समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
६६० समराङ्गणसूत्रधारे तासां मध्ये स्थितोऽङ्गुष्ठः स करश्चतुरः स्मृतः । अधोमुखः प्रचालितो ( मंतस्थेन ततत्कथा ? ) ॥ १४१ ॥ विनये च नये चायं कार्योऽभिनयवेदिना । ( वैपुंणा तून्नतशिवा$^३$ साः कृत्वा $^४$भ्रेतां भ्रुवा ? ) ॥ १४२ ॥ विदध्याच्चतुरं हस्तमुत्तानं नियमे पुनः । किन्तु भ्रुवं + कु( $^५$टिलां ) विनयं प्रति नाचरेत् ॥ १४३ ॥ अधोमुखेन हस्तेन तेन बालं प्रदर्शयेत् । बालप्रदर्शने कुर्याद् ( $^६$कुटीविनतै$^७$निरः ? ) ॥ १४४ ॥ तेनोत्ताने( न ) वलता$^८$ ( $^९$येदातुरनन्तरम् ? ) । तिर्यक् प्रसर्प्य $^{१०}$न्तुत्तानो बहिश्चाविकृताननैः ॥ १४५ ॥ सत्ये चानुमतौ चैवं$^{११}$ ( हस्त एष ) विधीयते । एवमेव प्रयोक्तव्यो युक्ते ( $^{१२}$पथ्येशमध्यमः ? ) ॥ १४६ ॥ द्वाभ्यामेकेन वा ( $^{१३}$स्तुंस्तौ क ? ) मण्डलावस्थितेन च । $^{१४}$विचारितं प्रयोक्तव्यं विहृतं लज्जि( तं )तथा ॥ १४७ ॥ वदनं तत्र कर्तव्यमविकार्यं नतभ्रुवा । वितर्कितमुरोभ्यर्णे मण्डलावस्थितेन तु ॥ १४८ ॥ अधोमुखेन पुरतः कार्यं विश्लिष्यता तथा । मुखं चाविकृतं तत्र कार्यमभ्युन्नते भ्रुवौ ॥ १४९ ॥ शिरस्तु वामतो ( $^{१५}$तँत्र नतं च पुनः ? ) । उभाभ्यां नयनाभ्यां ( तु ) मृगकर्णप्रदर्शनम् ॥ १५० ॥ १ द. न । २ मुद्रितपुस्तके ‘नैपुणं तून्नतशिराः सत्त्वे कृत्वोन्नतां भ्रुवम्’ इति स्यात् । ३ द. °रा वामां । ४ द. भ्रू । ५ द. विकृतिं । ६ द. भ्रुकु° । ७ द. तं णिरः । परन्तु मुद्रितपुस्तके ‘भ्रुकुटीविनतं शिरः’ इति स्यात् । ८ द. शये° । ९ मुद्रितपुस्तके ‘दर्शयेदातुरं नरम्’ इति स्यात् । १० द. नुत्तान्ये । ११ द. चैव कैतवेव वि° । १२ मु. पु. ‘पथ्ये शमे यमे’ इति वा, ‘पथ्ये च मध्यमे’ इति वा स्यात् । १३ द. ‘स्तु’ नास्ति; मुद्रितपुस्तकं ‘स्तोकं’ इति स्यान् । १४ मु. ‘विवृतविवरितरचितम्’ इति तु मुद्रित मुनि पाठः । १५ द. °तो तस्रन्नतं च पुरः पुनः ।
पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६५१ कार्यं तद्देशवर्तिभ्यां सभ्रूक्षेप(पं) विचक्षणैः । उत्तानेन युतेनाथ पत्राकारं प्रदर्शयेत् ॥ १५१ ॥ हस्तेन (चँतुराखे१ ?) विनमय्य ध्रुवं मनाक् । लीलां रतिं स्मृतिं बुद्धिं संज्ञामार्या२विचारणा(:) ॥ १५२ ॥ सङ्गतं प्रें३णयं (शौ४चमावर्त्य५ ?) भावमक्षमम् । पुष्टिं (सविच६ ?)शीलं च चातुर्यं मार्दवं सुखम् ॥ १५३ ॥ प्रस्तं७(श्रं) वार्त्तां८ च वेषं च युक्तिं दाक्षिण्ययौवने । विभर्वाविभवौ स्तोकं सुरतं (सद्वरं९ ?) मृदु ॥ १५४ ॥ गुणागुणौ१० गृहा द्वारा वर्णा नानाविधाश्रै११याः । चतुरेणाभिनेतव्यास्ते१२ सर्वेऽपि यथोचितम् ॥ १५५ ॥ क्वचित् प्रभावता क्वापि (अम्रता ?) मृदुना क्वचित् । प्रतीतिर्जायतेऽर्थस्य यस्य यस्य यथा यथा ॥ १५६ ॥ प्राज्ञैस्तथा तथा शीर्षैरभिने१३यौन्युत्य(क्त)पाणिना । भ्रूदृष्टि१४(चकुरगोश्च ?) कार्यास्तदनुसारतः ॥ १५७ ॥ मण्डलस्थेन हस्तेन पीतं रक्तं च दर्शयेत् । किञ्चिन्नतभ्रूः शिरसा परिमण्डलितेन च ॥ १५८ ॥ तेनँ दूभू(प्र)दर्शयेत् कृष्णं(ष्णं) नीलं च परिमृद्व्रताँ१५ । चतुरेण कपोतादीन् वर्णान् स्वाभाविकेने च ॥ १५९ ॥ इति चतुरः ॥ मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । ऊर्ध्वमन्ये (प्रँ१६कीर्णी + अङ्गुल्यो ?) भ्रमरे करे ॥ १६० ॥
१ द. चतुराख्ये; मुद्रितपुस्तके ‘चतुराख्येन’ इति स्यात् । २ द. यां । ३ द. णं । ४ द. प्रयणं शौचं मावर्यं भावनं क्षमं । ५ मुद्रित पु. ‘शौचं माधुर्य’ इति मुनि सम्मतः पाठः । ६ द. मु । ७-८ द. व । ९ मु. ‘शाद्वलं’ इति स्यात् । १० द. ॅणैर्गुँ । ११ द. श्रयः । १२ द. ॅणास्तिनतव्याँ । १३ द. ॅये भ्युद्ग पाणिना । १४ द. नतद्भूः दृँ । १५ द. ॅमृद्वता । १६ मु. पुस्तके ‘प्रकीर्णे द्वे अङ्गुल्यौ’ इति स्यात् । द. प्रकीर्णे ।
६५२ समराङ्गणसूत्रधारे कुमुदोत्पलपद्मानां ग्रहणं तेन पाणिना । तथैव दीर्घवृन्तानामन्येषामपि रूपयेत् ॥ १६१ ॥ कर्णपूरो¹ विधातव्यः कर्णदेशे स्थितेन च । दृष्टिभ्रुवौ² चाभिन्ना( नद्ये ) तेषां कार्यं³ करानुगे⁴ ॥ १६२ ॥ इति भ्रमरौ( र ): ॥ तर्जनीमध्यमाङ्गुष्ठाभू( श्चे )ताग्रिस्था निरन्तरा( : ) । भवेयुर्हंसवक्त्रस्य (⁶शेष सम्प्रसारिता ?) ॥ १६३ ॥ किञ्चित् प्रस्पन्दिताङ्गुष्ठेनामुनोत्क्षिप्य च भ्रुवौ । निस्सारमल्पं सूक्ष्मं च दर्शयेन्मृदुलं लघु ॥ १६४ ॥ कर्तव्यो( व्ये )ऽभिनये चैषां दृग्भ्रुवौ च करानुगे । इति हंसवक्त्रः ॥ अङ्गुल्यः प्रसृतास्तिस्रस्तथा चोर्ध्वा कनीयसी ॥ १६५ ॥ अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः । उत्तानेन बहिस्तिर्यग् ⁸ग्रीवायजलभूषणम् (?) ॥ १६६ ॥ कर्तव्यं⁹ १० तेन गण्डस्य रूपस्य ( गण्डवर्तनम् ? ) । कुर्वीत चैनमुत्तानं भोजने चै¹¹ प्रतिग्रहे ॥ १६७ ॥ तथाचमनकार्ये च कर्तव्योऽयं द्विजन्मनाम् । अधस्तादैन्तयोरेनं¹³ कुर्यात् स्वस्तिकयोगिनम् ॥ १६८ ॥ किञ्चिन्नतेन शिरसा ( यै¹² परि यथारसम् ? ) । उभाभ्यां पार्श्वयोस्तिर्यग्वैताभ्यां स्तम्भदर्शने( नम् ) ॥ १६९ ॥ कुर्वीतैकेन रोमाञ्चं¹⁴ वामबाहुप्रसर्पिणा । संवाहनेऽनुलेपे च स्पर्शे तर्दि( द्दे )शवर्तिनम् ॥ १७० ॥ १ द. रे । २ द. न्तयां । ३ द. र्य । ४ द. मे । ५ द. रः । ६ मुद्रितपुस्तके 'शेषे द्वे सन्प्रसारिते' इति स्यात् । द. प्रतौ 'द्वे सम्प्रसारता' । ७ द. चक्रः । ८ मु. पुस्तके 'स्तिर्यङ् निवापजलमोक्षणम् । ९ द. नि । १० द. व्यस्ते । ११ द. त्ति । १२ द. न । १३ द. दश । १४ मु. पु. इह कियांश्चिदंशो लुप्तः सम्भाव्यते । १५ द. ञ्च । १६ द. न ।
पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६५३ विषादे विभ्रमे स्त्रीणां (१स्तन्यं तत्स्थं यथा रसः ? ) । अधस्तलं प्रयुञ्जीत ह( त )थैनं हनुधारणे ॥ १७१ ॥ अस्यानुयायिनी( नीं ) दृष्टिं पाणेः कुर्याद् २भ्रुवौ तथा । इति हंसपक्षः ॥ तर्जन्यङ्गुष्ठसन्दंश( ४स्व ५रोदनस्य ? ) यदा भवेत् ॥ १७२ ॥ आनुत( भुग्न )तलमध्यश्च सन्दंश इति स स्मृतः । स चाग्रमुखपार्श्वका( र्श्वा )नां भेदेन त्रि( वि )धो भवेत् ॥ १७३ ॥ तं पुष्पावचये पुष्पर्माग्रंथ( ग्रथ )ने च ६प्रयोजयेत् । तृणपर्णग्रहे ७केशसूत्रादिस्तथापरे( ? ) ॥ १७४ ॥ ८श( शि )ल्पैकादेशग्रहणे त्वग्रस्त( सं )दंशकं स्थिरम् । आकर्षणात्( णे ) तथा कृष्णे( ? ) वृन्ता( त् ) पुष्पस्य चोद्धृतौ ॥ विदध्यादेवमेवैनं शलाकार( दि )निरूपणा( णे ) । रोषे धिगिति वाक्ये च बहिर्भागप्रसर्पिणम् ॥ १७६ ॥ ( यज्ञोपचितं ? ) तत्प्रदेशे१० स्थितेन च । उत्तानेनोरसोऽग्रे तु संयुतेन च ( १२निर्धूतम् ? ) ॥ १७७ ॥ ( वचनं वलहा किञ्चित् समध्येनाधोमुखेन च ? ) । ग्रहणं गुणसूत्रस्य बाणलक्षनिरूपणम् ॥ १७८ ॥ ध्यानं योगं च हृद्देशवर्तिना संप्रदर्शयेत् । ( १३स्तोकतिभिन्ना ये ? ) कर्तव्यः संयुक्तस्तूरसः१४ पुरः ॥ १७९ ॥ कुत्सास्त( सू )याकोमलेषु सदोषवैचनेषु१५ च । विवर्तिताग्रः कर्तव्यो वामो विघटितो मनाक् ॥ १८० ॥ प्रवालरचने वर्तिग्रहणे नेत्ररञ्जने । आलेख्ये चैष कर्तव्यस्तथालक्तकपीडने ॥ १८१ ॥ १ द. स्तनां । मुद्रितपुस्तके 'स्तनान्तःस्थं यथारसम्' इति स्यात् । २ द. भ । ३ द. न्या । ४ मुद्रितपुस्तके 'स्वरालयस्य' इति स्यात् । ५ द. रा । ६ द. माग्रथ । ७ द. श्र । ८ द. को । मुद्रितपुस्तके 'केशसूत्रादेश्च परिग्रहे' इति स्यात् । ९ द. शल्यैकदेश° । १० द. ष्णा । ११ द. श । १२ द. निर्डूनम् । मुद्रितपुस्तके 'वेधनम्' इति स्यात् । १३ द. स्तोकभिनये; मुद्रितपुस्तके 'स्तोका- भिनये' इति स्यात् । १४ द. स्तु । १५ द. °पर्वं च तेषु च ।
६५४ समराङ्गणसूत्रधारे अस्य भ्रुवौ च दृष्टिं च कुर्यादनुगतां ततः। ( इति सन्दंशः ॥ ) समागताग्रसहिता यस्याङ्गुल्यो भवन्ति हि ॥ १८२ ॥ ऊर्ध्वं हंसमुखस्येव स भवेन्मुकुलः करः। कर्तव्यः संहतोऽभ्रान्तो मुकुलाम्भोरुहादिषु ॥ १८३ ॥ पुरः प्रसर्य्य (र्यो )ञ्चलितः कर्तव्यो विटचुम्बकः। इति मुकुलः ॥ पद्मकोशस्य हस्तस्य अ(त्व)ङ्गुल्यः कुञ्चिता यदा ॥ १८४ ॥ ऊर्णनाभः स विज्ञेयश्चौर्यकेशग्रहादिषु । चौर्यकेशग्रहे चैष कर्तव्योऽधोमुखः सं( क )रः ॥ १८५ ॥ शिरःकण्डूयने मूर्ध्नः प्रदेशे प्रचलन्मुहुः । ( तैर्यकवर्ती ? ) विधातव्यः कुष्ठव्याधेर्निरूपणे ॥ १८६ ॥ अधोमुखः ( स्थितेनाथः ? ) सिंहव्याघ्रादिरूपणे । कार्यो भ्रुकुटिवक्त्रेण संयतोऽस्य ग्रहस्तथा ॥ १८७ ॥ अत्रापि दृष्टिभ्रूकर्म प्राग्वदेव विधीयते । इत्यूर्णनाभः ॥ मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ॥ १८८ ॥ मृगव्यालादिविश्वासं( त्रासे ) बालसन्धारणे तथा । अयं हस्तो विधातव्यो भर्त्सने भ्रुकुटीयुतः ॥ १८९ ॥ सिंहव्याघ्रा( दि )योगे च विच्युतः शब्दवान् भवेत् । दृष्टिभ्रुवौ च कर्त(व्यौ न्य ? )त्यमस्यानुगे बुधैः ॥ १९० ॥ अपरे( रैः ) च्छिदितासंज्ञो( ? ) हस्तोऽयं परिकीर्तितः। इति ताम्रचूडः १४ ॥ अलं( सं )युतानां हस्तानां चतुर्विंशतिरीरिता ॥ १९१ ॥ १ द. वृ। २ द. मता। ३ द. र। ४ द. र्द्धा। ५ द. लं। ६ द. न्तानो। ७ द. 'च' स्थाने 'त्व'। ८ द. सदा। ९ मुद्रितपुस्तके 'तिर्यग्वर्ती' इति स्यात्। १० द. क्ता। ११ मु. इत उत्तरमवशिष्टं लक्षणवाक्यं 'शेषे तलस्थे कर्तव्ये ताम्रचूडकरेऽङ्गुली' इति मुन्युक्तदिशा पूरणीयम्। १२ द. श्वास। १३ द. व्यो नि; मुद्रित प्रतौ 'व्ये नि' इति स्यात्। १४ द. लः।
पताकादिचतुष्षष्टिसस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६२९ त्रयोदशार्थं कथ्यन्ते संयुता नामलक्षणैः । अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ १९२ ॥ खॅटको(का) वर्धमानश्चाप्यस(प्युत्स)ङ्गनिषधावपि । डोलः पुष्पपुटस्तदूनन्मकरो गजदन्तकः ॥ १९३ ॥ (वैरित्वादश कथ्यन्ते संयंता नामलक्षणैः । अँञ्जलिश्च कपोतस्यं कर्कटः स्वस्तिकस्तथा ?) ॥ १९४ ॥ त्रयोदशैते कथिता हस्ताः संयुक्तसंज्ञिताः । पताकाभ्यां तु हस्ताभ्यां संश्लेषात् सोऽञ्जलिः स्मृतः ॥ १९५ ॥ शिरश्च विनतं किञ्चित् तत्र कार्यं विपश्चिता । कार्यो गुरुनमस्कारो मुखस्यासन्नवर्तिना ॥ १९६ ॥ (पेक्षते न ?) मित्राणां न स्थाननियमः (क्रुंधे ?) । इत्यञ्जलिः ॥ उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहः(ह्यात्) ॥ १९७ ॥ (स ?) हस्तः कपोतनामो (स्यात्) कर्म चास्याभिधीयते । (कुर्यात् प्रणमनं) वक्षःस्थितेन (तु) (न) मच्छिराः ॥ १९८ ॥ गुरुसंभाषणं कुर्यात् स्त(ते)न शीतं भयं तथा । विनयस्याभ्युपगमे चायमित्यभिधीयते ॥ १९९ ॥ (ते)नैवाङ्गु(लि)संघृष्यमाणमुक्तेन पाणिना । (ऐतान् वदति ?) नेदानीं कृत्यंधो(चे)ति प्रदर्शयेत् ॥ २०० ॥ (एवंरूपो पमे च रूपेण ?) ( इति कपोतः ॥ ) अङ्गुल्यो यस्य हस्तस्यान्योन्याभ्यन्तरनिःस्रुताः । स कर्कट इति ज्ञेयः (करः) कर्मास्य कथ्यते ॥ २०१ ॥ १ द. य । २ द. व्यञ्जालिश्च कद्यन्तश्च कर्टटः स्तशिकं । ३ द. खे । ४ द. दो । ५ द. बहिरस्थो दशा कं ; मुद्रितपुस्तके अयं श्लोकोऽशुद्धः पुनरावर्तितश्च । अस्य स्थाने 'अवहित्थाभिधानश्च वर्धमानस्तथापरः' इत्येवजातीयमेकमर्ध निवेशनीयम् । ६ द. अञ्ज । ७ द. श्र । ८ द. दङ्गं । ९ मुद्रित पुस्तके 'वक्षःस्थितेन' इति स्यात् । १० मु. 'क्रियाः' इति स्यात्; 'वक्षःस्थश्चैव मित्राणां स्त्रीणां कार्यो यथेप्सितः' इति नाट्यशास्त्रे दर्शनात् । इह प्रपन्नन्तस्य 'नमस्कारे' इति प्रक्रमागतसप्तम्यन्तेन सम्बन्धो ज्ञेयः । ११ द. म । १२ मु. पु. 'एतावदिति' इति स्यात् । १३ द. स्त्र ।
