिच्यमानेन दर्शयेत् ॥ ३२ ॥ १ मुद्रितपुस्तके 'अविकारिमुखो' इति स्यात् । २ द. व्रतः । ३ द. वि । ४ द. ता । ५ द. वेलामूर्वी; परन्तु मुद्रितपुस्तके 'वेलामूर्मिमिति पाठ्यं भाति' नाट्यशास्त्रे पताकहस्तकर्मनिरूपणप्रसङ्गे 'वायूर्भिवेमवेलाक्षोभे'त्यादिदर्शनाद् । ६ तत्पृष्टे स° । ७ द. इतुश्चेतुश्च । ८ द. °य कुर्या को । ९ द. थ । १० द. तत् । ११ द. र्पि । १२ द. °नेव्यो । १३ द. मा । १४ द. ला । १५ द. °व्यंमुत्तमप्यशिरो वरां; मुद्रितपुस्तके 'मुन्नम्य' इति स्यात् । १६ द. °त्रिस्फा° । १७ द. प्रभूत इति पाठः प्रतौ नास्ति । १८ द. कार्ययो । १९ द. र्पणां । २० द. क्तं । २१ मुद्रितपुस्तके 'नाविकृतास्येन महाजनम्' । २२ द. म । २३ द. रूपकये° । २४ द. प्रमृता । २५ द. वै ।