समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 711, कुल 726 में से
संदर्भ में पढ़ें६६० समराङ्गणसूत्रधारे तासां मध्ये स्थितोऽङ्गुष्ठः स करश्चतुरः स्मृतः । अधोमुखः प्रचालितो ( मंतस्थेन ततत्कथा ? ) ॥ १४१ ॥ विनये च नये चायं कार्योऽभिनयवेदिना । ( वैपुंणा तून्नतशिवा$^३$ साः कृत्वा $^४$भ्रेतां भ्रुवा ? ) ॥ १४२ ॥ विदध्याच्चतुरं हस्तमुत्तानं नियमे पुनः । किन्तु भ्रुवं + कु( $^५$टिलां ) विनयं प्रति नाचरेत् ॥ १४३ ॥ अधोमुखेन हस्तेन तेन बालं प्रदर्शयेत् । बालप्रदर्शने कुर्याद् ( $^६$कुटीविनतै$^७$निरः ? ) ॥ १४४ ॥ तेनोत्ताने( न ) वलता$^८$ ( $^९$येदातुरनन्तरम् ? ) । तिर्यक् प्रसर्प्य $^{१०}$न्तुत्तानो बहिश्चाविकृताननैः ॥ १४५ ॥ सत्ये चानुमतौ चैवं$^{११}$ ( हस्त एष ) विधीयते । एवमेव प्रयोक्तव्यो युक्ते ( $^{१२}$पथ्येशमध्यमः ? ) ॥ १४६ ॥ द्वाभ्यामेकेन वा ( $^{१३}$स्तुंस्तौ क ? ) मण्डलावस्थितेन च । $^{१४}$विचारितं प्रयोक्तव्यं विहृतं लज्जि( तं )तथा ॥ १४७ ॥ वदनं तत्र कर्तव्यमविकार्यं नतभ्रुवा । वितर्कितमुरोभ्यर्णे मण्डलावस्थितेन तु ॥ १४८ ॥ अधोमुखेन पुरतः कार्यं विश्लिष्यता तथा । मुखं चाविकृतं तत्र कार्यमभ्युन्नते भ्रुवौ ॥ १४९ ॥ शिरस्तु वामतो ( $^{१५}$तँत्र नतं च पुनः ? ) । उभाभ्यां नयनाभ्यां ( तु ) मृगकर्णप्रदर्शनम् ॥ १५० ॥ १ द. न । २ मुद्रितपुस्तके ‘नैपुणं तून्नतशिराः सत्त्वे कृत्वोन्नतां भ्रुवम्’ इति स्यात् । ३ द. °रा वामां । ४ द. भ्रू । ५ द. विकृतिं । ६ द. भ्रुकु° । ७ द. तं णिरः । परन्तु मुद्रितपुस्तके ‘भ्रुकुटीविनतं शिरः’ इति स्यात् । ८ द. शये° । ९ मुद्रितपुस्तके ‘दर्शयेदातुरं नरम्’ इति स्यात् । १० द. नुत्तान्ये । ११ द. चैव कैतवेव वि° । १२ मु. पु. ‘पथ्ये शमे यमे’ इति वा, ‘पथ्ये च मध्यमे’ इति वा स्यात् । १३ द. ‘स्तु’ नास्ति; मुद्रितपुस्तकं ‘स्तोकं’ इति स्यान् । १४ मु. ‘विवृतविवरितरचितम्’ इति तु मुद्रित मुनि पाठः । १५ द. °तो तस्रन्नतं च पुरः पुनः ।