६५६ समराङ्गणसूत्रधारे समुन्नतशिराः किञ्चिदुत्क्षिप्तभ्रूश्च जृम्भणम् । अनेनैवाङ्गमर्ध( र्दं ) च कामार्तानां निरूपयेत् ॥ २०२ ॥ ( इति कर्कटः ॥ ) उत्तानौ वामपार्श्वो( र्ध्वस्थौ ) स्वस्तिकः परिकीर्तितः । समन्ततस्तदूर्ध्वं च विस्तीर्णं च ( व ) नानि च ॥ २०३ ॥ ऋज( त )वो गगनं मेघा ( २++ तेनार्थवर्तिना ? ) । इति स्वस्तिकः ॥ खटकः खटके न्यस्तः खे( ख )टकावर्धमानयो( क )ः ॥ २०४ ॥ शृङ्गारार्थे प्रयोक्तव्याँ( व्यः ) परावृत्तस्तथापरः । कार्यौ विटगतौ नम्रमूर्धा४ + तत्प्रमाणतः ॥ २०५ ॥ इति खटकः ॥ अरालौ तु विपर्यस्तावृत्तानौ वर्धमानकौ । ( उत्सङ्ग इति५ ज्ञेयः + स्पर्शग्रहणे करः ? ) ॥ २०६ ॥ उत्सङ्गसंज्ञकौ स्यातां हस्तौ तत्कर्म चोच्यते । विनियोगस्तयोः कार्यः ( बालकः प्रहरेण तु ? ) ॥ २०७ ॥ ८ति( वि )धोतव्याविमौ हस्तौ स्त्रीणामीर्ष्यायिते तथा । दक्षिणं वापि मान( वामं वा न्य )स्येत् कूर्परमध्यगम् ॥ २०८ ॥ ( इत्युत्त्सङ्गः१३ ॥ ) ( अँस्यो ? ) प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ । यदा भवेतां करण ( णे ) स दोल इति ( सं )स्मृतैः ॥ २०९ ॥ ( इति दोलः ॥ ) यस्तु सर्पशिराः१६ प्रोक्तस्तस्याङ्गुलिनिरन्तरः । द्वितीय( ः )पार्श्वसंश्लिष्टः स तु पुष्पपुटः ( पैराणि च ॥ २१० ॥ १ इह लक्षणवाक्ये एकमर्धं लुप्तम् । तत्तु ‘मणिबन्धनविन्यस्तावरालौ स्त्रीप्रयोजितौ’ इति मुनि- प्रदर्शितदिशा योज्यम् । २ इह कियांश्चिदंशो लुप्तः । ३ द. व्या । ४ द. र्धा । ५ द. विज्ञेयः । ६ द. °संज्ञितौ । ७ द. स्तथो कायो । ८ द. इति । ९ द. ध्या । १० द. मीश्वरष्याँ । ११ द. चापि मानस्येत् । १२ मुद्रितपुस्तके इत उपरि निषधहस्तलक्षणं तत्कर्म च लुप्तम् । १३ द. प्रतौ नास्ति । १४ द. असौ । १५ इतः परमस्यू कर्माणि लुप्तानि । १६ द. रः । १७ अत्रापि ग्रन्थांशस्य लोप संभाव्यते ।
पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६५७ ग्रास्यांन्यथो योनि यानि ? ) द्रव्याण्येतेन दर्शयेत् । जलादानापयने कुर्यात् ++++++ ॥ २११ ॥ ( इति पुष्पपुटः ॥ ) पताकौ तु यदा हस्तावृर्ध्वाङ्गुष्ठावधोमुखौ । उपर्युपरि विन्यस्तौ तदासौ मकरध्वजः ॥ २१२ ॥ ( इति मकरः ॥ ) (कूर्परौ ?) संन्थितौ हस्तौ यदा स्तां सर्पशीर्षकौ । गजदन्तः स विज्ञेयः करः कर्मास्य तस्य वै ॥ २१३ ॥ ( इति गजदन्तः ॥ ) शुकतुण्डौ करौ कृत्वा वक्षस्यर्भिमुखाञ्चितौ । शनैरधोमुखाविद्वौ (सौर्बहिस्थ्ल ?) इति स्मृतः ॥ २१४ ॥ उ(क्त?)त्कण्ठाप्रभृतीनि च कुर्यादेतेन हस्तेन । इत्यवहित्थंः ॥ वर्धमानः स विज्ञेयः कर्म चास्य निगद्यते ॥ २१५ ॥ [ एतेन सत्यवचनं परिग्रहे सग्रहस्तथा । संखेयकल्पश्चानेन निपीडितेन कर्तव्यः ॥ २१६ ॥ अनैयपि नीहगेषां ++ कौञ्चौ च कार्यौ । नलिनीपद्मकोशश्च तथा गरुडपक्षकाः ? ] ॥ २१७ ॥ एतेषां वृ(वृ)त्तहस्तत्वेऽप्यभिंनेत्युपयोगिता(म्) । समा ++ जितां तत्र स्वयमभ्यु॑ह्य कल्पये(त्) ॥ २१८ ॥ १ द. ह्या । २ द. यने । ३ द. कू । मु. पु. ‘कूर्परे’ इति स्यात् । ४ द. सा । ५ शिष्टं लुप्तम् । ६ द. नि । ७ द. वि । ८ मु. पु. ‘सोऽवहित्य’ इति स्यात् । ९ द. स्थः । १० लक्षण- वाक्ये पूर्वार्धं लुप्तम् । तच्च ‘हंसपक्षौ यदि स्यातां पूर्वमुखौ पराङ्मुखौ’ इत्येवजातीयं योज्यम् । ११ इत उत्तरं ग्रन्थशरीरे दृश्यमानमिदमशुद्धं वाक्यजातं निषधहस्तकर्मप्रदर्शकाद् वाक्यादिह प्रक्षिप्तं प्रक्रमान्तरे संक्रामितं चेति संभाव्यते । १२ द. हः । १३ द. संक्षेप । १४ द. अनुयायिनी । १५ द. ध्रुवौ च कार्ये । १६ द. ति । १७ द. नां त । १८ भ्यू । ना, ८३
६५८ समराङ्गणसूत्रधारे (चे$^१$)ष्ट्याङ्गेन हस्तेन प्रयोगः सत्त्वकैरपि । गण्डोष्ठे$^२$नासापार्श्वोरुपौदच(चा)रा(म्भैं ?)दिभिस्तथा ॥ २१९ ॥ यथा यथा प्रतीतिः स्यात् प्रयतैत तथा तथा । कृतानुकरणं ++++++++++ ॥ २२० ॥ लक्षणं वृ(नृ)त्तहस्तानामिदानीमभिधीयते । चतुरश्रौ तथोद्वृत्तौ स्वस्तिकौ विप्रकीर्णौ (र्णकौ) ॥ २२१ ॥ (पद्मकोशाभिधानौ) चाप्यरालखटकामुखौ ! अ(आ)विद्धवक्त्रकौ (सूचीमुद्धरेविव ?)संज्ञकौ ॥ २२२ ॥ अर्धरेचितसंज्ञौ तु तथैवोत्तानवञ्चितौ । पल्लवाक्षो(ख्यौ) ('निरावोऽथ?) केशबन्धौ लताकरौ ॥ २२३ ॥ करिहस्तौ$^{१०}$ तथा पक्षवञ्चिताक्षौ (ख्यौ) ततः (परम्) । (पक्षे$^{१२}$ प्रद्योतकरेण्याच ?) तथा गरुडपक्षकौ ॥ २२४ ॥ ततश्च दण्डपक्षाख्यावूर्ध्वमण्डलिरौ$^{१३}$ ततः । पार्श्वमण्डलिनौ तद्वदुरोमण्डलिनावपि$^{१४}$ ॥ २२५ ॥ अनन्तरं करौ ज्ञेयावुरःपार्श्वार्धमण्डलौ । मुष्टिकस्वस्तिकाख्यौ च नलिनीपद्मकोशकौ ॥ २२६ ॥ ततश्च कथितौ हस्तावलपल्लवकोल्बणौ । ललितै। वलितप(ता)ख्यावित्येकोनत्रिंशदीरिता$^{१५}$ ॥ २२७ ॥ पुरस्ताद् वक्षसा(सो)हस्तौ प्रदेशेऽष्टाङ्गुले स्थितौ । समान(कूर्परशौ$^{१६}$?) तु संमुखौ खटकामुखौ ॥ २२८ ॥ चतुरश्राविति प्रोक्तौ$^{१७}$ वृत्तहस्तविशारदैः । इति चतुरश्रौ$^{१८}$ ॥ तावेव हंसपक्षाख्यौ व्यावृत्ता$^{१९}$परिवर्तनात् ॥ २२९ ॥ १ द. चेष्टायां । २ द. ण्डोष्ठा । ३ द. पदे । ४ द. च भ दिं । ५ द. चालप्य । ६ द. सूचीमुखौ रेचितं; मुद्रितपुस्तके 'सूचीमुखरेचित' इति स्यात् । ७ द. च । ८ मु. पु. 'करौ चाथ' इति स्यात् । ९ द. न्धो । १० द. स्तो । ११ द. तौ क्षौ करौ ततः । १२ मु. पु. 'पक्षप्रद्योतकौ चैव' इति स्यात् । १३ द. पूर्व । १४ द. द । १५ 'प्रदर्शितक्रमेणाष्टाविंशतिरेवोपलभ्यते । १६ मु. पु. 'कूर्परासौ' इति स्यात् । १७ द. क्रा वृ । १८ इत उपरि उद्वृत्तस्वस्तिकयोर्विविक्तं लक्षणमादर्श लुप्तमिति भाति । १९ द. त्त ।
पताकादिचतुष्षष्ठिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६५९ नीतौ स्वस्तिकतां पश्चात् पं(च्छ्या)वितौ मणिबन्धनात् । (विप्रकीर्णाविति प्रोक्तौ) ²नृत्ताभिनयकोविदैः ॥ २३० ॥ इति विप्रकीर्णः । तावेव हंसपक्षाख्यौ कृत्वा व्यावर्तनक्रियाम् । अलपल्लवतां नीतौ ततश्च परिवर्तितौ ॥ २३१ ॥ विधायोर्ध्वमुखौ हस्तौ कर्तव्यौ पद्मकोशकौ । (इति पद्मकोशकौ ॥) पुनर्विवर्तितं कृत्वा परिवर्तनकं ततः ॥ २३२ ॥ अरालं दक्षिणं कुर्याद् वामं च³ खटकः सु(कामु)खम् । खटकाख्यास्त्रयो हस्ताः(?) स्वक्षेत्रेऽसौ विधीयते ॥ २३३ ॥ इत्यरालखटकामुखौ ॥ भुजांस॑र्कूर्परैः सार्धं कुटिलावर्तितौ यदा । हस्तामधोमुखतलावाबिद्धावुद्धतावुभौ ॥ २३४ ॥ (वि)नतौ नामतो (विंष्याद् दीर्नाना ?) विद्धव॑क्रकौ । अ(आ)विद्धवि॑िक्रंकौ चैव गदावेष्टनयोगतः ॥ २३५ । (इतविद्धवक्रकौ ॥) (रचितौ सलावर्तितौ) यदा (तु) सर्पशिरसौ तलस्थाङ्गुष्ठकौ करौ । (¹¹तेयकास्थौ) प्रसृताग्रौ च (शैलन्यासो भरस्तदा ?) ॥ २३६ ॥ इति सूचीमुखौ¹³ ॥ हस्तौ सूचीमुखा ते च(वेव) मणिबन्धनविच्युतौ । व्यावृत्तिपरिवृत्तिभ्यां वर्तितौ तदनन्तरम् ॥ २३७ ॥* १ द. पा विं० । २ द. नृ । ३ द. त्र खटकः मुखं । ४ द. स्तयो हस्तः । ५ द. नास्ति । ६ द. भुजांस......नामतो ' ॥२३४॥ लुप्तं वा खंडितम् । ७ मुद्रितपुस्तके 'विद्यादिमावा' इति स्यात् । ८ द. वीमाना । ९ मुद्रित पुस्तके 'वक्त्रकौ' इति लक्ष्यनिर्देशे दृश्यते; द. 'द्व चं' । १० द. कावेव गदो° । ११ मुद्रितपुस्तके 'तिर्यक्स्थौ' इति स्यात् । १२ मुद्रित पु. 'सूच्याख्याख्यौ करौ तदा' इति स्यात् ; द. शून्या° १३ द. ०ख्यौ । १४ द. वर्ति° ।
- २३७ संख्याकश्लोकादनन्तरं द. प्रतौ पत्रं त्रुटितम् ।
६६० समराङ्गणसूत्रधारे हंसपक्षत्वमानीय कुर्यात् कमलवर्तिताम् । तथा द्रुतभ्रमौ कृत्वा रेचितौ पार्श्वयोः शनैः ॥ २३८ ॥ रेचिताचित(विति)विज्ञेयौ हस्तौ हस्तविशारदैः । इति रेचितौ ॥ व्यावृत्तपरिवृत्तिभ्यां वर्तितौ चतुरश्रवत् ॥ २३९ ॥ कूर्परांसावि(श्वि)तौ हस्तौ नीतौ च त्रिपताकताम् । (शंकिञ्चि आश्रस्थितावेतौ ज्ञेयावुत्तानवञ्चितौ ? ) ॥ २४० ॥ इत्युत्तानवञ्चितौ ॥ बाहू(हु)वर्तनया कृत्वा पूर्वव्यावर्तितक्रियाम् । चतुरश्रक(? )परिवृत्तिभ्यां चतुरश्रः कृता(तो) यदा ॥ २४१ ॥ वामहस्त(स्त)दितरः (कृत्वादेष्वित ?)रेचितः करः । अर्धरेचितसंज्ञौ तौ विज्ञातव्यौ तदा बुधैः ॥ २४२ ॥ इत्यर्धरेचितौ ॥ बाहू(हु)वर्तनया बाहुशीर्षद्वौ(र्षाद् व्या)वर्तनेन वा । करणेन वि(निष्)क्रान्तौ (३मितं ?) वाभ्यर्णमागतौ २४३ ॥ पतकावेव निर्दिष्टौ पल्लवौ नामतः करौ । इति पल्लवौ ॥ उद्वेष्टितवर्तनया गत्या (वॅसंत्रास्रया ? ) स्थितौ मूर्द्ध्नः । पार्श्वद्वितये पल्लवसंस्थने(नौ) केशबन्धाख्यौ ॥ २४४ ॥ इति केशबन्धौ । अभिमुखमुखौ निविष्टौ (भुवेष्टितवर्तनक्रमादसौ ? ) । पल्लवहस्तौ पार्श्वद्वितये स्यातां लतासंज्ञौ ॥ २४५ ॥ इति लताहस्तौ ॥ १ मु. पु. अयं सार्धश्लोकः अर्धरेचितलक्षणानन्तरं निवेश्यो भाति । २ मु पु. ‘किञ्चित् त्र्यश्र- स्थितवितौ ज्ञेयावुत्तानवञ्चितौ’ इति स्यात् । अक्षरसाम्यादेवमुन्नीतम् । ‘किञ्चित् तिर्यक्तलावि’ति तु मुद्रितमुनिपाठः । ३ मु. पु. ‘यदि’ इति स्यात् । ४ मु. पु. ‘च स्रस्तया’ इति स्यात् ।
