समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 718, कुल 726 में से
संदर्भ में पढ़ेंपताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६५७ ग्रास्यांन्यथो योनि यानि ? ) द्रव्याण्येतेन दर्शयेत् । जलादानापयने कुर्यात् ++++++ ॥ २११ ॥ ( इति पुष्पपुटः ॥ ) पताकौ तु यदा हस्तावृर्ध्वाङ्गुष्ठावधोमुखौ । उपर्युपरि विन्यस्तौ तदासौ मकरध्वजः ॥ २१२ ॥ ( इति मकरः ॥ ) (कूर्परौ ?) संन्थितौ हस्तौ यदा स्तां सर्पशीर्षकौ । गजदन्तः स विज्ञेयः करः कर्मास्य तस्य वै ॥ २१३ ॥ ( इति गजदन्तः ॥ ) शुकतुण्डौ करौ कृत्वा वक्षस्यर्भिमुखाञ्चितौ । शनैरधोमुखाविद्वौ (सौर्बहिस्थ्ल ?) इति स्मृतः ॥ २१४ ॥ उ(क्त?)त्कण्ठाप्रभृतीनि च कुर्यादेतेन हस्तेन । इत्यवहित्थंः ॥ वर्धमानः स विज्ञेयः कर्म चास्य निगद्यते ॥ २१५ ॥ [ एतेन सत्यवचनं परिग्रहे सग्रहस्तथा । संखेयकल्पश्चानेन निपीडितेन कर्तव्यः ॥ २१६ ॥ अनैयपि नीहगेषां ++ कौञ्चौ च कार्यौ । नलिनीपद्मकोशश्च तथा गरुडपक्षकाः ? ] ॥ २१७ ॥ एतेषां वृ(वृ)त्तहस्तत्वेऽप्यभिंनेत्युपयोगिता(म्) । समा ++ जितां तत्र स्वयमभ्यु॑ह्य कल्पये(त्) ॥ २१८ ॥ १ द. ह्या । २ द. यने । ३ द. कू । मु. पु. ‘कूर्परे’ इति स्यात् । ४ द. सा । ५ शिष्टं लुप्तम् । ६ द. नि । ७ द. वि । ८ मु. पु. ‘सोऽवहित्य’ इति स्यात् । ९ द. स्थः । १० लक्षण- वाक्ये पूर्वार्धं लुप्तम् । तच्च ‘हंसपक्षौ यदि स्यातां पूर्वमुखौ पराङ्मुखौ’ इत्येवजातीयं योज्यम् । ११ इत उत्तरं ग्रन्थशरीरे दृश्यमानमिदमशुद्धं वाक्यजातं निषधहस्तकर्मप्रदर्शकाद् वाक्यादिह प्रक्षिप्तं प्रक्रमान्तरे संक्रामितं चेति संभाव्यते । १२ द. हः । १३ द. संक्षेप । १४ द. अनुयायिनी । १५ द. ध्रुवौ च कार्ये । १६ द. ति । १७ द. नां त । १८ भ्यू । ना, ८३