पताकादिचतुष्षष्ठिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६६१ व्यावर्तितकरणाभ्यां ( करिहस्ते ) दक्षिणो लताहस्ता ( स्त ) ः । उन्नतविलोलितः स्यात् त्रिषक्त( पता )को वामहस्तस्तु ॥ २४६ ॥ इति करिहस्तः ॥ उद्वेष्टित( परि ? )वर्तनया त्रिपताकावभिमुखौ यदा घटितौ । करिहस्तसन्निविष्टौ करौ तदा पक्षवञ्चितकौ ॥ २४७ ॥ इति पक्षवञ्चितकौ ॥ तावेव त्रिपताकौ हस्तौ कटिशीर्षसन्निविष्टाग्रौ । विपरावृत्तिविधानात् पक्षप्रच्योतकौ नाम्ना ॥ २४८ ॥ इति पक्षप्रच्योतकौ १ ॥ ( त्रिंप शाखौ हस्तावधोमुखा हि तद् २ ? ) विज्ञेयौ गरुडपक्षाख्यौ । इति गरुडप(क्ष)कौ ३ । [ आवर्तितपरिवर्तितकरणकृतौ हंसपक्षकौ गम् ॥ २४९ ॥ पक्षतिरूपत्वमानान्तौ प्रसृतौ च यदा भवेत् उपक्षौ । *व्यावर्तितपरिवर्तितयोगौ यदि मण्डलाकृती स्याताम् ॥ २५० ॥ ऊर्ध्ववर्तितादघवदा स्मृतावूर्ध्वमण्डलिनौ । तथोर्ध्वमण्डलिसंज्ञौ वावर्तितं विधाया परिवर्तितकरणतारौ ॥ ऽ इति पार्श्वमण्डलिनौ ॥ १ ‘पक्षप्रयोतकौ इति उद्देशानुसरेण पाठ्यम् । २ वलयान्तर्गतमशुद्धप्रायं लुप्तकतिपयपदमिदं वाक्यम् ‘अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षको’ इति मुनिना सङ्गृहोक्तं लक्षणवाक्यमवष्टभ्य शोधनीयम् । ‘त्रिपताकौ’ इति विशेष्यम् । ३ इत उपरि श्लोकत्रयं दण्डपक्षोर्ध्वमण्डलिपार्श्वमण्डल्युरोमण्डल्याख्यानां चतुर्णां हस्तविशेषाणां लक्षणप्रदर्शनपरमशुद्धपदप्रक्षेपादिना तथा मिश्रितं यथा तत् प्रायो विवेक्तुमपि न पार्येत । अतस्तदर्थज्ञानाय मुन्युक्तं तल्लक्षणमिह प्रदर्श्यते । यथा—‘‘हंसपक्षकृतौ हस्तौ व्यावृतपरिवर्तितौ तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ ऊर्ध्वमण्डलिनौ हस्तादूर्ध्वदेशविवर्तनात् । तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥ उद्वेष्टितो भवेदेको द्वितीयश्चापवेष्टितः । आञ्चितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥’ ( नाट्यशा० अ० ९, श्लो० १७९-१८१ ) इति ।
- इत उपरि श्लोकानां यथावद् विभागाद्यनुपलम्भात् संख्या न निवेशिता ।
६६२ समराङ्गणसूत्रधारे उद्वेष्टितौ यदैक एव भ्रमित उरसः स्थाने तौ द्वावपि स्याताम् ? ] नियतमुरोमण्डलिनौ विज्ञातव्यौ तदा तज्ज्ञैः । इत्युरोमण्डलि(नौ) ॥
-
-
- पल्लवो हस्तस्तथाराला( हा वापरा ? ) । व्यावर्तनाकृतश्चैकस्तयोरन्योपवेष्टनात् ॥ उरोर्धयोगात् पार्श्वार्धयोगाच्च क्रमशः( स्थितौ ) । ( एतौ विद्वा )न् विजानीयादुरःपार्श्वार्धमण्डलौ ॥ * ( इत्युरःपार्श्वार्धमण्डलौ ॥)
-
शुभं भूयात् ॥
- एतावानेव ग्रन्थ उपलभ्यते हस्तलिखितादर्शे ।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह पृष्ठ रिक्त (कोरा) है।
CATALOGUED.
Central Archaeological Library, NEW DELHI. 64800 Call No. Sa TV/ Bho/ Gan Author— Ganapati Shastri Title— Samarangaṇa- Sutradhara - Borrower No. | Date of Issue | Date of Return